← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
अथाऽप्रकाशग्रहफलाध्यायः
87 verses · Maharshi Parashara
25.1
रव्यादिसप्तखेटानां प्रोक्तं भावफलं मया । अप्रकाशग्रहाणां च फलानि कथयाम्यहम्
25.2
शूरो विमलनेत्रांशः सुस्तब्धो निर्घृणः खलः । मूर्तिस्थे धूमसंज्ञे च गाढरोषो नरः स
25.3
रोगी धनी तु हीनाङ्गो राज्यापहृतमानसः । धूमे द्वितीये सम्प्राप्ते मन्दप्रज्ञो नपु
25.4
मतिमान् शौर्यसम्पन्न इष्टचितः प्रियंवदः । धूमे सहजभावस्थे जनाढ्यो धनवान् भवेत्
25.5
कलत्राङ्गपरित्यक्तो नित्यं मनसि दुःखितः । धूमे चतुर्थे सम्प्राप्ते सर्वशास्त्रार
25.6
स्वल्पापत्यो धनैर्हीनो धूमे पञ्चमसंस्थिते । गुरुत सर्वभक्षं च सुहृन्मन्त्रविवर्ज
25.7
बलवाञ्छत्रुवधको धूमे च रिपुभावगे । बहुतेजोयुतः ख्यातः सदा रोगविवर्जितः
25.8
निर्धनः सततं कामी परदारेषु कोविदः । धूमे सप्तमगे जातो निस्तेजाः सर्वदा भवेत्
25.9
विक्रमेण परित्यक्तः सोत्साहो सत्यसङ्गरः । अप्रियो निष्ठुरः स्वार्थी धूमे मृत्युग
25.10
सुतसौभाग्यसम्पन्नो धनी मानी दयान्वितः । धर्मस्थाने स्थिते धूमे धर्मवान् बन्धुवत्
25.11
सुतसौभाग्यसंयुक्तः सन्तोषी मतिमान् सुखी । कर्मस्थे मानवो नित्यं धूमे सत्यपदस्थित
25.12
धनधान्यहिरण्याढ्यो रूपवांश्च कलान्वितः । धूमे लाभगते चैव विनीतो गीतकोविदः
25.13
पतितः पापकर्मा च धूमे द्वादशसङ्गते । परदारेषु संसक्तो व्यसनी निर्घृणः शठः
25.14
लग्ने पाते च सम्प्राप्ते जातको दुःखीपीडितः । क्रूरो घातकरो मूर्खो द्वेषी बन्धुजन
25.15
जिह्मोऽतिपित्तवान् भोगी धनस्थे पातसंज्ञके । निर्घृणश्चाऽकृतज्ञश्च दुष्टात्मा पाप
25.16
स्थिरप्रज्ञो रणी दाता धनाढ्यो राजवल्लभः । सम्प्राप्ते सहजे पाते सेनाधीशो भवेन्नर
25.17
बन्धव्याधिसमायुक्तः सुतसौभाग्यवर्जितः । चतुर्थगो यदा पातस्तदा स्यान्मनुजश्च सः
25.18
दरिद्रो रूपसंयुक्तः पाते पञ्चमगे सति । कफपित्तानिलैर्युक्तो निष्ठुरो निरपत्रपः
25.19
शत्रुहन्ता सुपुष्टश्च सर्वास्त्राणां च चालकः । कलासु निपुणः शान्तः पाते शत्रुगते
25.20
धनदारसुतैस्त्यक्तः स्त्रीजितो दुःखसंयुतः । पाते कलत्रगे कामी निर्लज्जः परसौहृदः
25.21
विकलाक्षो विरूपश्च दुर्भगो द्विजनिन्दकः । मृत्युस्थाने स्थिते पाते रक्तपीडापरिप्
25.22
बहुव्यापारको नित्यं बहुमित्रो बहुश्रुतः । धर्मभे पातखेटे च स्त्रीप्रियश्च प्रियं
25.23
सश्रीको धर्मकृछान्तो धर्मकार्येषु कोविदः । कर्मस्थे पातसंज्ञे हि महाप्राज्ञो विच
25.24
प्रभूतधनवान् मानी सत्यवादी दृढव्रतः । अश्वढ्यो गीतसंसक्तः पाते लाभगते सति
25.25
कोपी च बहुकर्माढयो व्यंगो धर्मस्य दूषकः । व्ययस्थाने गते पाते विद्वेषी निजबन्धुष
25.26
विद्वान् सत्यरतः शान्तो धनवान् पुत्रवाञ्छुचिः । परिधो तनुगे दाता जायते गुरुवत्सल
25.27
ईश्वरो रूपवान् भोगी सुखी धर्मपरायणः । धनस्थे परिधौ जातः प्रभुर्भवति मानवः
25.28
स्त्रीवल्लभः सुरूपांगो देवस्वजनसंगतः । तृतीये परिधौ भृत्यो गुरुभक्तिसमन्वितः
25.29
परिधौ सुखभावस्थे विस्मितं त्वरिमंगलम् । अक्रूरं त्वथ सम्पूर्णं कुरुते गीतकोविदम्
25.30
लक्ष्मीवान् शीलवान् कान्तः प्रियवान् धर्मवत्सलः । पञ्चमे परिधौ जातः स्त्रीणां भव
25.31
व्यक्तोऽर्थपुत्रवान् भोगी सर्वसत्त्वहिते रतः । परिधौ रिपुभावस्थे शत्रुहा जायते न
25.32
स्वल्पापत्यः सुखैर्हीनो मन्दप्रज्ञः सुनिष्ठुरः । परिधौ द्यूनभावस्थे स्त्रीणां व्
25.33
अध्यात्मचिन्तकः शान्तो दृढकायो दृढव्रतः । धर्मवांश्च ससत्त्वश्च परिधौ रन्ध्रसंस्
25.34
पुत्रान्वितः सुखी कान्तो धनाढयो लौल्यवर्जितः । परिधौ धर्मगे मानी स्वल्पसन्तुष्टम
25.35
कलाभिज्ञस्तथा भोगी दृढकायो ह्यमत्सरः । परिधौ दशमे प्राप्ते सर्वशास्त्रार्थपारगः
25.36
स्त्रीभोगी गुणवांश्चैव मतिमान् स्वजनप्रियः । लाभगे परिधौ जातो मन्दाग्निरूपपद्यते
25.37
व्ययस्ते परिधौ जातो व्ययकृत् मानवः सदा । दुःखभाग् दुष्टबुद्धिश्च गुरुनिन्दापरायण
25.38
धनधान्यहिरण्याढ्यः कृतज्ञः सम्मतः सताम् । सर्वदोषपरित्यक्तश्चापे तनुगते नरः
25.39
प्रियंवदः प्र्गल्भाढ्यो विनीतो विद्ययाऽन्वितः । धनस्थे चापखेटे च रूपवान् धर्मतत्
25.40
कृपणोऽतिकलाभिज्ञश्चौर्यकर्मरतः सदा । सहजे धनुषि प्राप्ते हीनाङ्गो गतसौहृदः
25.41
सुखी गोधनधान्याद्यै राजसन्मानपूजितः । कार्मुके सुखसंस्थे तु नीरोगो तनु जायते
25.42
रुचिमान् दीर्घदर्शो च देवभक्तः प्रियंवदः । चापे पञ्चमगे जातो विवृद्धः सर्वकर्मसु
25.43
शत्रुहन्ताऽतिधर्तश्च सुखी प्रीतिरुचिः शुचिः । षष्ठस्थानगते चापे सर्वकर्मसमृद्धिभ
25.44
ईश्वरो गुणसम्पूर्णः शास्त्रबिद्धार्भिकः प्रियः । चापे सप्तमभावस्थे भवतीति न संशय
25.45
परकर्मरतः क्रूरः परदारपरायणः । अष्टमस्थानगते चापे जायते विकलांगकः
25.46
तपस्वी व्रतचर्यासु निरतो विद्ययाऽधिकः । धर्मस्थे जायते चापे मानवो लोकविश्रुतः
25.47
बहुपुत्रधनैश्वर्यो गोमहिष्यादिमान् भवेत् । कर्मभे चापसंयुक्ते जायते लोकविश्रुतः
25.48
लाभगे चापखेटे च लाभयुक्तो भवेन्नरः । निरोगो दृढकोपाग्निर्मन्त्रस्त्रीपरमास्त्रवि
25.49
खलोऽतिमानी दुर्बुद्धिर्निर्लज्जो व्ययसंस्थिते । चापे परस्त्रीसंयुक्तो जायते निर्
25.50
कुशलः सर्वविद्यासु सुखी वाङ्निपुनः प्रियः । तनौ शिखिनि सञ्जातः सर्वकामान्वितो भव
25.51
वक्ता प्रियंवदः कान्तो धनस्थानगते ध्वजे । काव्यकृत् पण्डितो मानी विनीतो वाहनान्व
25.52
कदर्यः क्रूरकर्ता च कृशाङ्गो धनवर्जितः । सहजस्थे तु शिखिनि तीव्ररोगी प्रजायते
25.53
रूपवान् गुणसम्पन्नः सात्त्विकोऽपि स्रुतिप्रियः । सुखसंस्थे तु शिखिनि सदा भवति सौ
25.54
सुखी भोगी कलाविच्च पञ्चमस्थानगे ध्वजे । युक्तिज्ञो मतिमान् वाग्मी गुरुभक्तिसमन्व
25.55
मातृपक्षक्षयकरः शत्रुहा बहुवान्धवः । रिपुस्थाने ध्वजे प्राप्ते शूरः कान्तो विचक्
25.56
द्यूतक्रीडाष्वभिरतः कामी भोगसमन्वितः । ध्वजे तु सप्तमस्थागे वेश्यासु कृतसौहृदः
25.57
नीचकर्मरतः पापो निर्लज्जो निन्दकः सदा । मृत्युस्थाने ध्वजे प्राप्ते गतस्त्र्यपरप
25.58
लिङ्गधारी प्रसन्नात्मा सर्वभूतहिते रतः । धर्मभे शिखिनि प्राप्ते धर्मकार्येषु कोव
25.59
सुखसौभाग्यसम्पन्नः कामिनीनां च वल्लभः । दाता द्विजैः समायुक्तः कर्मस्थे शिखिनि द
25.60
नित्यलाभः सुधर्मी च लाभे शिखिनि पूजितः । धनाढ्यः सुभगः शूरः सुयज्ञश्चाति कोविदः
25.61
पापकर्मरतः शूरः श्रद्धाहीनोऽघृणो नरः । परदाररतो रौद्रः शिखिनि व्ययगे सति
25.62
रोगार्त्तः सततं कामी पापात्माधिगतः शठः । तनुस्थे गुलिके जातः खलभावोऽतिदुःखितः
25.63
विकृतो दुःखितः क्षुद्रो व्यसनी च गतत्रपः । धनस्थे गुलिके जातो निःस्वो भवति मानवः
25.64
चार्वङ्गो ग्रामपः पुण्यसंयुक्तः सज्जनप्रियः । सहजे गुलिके जातो मानवो राजपूजितः
25.65
रोगी सुखपरित्यक्तः सदा भवति पापकृत् । गुलिके सुखभावस्थे वातपित्ताधिको भवेत्
25.66
विस्तुतिर्विधनोऽल्पायुर्द्वेषी क्षुद्रो नपुंसकः । गुलिके सुतभावस्थे स्त्रीजितो न
25.67
वीतशत्रुः सुपुष्टाङ्गो रिपुस्थाने यमात्मजे । सुदीप्तः सम्मतः स्त्रीणां सोत्साहः
25.68
स्त्रीजितः पापकृज्जारः कृशाङ्गो गतसौहृदः । जीवितः स्त्रीधनेनैव गुलिके सप्तमस्थित
25.69
क्षुधालुर्दुःखित क्रूरस्तीक्ष्णरोषोऽतिनिर्घृणः । रन्ध्रगे गुलिके निःस्वो जायते ग
25.70
बहुक्लेशः कृशतनुर्दुष्टकर्मातिनिर्घृणः । गुलिके धर्मगे मन्दः पिशुनो बहिराकृतिः
25.71
पुत्रान्वितः सुखी भोक्ता देवाग्न्यर्चनवत्सलः । दशमे गुलिके जातो योगधर्माश्रितः स
25.72
सुस्त्रीभोगी प्रजाध्यक्षो बन्धूनां च हिते रतः । लाभस्थे गुलिके जातो नीचाङ्ग सार्
25.73
नीचकर्माश्तितः पापो हीनाङ्गो दुर्भगोऽलसः । व्ययगे गुलिके जातो नीचेषु कुरुते रतिम
25.74
लग्ने प्राणपदे क्षीणो रोगी भवति मानवः । मूकोन्मत्तो जडाङ्गस्तु हीनाङ्गो दुःखितः
25.75
बहुधान्यो बहुधनो बहुभृत्यो बहुप्रजः । धनस्थानस्थिते प्राणे सुभगो जयते नरः
25.76
हिंस्रो गर्वसमायुक्तो निष्ठुरोऽतिमलिम्लुचः । तृतीयगे प्राणपदे गुरुभक्तिविवर्जितः
25.77
सुखस्थे तु सुखी कान्तः सुहृद्रमासु वल्लभः । गुरौ परायणः शीतः प्राणे वै सत्यतत्पर
25.78
सुखिभाक् सुक्रियोपेतस्त्वपचारदयान्वितः । पञ्चमस्थे प्राणपदे सर्वकामसमन्वितः
25.79
बन्धुशत्रुवशस्तीक्ष्णो मन्दाग्निर्निर्दयः खलः । षष्ठे प्राणपदे रोगी वित्तपोऽल्पा
25.80
ईर्ष्यालु सततं कामी तीव्ररौद्रवपुर्नरः । सप्तमस्थे प्राणपदे दुराराध्यः कुबुद्धिम
25.81
रोगसन्तापिताङ्गश्च प्राणपदेऽष्टमे सति । पीडितः पार्थिवैर्दुःखैर्मृत्यबन्धुसुतोद्
25.82
पुत्रवान् धनसम्पन्नः सुभगः प्रियदर्शनः । प्राणे धर्मस्थिते भृत्यः सदाऽदुष्टो विच
25.83
वीर्यवान् मतिमान् दक्षो नृपकार्येषु कोविदः । दशमे वै प्राणपदे देवार्चनपरायणः
25.84
विख्यातो गुणवान् प्राज्ञो भोगीध नसमन्वितः । लाभस्थानस्थिते प्राणे गौराङ्गो मातृव
25.85
क्षुद्रो दुष्टस्तु हीनाङ्गो विद्वेशी द्विजबन्धुषु । व्यये प्राणे नेत्ररोगी काणो
25.86
इत्यप्रकाशखेटानां फलान्युक्तानि भूसुर । तथा यानि प्रकाशानां सूर्यादीनां खचारिणाम
25.87
तानि स्थितिवशात्तेषां स्फुटदृष्टिवशात् तथा । बलाऽबलविवेकेन वक्तव्यानि शरीरिणाम्
← भावेशफलाध्यायः
अथे ग्रहस्फुटदृष्टिकथनाध्ययाः →