← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

पदाध्यायः

37 verses · Maharshi Parashara

29.1कथयाम्यथ भावानां खेटानां च पदं द्विज । तद्विशेषफलं ज्ञातुं यथोक्तं प्राङ् महर्षि 29.2लग्नाद् यावतिथे राशौ तिष्ठेल्लग्नेश्वरः क्रमात् । ततस्तावतिथे राशौ लग्नस्य पदमुच 29.3सर्वेषामपि भावानां ज्ञेयमेवं पदं द्विज । तनुभावपदं तत्र बुधा मुख्यपदं विदुः 29.4स्वस्थानं सप्तमं नैवं पदं भवितुमर्हति । तस्मिन् पदत्वे विज्ञेयं मध्यं तुर्यं क्र 29.5यथा तुर्यस्थिते नाथे तुर्यमेव पदं भवेत् । सप्तमे च स्थिते नाथे विज्ञेयं दशमं पदम 29.6यस्माद् यावतिथे राशौ खेटात् तद्भवनं द्विज । ततस्तावतिथं राशिं खेटारूढं प्रचक्षते 29.7द्विनाथद्विभयोरेवं विज्ञेयं सबलावधि । विगणय्य पदं विप्र ततस्तस्य फलं वदेत् 29.8अथाऽहं पदमाश्रित्य फलं किञ्चिद् ब्रुवे द्विज । पदादेकादशे स्थाने ग्रहैर्युक्तोऽथ 29.9धनवान् जायते बालस्तथा सुखसमन्वितः । शुभयोगात् सुमार्गेण धनाप्तिः पापतोऽन्यथा 29.10मिश्रैर्मिश्रं फलं ज्ञेयं स्वोच्चमित्रादिगेहगैः । बहुधा जायते लाभो बहुधा च सुखाग 29.11पदाल्लाभगृहं यस्य पश्यन्ति सकला ग्रहाः । राजा वा राजतुल्यो वा स जातो नात्र संशयः 29.12पदाल्लाभगृहं पश्येद् व्ययं कश्चिन्न पश्यति । अविघ्नेन सदा लाभो जायते द्विजसत्तम 29.13ग्रहदृग्योगबाहुल्ये पदादेकादशे द्विज । सार्गले चापि तत्रापि बह्वर्गलसमागमे 29.14शुभग्रहार्गले विप्र तत्राप्युच्चग्रहार्गले । शुभेन स्वामिना दृष्टे लग्नभाग्यादिग 29.15जातस्य भाग्यप्राबल्यं निर्दिशेदुत्तरोत्तरम् । उक्तयोगेषु चेत् खेटे द्वादशं नैव प 29.16पदस्थानाद् व्यये विप्र शुभपापयुतेक्षिते । व्ययबाहुल्यमित्येवं विशेषोपार्जनात् सद 29.17शुभग्रहे सुमार्गेण कुमार्गात् पापखेचरे । मिश्रे मिश्रफलं वाच्यमेवं लाभोऽपि लाभगे 29.18पदारूढाद् व्यये शुक्रभानुस्वर्भानुभिर्युते । राजमूलाद् व्ययो वाच्यश्चन्द्रदृष्ट् 29.19पदारूढाद् व्यये सौम्ये शुभखेटयुतेक्षिते । ज्ञातिमध्ये व्ययो नित्यं पापदृक् कलहाद 29.20पदाद् व्यये सुराचार्ये वीक्षिते चान्यखेचरैः । करमूलाद् व्ययो वाच्यः स्वस्यैव द्व 29.21आरूढाद् द्वादशे सौरे धरापुत्रेण संयुते । अन्यग्रहेक्षिते विप्र भ्रातृवर्गाद् धनव 29.22आरूढाद् द्वादशे स्थाने ये योगाः कथिता यथा । लाभभावे च ते योगा लाभयोगकरास्तथा 29.23आरूढात् सप्तमे राहुरथवा संस्थितः शिखी । कुक्षिव्यथायुतो बालः शिखिना पीडितोऽथ वा 29.24आरूढात् सप्तमे केतुः पापखेटयुतेक्षितः । साहसी श्वेतकेशी च वृद्धलिङ्गी भवेन्नरः 29.25पदात्तु सप्तमे स्थाने गुरुशुक्रनिशाकराः । त्रयो द्वयमथैकोऽपि लक्ष्मीवान् जायते ज 29.26स्वतुङ्गे सप्तमे खेटः शुभो वाऽप्यशुभः पदात् । श्रीमान् सोऽपि भवेन्नुनं सत्कीर्ति 29.27ये योगाः सप्तमे स्थाने पदाश्च कथिता मया । चिन्त्यास्तथैव ते योगा द्वितीयेऽपि सदा 29.28उच्चस्थो रौहिणेयो वा जीवो वा शुक्र एव वा । एको बली धनगतः श्रियं दिशति देहिनः 29.29ये योगाश्च पदे लग्ने यथावद् गदिता मया । ते योगाः कारकांशेऽपि विज्ञेया बांधवर्जित 29.30आरूढाद् वित्तभे सौम्ये सर्वदेशाधिपो भवेत् । सर्वज्ञो यदि वा स स्यात् कविर्वादी च 29.31आरूधात् केन्द्रकोणेषु स्थिते दारपदे द्विज । लग्नजायापदे वापि सबलग्रहसंयुते 29.32श्रीमांश्च जायते नूनं देशे विख्यातिमान् भवेत् । षष्ठेष्टमे व्ययस्थाने जातो दारपद 29.33पदे तत्सप्तमे वापि केन्द्रे वृद्धौ त्रिकोणके । सुवीर्यः संस्थितः खेटः भार्याभर्त 29.34पदाद्दारपदे चैवं केन्द्रे कोणे च संस्थिते । द्वयोर्मैत्री भवेन्नूनं त्रिके वैरं 29.35एवं लग्नपदाद् विप्र तनयादिपदे स्थिते । मित्रामित्रे विजानीयाल्लाभालाभौ विचक्षणः 29.36लग्नदारपदे विप्र मिथः केन्द्रगते यदि । त्रिलाभयोस्त्रिकोणे वा तथा राजा धराधिपः 29.37एवं लग्नपदादेव धनादिपदतो द्विज । स्थानद्वयं समालोक्य जातकस्य फलं वदेत्