← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
अथोपपदाध्यायः
43 verses · Maharshi Parashara
30.1
अथोपपदमाश्रित्य कथयामि फलं द्विज । यच्छुभत्वे भवेन्नृणां पुत्रदारादिजं सुखम्
30.2
तनुभावपदं विप्र प्रधानं पदमुच्यते । तनोरनुचराद्यत् स्यादुपारूढं तदुच्यते
30.3
तदेवोपपदं नाम तथा गौणपदं स्मृतम् । शुभखेटगृहे तस्मिन् शुभग्रहयुतेक्षिते
30.4
पुत्रदारसुखं पूर्णं जायते द्विजसत्तम । पापग्रहयुते तत्र पापभे पापवीक्षिते
30.5
प्रव्राजको भवेज्जातो दारहीनोऽथ वा नरः । शुभदृग्योगतो नैव योगोऽयं दारनाशकः
30.6
रविर्नैवात्र पापः स्यात् स्वोच्चमित्रस्वभस्थितः । नीचशत्रुगृहस्थश्चेत्तदाऽसौ पाप
30.7
शुभग्रहाणां दृष्टिश्चेदुपारूढाद् द्वितीयके । शुभर्क्षे शुभयुक्ते च पूर्वोक्तं हि
30.8
उपारूढाद् द्वितीयं च नीचांशे नीचखेटयुक् । क्रूरग्रहसमायुक्तं जातको दारहा भवेत्
30.9
स्वोच्चांशे स्वोच्चसंस्थे वा तुङ्गदृष्टिवशात् तथा । भवन्ति बहवो दारा रूपलक्षणसंय
30.10
उपारूढे द्वितीये वा मिथुने संस्थिते सति । तत्र जातनरो विप्र बहुदारयुतो भवेत्
30.11
उपारूढे द्वितीयेऽपि स्वस्वामिग्रहसंयुते । स्वर्क्षगे तत्पतौ वापि यत्र कुत्रापि भ
30.12
यस्य जन्मनि योगोऽयं स नरो द्विजसत्तम । उत्तरायुषि निर्दारो भवत्येव न संशयः
30.13
स्वराशौ संस्थितेऽप्येवं नित्याख्ये दारकारके । उत्तरायुषि निर्दारो भवत्येव न संशय
30.14
उपारूढपतिः स्वोच्चे स्थिरस्त्रीकारकोऽथ वा । सुकुलाद् दारलाभः स्यान्नीचस्थे तु वि
30.15
उपारूढे द्वितीये वा शुभसम्बधतो द्विज । जातस्य सुन्दरी भार्या भव्या रूपगुणान्विता
30.16
उपारूढाद् द्वितीये च शनिराहू स्थितौ यदि । उपवादात् स्त्रियस्त्यागो नाशो वा जायते
30.17
उपारूढे द्वितीये वा शिखिशुक्रौ यदा स्थितौ । रक्तप्रदररोगार्ता जायते तस्य भामिनी
30.18
बुधकेतू स्थितौ तत्र तदाऽस्थिस्रावसंयुता । तत्रस्थाः शनिराह्वर्कास्तदाऽस्थिज्वरसं
30.19
स्थूलाङ्गी बुधराहूभ्यां तत्रस्थाभ्यां द्विजोत्तम । बुधक्षेत्रे कुजार्की चेन्नसिक
30.20
कुजक्षेत्रेऽप्येवमेव फलं ज्ञेयं द्विजोत्तम । बृहस्पतिशनी तत्र कर्णनेत्ररुजान्वित
30.21
तत्रान्यगेहगौ विप्र बुद्धभौमौ स्थितौ यदा । यदा स्वर्भानुदेवेज्यौ भार्या दन्तरुजा
30.22
शनिराहू शनिक्षेत्रे पङ्गुर्वातरुजान्विता । शुभदृग्योगतो नेति फलं ज्ञेयं विपश्चित
30.23
लग्नात् पदादुपारूढाद् यो राशिः सप्तमो द्विज । तस्मात् तत्स्वामिनः खेटात् तदंशाच्
30.24
एवमेव फलं ज्ञेयमित्याहुर्नारदादयः । उक्तेभ्यो नवमे विप्र शनिचन्द्रबुधा यदि
30.25
अपुत्रता तथाऽर्केज्यराहुभिर्बहुपुत्रता । चन्द्रेणैकसुतस्तत्र मिश्रैः पुत्रो विलम
30.26
रवीज्यराहुयोगेन पुत्रो वीर्यप्रतापवान् । प्रचण्डविजयी विप्र रिपुनिग्रहकारकः
30.27
उक्तस्थाने कुजार्किभ्यां पुत्रहीनः प्रजायते । दत्त पुत्रयुतो वापि सहोत्थसुतवान्
30.28
तत्रस्थे विषमे राशौ बहुपुत्रयुतो नरः । स्वल्पापत्यः समे राशौ जायते द्विजसत्तम
30.29
सिंहे चोपपदे विप्र निशानाथयुतेक्षिते । अल्पप्रजोऽथ कन्यायां जातः कन्याप्रजो भवेत
30.30
सुतभावनवांशाच्च स्थिरसन्ततिकारकात् । एवं त्रिशांशकुण्डल्यामपि योगं विचिन्तयेत्
30.31
शनिराहू त्रिलाभस्थौ पदाद् भ्रातुर्विनाशकौ । ज्येष्ठस्यैकादशे तत्र कनिष्ठस्य तृती
30.32
दैतेज्ये तत्र गर्भस्य नाशो व्यवहितस्य च । लग्ने वापि पदे रन्ध्रे दैत्याचार्ययुते
30.33
तथैव फलमित्याहुर्निर्विशंकं मुनीश्चराः । तृतीयलाभयोर्विप्र चन्द्रेज्यबुधमङ्गलाः
30.34
बहवो भ्रातरस्तस्य बलवन्तः प्रतापिनः । शन्यारसंयुते दृष्टे तृतीयैकादशे द्विज
30.35
कनिष्ठज्येष्ठयोर्नाशो विज्ञेयो द्विजसत्तम । शनिरेको यदा विप्र लाभगो वा तृतीयगः
30.36
तदा स्वमात्रशेषः स्यादन्ये नश्यन्ति सोदराः । तृतीये लाभगे केतौ बहुलं भगिनीसुखम्
30.37
आरूढात् षष्ठभावस्थे पापाख्ये शुभवर्जिते । शुभसम्बन्धरहिते चौरो भवति जातकः
30.38
सप्तमे द्वादशे स्थाने सैहिकेययुतेक्षिते । ज्ञानवांश्च भवेद् बालो बहुभाग्ययुतो द्
30.39
आरूढे संस्थिते सौम्ये सर्वदेशाधिपो भवेत् । सर्वज्ञस्तत्र देवेज्ये कविर्वादी च भा
30.40
उपारूढात् पदाद् वापि धनस्थे शुभखेचरे । सर्वद्रव्याधिपो धीमाञ्जायते द्विजसत्तम
30.41
उपारूढाद्धनाधीशे द्वितियभवनस्थिते । पापखेचरसंयुक्ते चौरो भवति निश्चितम्
30.42
तत्सप्तमगृहाधीशाद् राहौ धनगते द्विज । दंष्ट्रावान् जायते बालः स्तब्धवाक् केतुखेच
30.43
शनैश्चरे कुरूपः स्यात्सप्तमेशाद् द्वितीयगे । मिश्रग्रहसमायुक्ते फलं मिश्रं समादि
← पदाध्यायः
अथाऽर्गलाध्यायः →