← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

अथाऽर्गलाध्यायः

18 verses · Maharshi Parashara

31.1भगवान् याऽर्गला प्रोक्ता शुभदा भवताऽधुना । तामहं स्रोतुमिच्छामि सलक्षणफलं मुने 31.2मैत्रेय सार्गला नाम यया भावफलं दृढम् । स्थिरं खेटफलं च स्यात् साऽधुना कथ्यते मया 31.3चतुर्थे च धने लाभे ग्रहे ज्ञेया तदर्गला । तद्बाधकाः क्रमात् खेटा व्योमरिष्फतृतीय 31.4निर्बला न्यूनसंख्या वा बाधका नैव सम्मताः । तृतीये व्याधिकाः पापा यत्र मैत्रेय बा 31.5तत्रापि चार्गला ज्ञेया विपरीता द्विजोत्तम । तथापि खेटभावानां फलमर्गलितं विदुः 31.6पञ्चमं चार्गलास्थानं नवमं तद्विरोधकृत् । तमोग्रहभवा सा च व्यत्ययाज् ज्ञायते द्वि 31.7एकग्रहा कनिष्ठा सा द्विग्रहा मध्यमा स्मृता । अर्गला द्व्यधिकोत्पन्ना मुनिभिः कथि 31.8राशितो ग्रहतश्चापि विज्ञेया द्विविधाऽर्गला । निर्बाधका सुफलदा विफला च सबाधका 31.9यत्र राशौ स्थितः खेटस्तस्य पाकान्तरं यदा । तस्मिन् काले फलं ज्ञेयं निर्विशंकं द् 31.10अर्गलां प्रतिबन्धञ्च कथमांघ्रिचतुर्थयोः । द्वित्र्यङ्घ्रयोश्च मिथो विप्र चिन्तये 31.11पदे लग्ने मदे वापि निराभासार्गला यदा । तदा जातोऽतिविख्यातो बहुभाग्ययुतो भवेत् 31.12यस्य पापः शुभो वापि ग्रहस्तिष्ठेत् शुभार्गले । तेन द्रष्ट्रेक्षितं लग्नं प्राबल् 31.13सार्गले च धने विप्र धनधान्यसमन्वितः । तृतीये सोदरादीनां सुखमुक्तं मनीषिभिः 31.14चतुर्थे सार्गले गेहपशुबन्धुकुलैर्युतः । पञ्चमे पुत्रपौत्रादिसंयुतो बुद्धिमान्नरः 31.15षष्ठे रिपुभयं कामे धनदारसुखं बहु । अष्टमे जायते कष्टं धर्मे भाग्योदयो भवेत् 31.16दशमे राजसम्मानं लाभे लाभसमन्वितः । सार्गले च व्यये विप्र व्ययाधिक्यं प्रजायते 31.17शुभग्रहार्गलायां तु सौख्यं बहुविधं भवेत् । मध्यं पापार्गलायां च मिश्रायामपि चोत् 31.18लग्नपञ्चमभाग्येषु सार्गलेषु द्विजोत्तम । जातश्च जायते राजा भाग्यवान् नात्र संशयः