← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
दारिद्र्ययोगाध्यायः
18 verses · Maharshi Parashara
42.1
बहवो धनदा योगा श्रुतास्त्वत्तो मया मुने । दरिद्रजन्मदान् योगान् कृपया कथय प्रभो
42.2
लग्नेशे च व्ययस्थाने व्ययेशे लग्नमागते । मारकेशयुते दृष्टे निर्धनो जायते नरः
42.3
लग्नेशे षष्ठभावस्थे षष्ठेशे लग्नमागते । मारकेशेन युग्दृष्टे धनहीनः प्रजायते
42.4
लग्नेन्दू केतुसंयुक्तौ लग्नपे निधनं गते । मारकेशयुते दृष्टे जातो वै निर्धनो भवेत
42.5
षष्ठाष्टमव्ययगते लग्नपे पापसंयुते । धनेशे रिपुभे नीचे राजवंश्योऽपि निर्धनः
42.6
त्रिकेशेन समायुक्ते पापदृष्टे विलग्नपे । शनियुक्तेऽधवा सौम्यैरदृष्टे निर्धनो नरः
42.7
मन्त्रेशो धर्मनाथश्च क्रमात् षष्ठव्ययस्थितौ । दृष्टौ चेन्मारकेशेन निर्धनो जायते
42.8
पापग्रहे लग्नगते राज्यधर्माधिपौ विना । मारकेशयुते दृष्टे जातः स्यन्निर्धनो भवेत्
42.9
त्रिकेशा यत्र भावस्था तद्भावेशास्त्रिकस्थिताः । पापदृष्टयुत बालो दुःखाक्रान्तश्च
42.10
चन्द्राक्रान्तनवंशेशो मारकेशयुतो यदि । मारकस्थानगो वाऽपि जातोऽत्र निर्धनो नरः
42.11
लग्नेशलग्नभागेशौ रिश्फरन्ध्रारिगौ यदि । मारकेशयुतौ दृष्टौ जातोऽसौ निर्धनो नरः
42.12
शुभस्थानगताः पापाः पापस्थानगताः शुभाः । निर्धनो जायते बालो भोजनेन प्रपीडितः
42.13
कोणेशदृष्टिहीना ये त्रिकेशैः संयुता ग्रहाः । ते सर्वे स्वदशाकाले धनहानिकराः स्मृ
42.14
कारकाद् वा विलग्नाद् वा रन्ध्रेरिष्फे द्विजोत्तम । कारकाङ्गपयोदृष्ट्या धनहीनः प्
42.15
कारकेशो व्ययं स्वस्मात् लग्नेशो लग्नतो व्ययम् । वीक्षते चेत् तदा बालो व्ययशीलो भ
42.16
अथ दारिद्र्ययोगांस्त् कथयामि सभङ्गकान् । धनसंस्थौ तु भौमार्की कथितौ धननाशकौ
42.17
बुधेक्षितौ महावित्तं कुरुतो नात्र संशयः । निःस्वतां कुरुते तत्र रविर्नित्यं यमेक
42.18
महाधनयुतं ख्यातं शन्यदृष्टः करोत्यसौ । शनिश्चापि रवेर्दृष्ट्या फलमेवं प्रयच्छति
← विशेषधनयोगाऽध्यायः
अथायुर्दायाध्यायः →