← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
अथायुर्दायाध्यायः
78 verses · Maharshi Parashara
43.1
धनाध्नाख्ययोगौ च कथितौ भवता मुने । नराणामायुषो ज्ञानं कथयस्व महामते
43.2
साधु पृष्टं त्वया विप्र जनानां च हितेच्छया । कथयाम्यायुषो ज्ञानं दुर्ज्ञेयं यत्
43.3
आयुर्ज्ञानविभेदास्तु बहुभिर्बहुधोदिताः । तेषां सारांशमादाय प्र्वदामि तवाऽग्रतः
43.4
स्वोच्चनीचादिसंस्थित्या ग्रहा आयुःप्रदायकाः । स्वस्ववीर्यवशैर्नैवं नक्षत्राण् च
43.5
पिण्डायुः प्रथमं तत्र ग्रहस्थितिवशादहम् । कथयामि द्विजश्रेष्ठ श्रणुष्वेकाग्रमानस
43.6
क्रमात् सूर्यादिखेटेषु स्वस्वोच्चस्थानगेष्विह । नन्देन्दवस्तच्वमितास्तिथयोऽर्काः
43.7
प्रकृयतो विंशतिश्चाब्दा आयुःपिण्डाः प्रकीर्तिताः । नीचगेष्वेतदर्धञ्च ज्ञेयं मध्य
43.8
स्वच्चशुद्धौ ग्रहः शोध्यः षड्भादूनो भमण्ड्लात् । स्वपिण्डगुणितो भक्तो भादिमानेन
43.9
अस्तगस्तु हरेत्स्वार्ध विना शुक्रशनैश्चरौ । वक्रचारं विना त्र्यांशां शज्ञुराशौ ह
43.10
सर्वार्धत्रिचतुःपञ्चषष्ठभागं क्रमाद् ग्रहः । व्ययाद्वामं स्थितः पापो हरेत् सौम्य
43.11
एकभे तु बहुष्वेको हरेत्स्वांशां बली ग्रहः । नाऽत्र क्षीणस्य चन्द्रस्य पापत्वं मु
43.12
लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा । भाज्या मण्डललिप्ताभिर्लब्धं वर्षादि
43.13
स्वायुषो लग्नगे सूर्ये मङ्गले च शनैश्चरे । तदर्धं शुभसंदृष्टे पातयेद् द्विजसत्तम
43.14
लग्नराशिसमाश्चाब्दा भागाद्यैरनुपाततः । मासादिका इतीच्छन्ति लग्नायुः केऽपि कोविदा
43.15
लग्नादायोंऽशतुल्यः स्यादन्तरे चाऽनुपाततः । तत्पतौ बलसंयुक्ते राशितुल्यं च भाघिपे
43.16
अथ विप्र निसर्गायुः खेटानां कथयाम्यहम् । चन्द्रारज्ञसितेज्यार्कशनीनां क्रमशोब्दक
43.17
एकद्वयंकनखा धृत्यः कृतिः पंचाशदेव हि । जन्मकालात् क्रमाज् ज्ञेया दशाश्चैता निसर्
43.18
अथांशायु सलग्नानां खेटानां कथयाम्यहम् । नवांश्राशितुल्यानि खेटो वर्षाणि यच्छति
43.19
भादिं खगं खगैः सूर्यैर्हत्वा तद्भगणादिकम् । कृत्वाऽर्क्रशेषितं ज्ञेयमब्दाद्यंशाय
43.20
पिण्डायुरिव तत्रापि हानिं कुर्याद् विचक्षणः । अत्राऽपरो विशेषोऽपि कैञ्चिद् विज्ञ
43.21
साधितायुः खगे स्वोच्चे स्वर्क्षे वा त्रिगुणं स्मृतम् । द्विगुणं स्वनवांशस्थे स्व
43.22
उभयत्र गते खेटे कार्यं त्रिगुणमेव हि । हानिद्वयेऽर्धहानिः स्यादित्यायुः प्रस्फुट
43.23
एवं संसाध्य चान्येषां हन्यात् स्वस्वपरायुषा । नृणां परायुषा भक्त्वा तेषामायुः स्
43.24
अथायुः परमं वक्ष्ये नानाजातिसमुद्भवम् । अनन्तसंख्यं देवानामृषीणां च द्विजोत्तम
43.25
गृध्रोलूक्शुकध्वांक्षसर्पाणां च सहस्रकम् । श्येनवानरभल्लुकमण्डूकानां शतत्रयम्
43.26
पंचशदुत्तरशतं राक्षसानां प्रकीर्तितम् । नगणां कुञ्जराणां च विंशोत्तरशतं तथा
43.27
द्वात्रिंशद् घोटकानाञ्च पंचविंशत् खरोष्ट्रयोः । वृषाणां महिषाणां च चतुर्विंशतिवत
43.28
विंशत्यायुर्मयूराणां छागादीनां च षोडश । हंसानां पंचनव च पिकानां द्वादशाब्दकाः
43.29
शुनां पारावतानां च कुक्कुटानां द्वादशाब्दकाः । बुद्बुदाद्यण्डजानां च परायुः सप्त
43.30
यदेतदधुना प्रोक्तं त्रिधायुद्विजसत्तम । तेषु किञ्च कदा ग्राह्यमिति ते कथयाम्यहम्
43.31
विलग्नपे बलोपेते शुभदृष्टेंश्शसम्भवभ् । रवौ पिंडोद्भवं ग्राह्यं चन्द्रे नैसर्गिक
43.32
बलसाम्ये द्वयोर्योगदलमायुः प्रकीर्तितम् । त्रयाणां त्रियुतेस्त्र्यंशसमं ज्ञेयं द
43.33
अथाऽन्यदपि वक्ष्यामि श्र्रिणु त्वं द्विजसत्तम । कैश्चिल्लग्नाष्टमेशाभ्यां मन्देन
43.34
लग्नहोराविलग्नाभ्यां स्फुटमायुः प्रकीर्तितम् । आदौ लग्नाष्टमेशाभ्यां योगमेकं विच
43.35
द्वितीयं मन्दचन्द्राभ्यां योगं पश्येद् द्विजोत्तम । लग्नहोराविलग्नाभ्यां तृतीयं
43.36
चरराशौ स्थितौ द्वौ चित् तदा दीर्घमुदाहृतम् । एकः स्थिरेऽपरो द्वन्द्वे दीर्घमायुस
43.37
एकश्चरे स्थिरेऽन्यश्चेत् तदामध्यमुदाहृतम् । द्वौ वा द्वन्द्वे स्थितौ विप्र मध्यम
43.38
एकश्चरेऽपरो द्वन्द्वे द्वौ वा स्थिरगतौ तदा । जातकस्य तदाऽल्पायुर्ज्ञेयमेवं द्विज
43.39
योगत्रयेण योगाभ्यां सिद्धं यद् ग्राह्यमेव तत् । योगत्रयविसंवादे लग्नहोराविलग्नतः
43.40
लग्ने वा सप्तमे चन्द्रे ग्राह्यं मन्देन्दुतस्तदा । ह्रासो वृद्धिश्च कक्ष्याया वि
43.41
दीर्घे योगत्रयेणैवं नखचन्द्रसमाब्दकाः । योगद्वयेन वस्वाशा योगैकेन रसांककाः
43.42
मध्ये योगत्रयेणैवं खाष्टतुल्याब्दकाः स्मृताः । द्व्यगा योगद्वयेनाऽत्रयोगैकेनाब्ध
43.43
अल्पे योगत्रयेणाऽत्रद्वात्रिंशन्मितवत्सराः । योगद्वयेन षट्त्रिंशात् योगैकेन च खा
43.44
एवं दीर्घसमाल्पेषु खाब्धयो रसवह्नयः । खण्डा दन्तमितास्तेभ्यः स्फुटमायुः प्रसाधये
43.45
पूर्ण राश्यादिगे चान्ते हानिर्मध्येऽनुपाततः । योगकारकखेटांशयोगस्तत्संख्यया हृतः
43.46
लब्धांशास्तु यथाप्राप्तखण्डघ्नास्त्रिंशतोद्धृताः । लब्धवर्षादिभिर्हीनं प्राप्ताय
43.47
योगहेतौ शनौ कक्ष्याह्रासोऽन्यैर्वृद्धिरुच्यते । न स्वर्क्षतुङ्गगे नो वा पापमात्र
43.48
लग्नसप्तमगे जीवे शुभमात्रयुतेक्षिते । कथितस्यायुषो विप्र कक्ष्यावृद्धिः प्रजायते
43.49
अनायुश्चेद् भवेदल्पमल्पान्मध्यं प्रजायते । मध्यमाज्जायते दीर्घं दीर्घायुश्चेत्तत
43.50
योगहेतौ गुरवेवं कक्ष्यावृद्धेश्च लक्षणम् । एतस्माद् वैपरीत्येन कक्ष्याह्रासः शनौ
43.51
आयुषो बहुधा भेदाः कथिता भवताऽधुना । कतिधा सा कदाऽनायुरमितायुः कदा भवेत्
43.52
बालारिष्टं योगारिष्टमल्पं मध्यञ्च दीर्घकम् । दिव्यं चैवाऽमितं चैवं सप्तधायुः प्र
43.53
बालारिष्टे समा अष्टौ योगारिष्टे च विंशतिः । द्वात्रिंशद् वत्ररा अल्पे चतुष्षष्टि
43.54
विंशाधिकश्तं दीर्घे दिव्ये वर्षसहस्रकम् । तदूर्ध्वममितं पुण्यैरमितैराप्यते जनैः
43.55
चन्द्रेज्यौ च कुलीरांगे ज्ञसितु केन्द्रसंस्थितौ । अन्ये त्र्यायारिगाः खेटा अमिता
43.56
सौम्याः केन्द्रत्रिकोणस्थाः पापास्त्र्यायारिगास्तथा । शुभराशौ स्थिते रन्ध्रे दिव
43.57
गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके । त्रिकोणे कर्कटे लग्ने युगान्तायुस्त
43.58
देवलोकांशके मन्दे कुजे पारावतांशके । गुरौ सिंहासनांशेऽङ्गे जातो मुनिसमो भवेत्
43.59
सुयोगैर्वर्ध्यते ह्यायुः कुयोगैर्हीयते तथा । अतो योगानहं वक्ष्ये पूर्णमध्याल्पका
43.60
केन्द्रे शुभग्रहैर्युक्ते लग्नेशे च शुभान्विते । सन्दृष्टे गुरुणा वाऽपि पूर्णमाय
43.61
केन्द्रस्थिते विलग्नेशे गुरुशुक्रसमन्विते । ताभ्यां निरीक्षिते वाऽपि पूर्णमायुर्
43.62
उच्चस्थितैस्त्रिभिः खेटैर्लग्नरन्ध्रशसंयुतैः । अष्टमे पापहीने च पूर्णमायुर्विनिर
43.63
अष्टमस्थैस्त्रिभि खेटैः स्वोच्चमित्रस्ववर्गगैः । लग्नेशे बलसंयुक्ते दीर्घमायुस्त
43.64
स्वभोच्चस्थेन केनापि नभौगेन समन्वितः । अष्टमेशः शनिर्वापि दीर्घमायुर्विनिर्दिशेत
43.65
त्रिषडायगतैः पापैः शुभैः केन्द्रत्रिकोणगैः । लग्नेशे बलसंयुक्ते दीर्घमायुर्विनिर
43.66
षट्सप्तरन्ध्रभवेषु शुभखेटयुतेषु च । त्रिभवेषु च पापेषु पूर्णमायुर्विनिर्दिशेत्
43.67
शत्रुव्ययगताः पापा लग्नेशो यदि केन्द्रगः । रविमित्रं च रन्ध्रेशः पूर्णमायुस्तथाप
43.68
आयुः स्थानस्थिताः पापाः कर्मेशः स्वोच्चगो यदा । तथापि दीर्घमायु स्यात् विज्ञेयं
43.69
द्विस्वभावगृहे लग्ने लग्नेशे केन्द्रसंस्थिते । स्वोच्चराशित्रिकोणे वा दीर्घमायुर
43.70
द्विस्वभावगृहे लग्ने लग्नेशाद् बलसंयुतात् । द्वौ पापौ यदि केन्द्रस्थौ दीर्घमायुस
43.71
लग्नाष्टमेशयोर्मध्ये यः खेटः प्रबलो भवेत् । तस्मिन् केन्द्रगते दीर्घ मध्यं पणफरस
43.72
आपोक्लिमे स्थिते स्वल्पमायुर्भवति निश्चितम् । लग्नेशे च रवेर्मित्रे दीर्घंमायुः
43.73
शत्रौ स्वल्पं वदेदित्थमष्टमेशादपि स्मृतम् । मित्रमध्याऽरिभावस्थे तस्मिन्नेवं फलं
43.74
सहजाधीशभूपुत्रौ द्वौ रन्ध्रेशशनैश्चरौ । अस्तौ वा पापदृग्युक्तौ स्वल्पमायुः प्रयच
43.75
षष्ठेऽष्टमे व्यये वाऽपि लग्नेशे पापसंयुते । स्व पायुरनपत्यो वा शुभदृग्योगवर्जिते
43.76
चतुष्ट्यगते पापे शुभदृष्टिविवर्जिते । बलहीने विग्लनेशे स्वल्पमायुर्विनिर्दिशेत्
43.77
व्ययार्थौ पापसंयुक्तौ शुभदृग्योगवर्जितौ । स्वल्पमायुस्तदा ज्ञेयं निर्विशंकं द्वि
43.78
लग्नरन्ध्रेशयोरेवं दुःस्थयोर्बलहीनयोः । स्वल्पमायुर्बुधैर्ज्ञेयं मिश्रयोगाच्च मध
← दारिद्र्ययोगाध्यायः
मारकभेदाध्यायः →