← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
मारकभेदाध्यायः
46 verses · Maharshi Parashara
44.1
बहुधाऽऽयुर्भवा योगाः कथिता भवताऽधुना । नृणां मारकभेदाश्च कथ्यन्तां कृपया मुने
44.2
तृतीयमष्टमस्थानमायुःस्थानां द्वयं द्विज । मारकं तद्व्ययस्थानं द्वितीयं सप्तमं तथ
44.3
तत्रापि सप्तमस्थानाद् द्वितीयं बलवत्तरम् । तयोरीशौ तत्र गताः पापिनस्तेन संयुताः
44.4
ये खेटाः पापिनस्ते च सर्वे मारकसंज्ञकाः । तेषां दशाविपाकेषु सम्भवे निधनं नृणाम्
44.5
अल्पमध्यमपूर्णायुः प्रमाणमिह योगजम् । विज्ञाय प्रथमं पुंसां मारकं परिचिन्तयेत्
44.6
अलाभे पुनरेतेषां सम्बन्धेन व्ययेशितुः । क्वचिच्छुभानां च दशस्वष्टमेशदशासु च
44.7
केवलानां च पापानां दशासु निधनं क्वचित् । अल्पनीयं बुधैर्नृणां मारकाणामदर्शने
44.8
सत्यपि स्वेन सम्बन्धे न हन्ति शुभभुक्तिषु । हन्ति सत्यप्यसम्बन्धे मारकः पापभुक्त
44.9
मारकग्रहसम्बन्धान्निहन्ता पापकृच्छनिः । अतिक्रम्येतरान् सर्वान् भवत्यत्र न संशयः
44.10
अथाऽन्यदपि वक्ष्यामि द्विज मारकलक्षणम् । त्रिविधाश्चायुषो योगाः स्वल्पायुर्मध्यम
44.11
द्वाविंशात् पूर्वमल्पायुर्मध्यमायुस्ततः परम् । चतुष्षष्ट्याः पुरस्तात् तु ततो दी
44.12
उत्तमायुः शतादूर्ध्वं ज्ञातव्यं द्विजसत्तम । जनैर्विंशतिवर्षान्त्यमायुर्ज्ञातं न
44.13
जपहोमचिकित्साद्यैर्बालरक्षां हि कारयेत् । म्रियन्ते पितृदोषैश्च केचिन्मातृग्रहैर
44.14
केचित् स्वारिष्ट्योगाच्च त्रिविधा बालमृत्यवः । ततः परं नृणामायुर्गणयेद् द्विजसत्
44.15
अथाऽन्यदपि वक्ष्यामि नृणां मारकलक्षणम् । अल्पायुर्योगजातस्य विप्भे च मृतिर्भवेत्
44.16
मध्यायुर्योगजस्यैवं प्रत्यरौ च मृतिर्भवेत् । दीर्घायुर्योगजातस्य वधभे तु मृतिर्भ
44.17
द्वाविंशत्र्यंशपश्चैव तथा वैनाशिकाधिपः । विपत्ताराप्रत्यरीशा वधभेशंस्तथैव च
44.18
आद्यान्तपौ च विज्ञेयौ चन्द्राक्रान्तगृहाद् द्विज । मारकौ पापखेटौ तौ शुभौ चेद्रोग
44.19
षष्ठाधिपदशायां च नृणां निधनसम्भवः । षष्ठाष्टरिष्फनाथानामपहारे मृतिर्भवेत्
44.20
मारका बहवः खेटा यदि वीर्यसमन्विताः । तत्तद्दशान्तरे विप्र रोगकष्टादिसंभवः
44.21
उक्ता ये मारकास्तेषु प्रबलो मुख्यमारकः । तदवस्थानुसारेण मृतिं वा कष्टमादिशेत्
44.22
रहुश्चेदथवा केतुर्लग्ने कामेऽष्टमे व्यये । मारकेशान्मदे वाऽपि मारकेशेन संयुतः
44.23
मारकः स च विज्ञेयः स्वदशान्तर्दशास्वपि । मकरे वृश्चिके जन्म राहुस्तस्य मृतिप्रदः
44.24
षष्ठाऽष्टरिष्फगो राहुस्तद्दये कष्टदो भवेत् । शुभग्रहयुतो दृष्टो न तदा कष्टकृन्मत
44.25
लग्नात् तृतीयभावे तु बलिना रविणा युते । राजहेतुश्च मरणं तस्य ज्ञेयं द्विजोत्तम
44.26
त्रितीये चेन्दुना युक्ते दृष्टे वा यक्ष्मणा मृतिः । कुजेन व्रणशस्त्राग्निदाहाद्य
44.27
तृतीये शनिराहुभ्यां युक्ते दृष्टेऽपि वा द्विज । विषार्तितो मृतिर्वाच्या जलाद्वा
44.28
गर्तादुच्चात् प्रपतनाद् बन्धनाद् वा मृतिर्भवेत् । तृतीये चन्द्रमान्दिभ्यां युक्त
44.29
कृमिकुष्ठादिना तस्य मरणं भवति ध्रुवम् । तृतीये बुधसंयुक्ते वीक्षिते वापि तेन च
44.30
ज्वरेण मरणं तस्य विज्ञेयं द्विजसत्तम । तृतीये गुरुणा युक्ते दृष्टे शोफादिना मृति
44.31
तृतीये भृगुयुग्दृष्टे मेहरोगेण तन्मृतिः । बहुखेटयुते तस्मिन् बहुरोगभवा मृतिः
44.32
तृतीये च शुभैर्युक्ते शुभदेशे मृतिर्भवेत् । पापैश्च कीकटे देशे मिश्रैर्मिश्रस्थल
44.33
तृतीये गुरुशुक्राभ्यां युक्ते ज्ञानन वै मृतिः । अज्ञानेनाऽन्यखेटैश्च मृतिर्ज्ञेय
44.34
चरराशौ तृतीयस्थे परदेशे मृतिर्भवेत् । स्थिरराशौ स्वगेहे च द्विस्वभावे पथि द्विज
44.35
लग्नादष्टमभावाच्च निमित्तं कथितं बुधैः । सूर्येऽष्टमेऽग्नितो मृत्युश्चन्द्रे मृत
44.36
शास्त्राद् भौमे ज्वराज् ज्ञे च गुरौ रोगात् क्षुधा भृगौ । पिपासया शनौ मृत्युर्विज
44.37
अष्टमे शुभदृग्युक्ते धर्मपे च शुभैर्युते । तीर्थे मृतिस्तदा ज्ञेया पापाख्यैरन्यथ
44.38
अग्न्यम्बुमिश्रत्र्यंशैर्ज्ञेयो मृत्युर्गृहाश्रितैः । परिणामः शवस्याऽत्र भस्मसंक
44.39
व्यालवर्गदृकाणैस्तु विडम्बो भवति ध्रुवम् । शवस्य श्वशृगालाद्यैर्गृध्रकाकादिपक्षि
44.40
कर्कटे मध्यमोऽन्त्यश्च वृश्चिकाद्यद्वितीयकौ । मीनेऽन्तिमस्त्रिभागश्च व्यालवर्गाः
44.41
रविश्चन्द्रबलाक्रान्तत्र्यंशनाथे गुरौ जनः । देवलोकात् समायातो विज्ञेयो द्विजसत्त
44.42
शुक्रेन्द्वोः पितृलोकात्तु मर्त्याच्च रविभौमयोः । बुधाऽऽर्क्योर्नरकादेवं जन्मकाल
44.43
गुरुश्चन्द्रसितौ सूर्यभौमौ ज्ञार्की यथाक्रमम् । देवेन्दुभूम्यधोलोकान् नयन्त्यस्त
44.44
अथ तत्र ग्रहभावे रन्ध्रारित्र्यंशनाथयोः । यो बली स निजं लोकं नयत्यन्ते द्विजोत्त
44.45
तस्य स्वोच्चादि संस्थित्या वरमध्याऽधमाः क्रमात् । तत्तल्लोकेऽपि सञ्जाता विज्ञेया
44.46
अन्यान् मारकभेदांश्च राशिग्रहकृतान् द्विज । दशाध्यायप्रसंगेषु कथयिष्यामि सुव्रत
← अथायुर्दायाध्यायः
ग्रहावस्थाध्यायः →