← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
दशाध्याय
210 verses · Maharshi Parashara
46.1
सर्वज्ञोऽसि महर्षे त्वं कृपया दीनवत्सल । दशाः कतिविधाः सन्ति तन्मे कथय तत्त्वतः
46.2
साधु पृष्टं स्वया विप्र लोकानुग्रहकारिणा । कथयामि तवाग्रेऽहं दशभेदाननेकशः
46.3
दशाबहुविधास्तासु मुख्या विंशोत्तरी मता । कैश्चिदष्टोत्तरी कैश्चित् कथिता षोडशोत्
46.4
द्वादशाब्दोत्तरी विप्र दशा पञ्चोत्तरी तथा । दशा शतसमा तद्वत् चतुराशीतिवत्सरा
46.5
द्विसप्ततिसमा षष्टिसमा षड्त्रिंशवत्सरा । नक्षत्राधारिकाश्चेताः कथिताः पूर्वसूरिभ
46.6
अथा कालदशा चक्रदशा प्रोक्ता मुनीश्वरैः । कालचक्रदशा चाऽया मान्यासर्वदशासु या
46.7
दशाऽथ चरपर्याया स्थिराख्या च दशा द्विज । केन्द्राद्य च दशा ज्ञेया कारकादिग्रहोद्
46.8
ब्रह्मग्रहाश्रितर्क्षाद्या दशा प्रोक्ता तु केनचित् । माण्डूकी च दशा नाम तथा स्थू
46.9
योगार्धजदशा विप्र दृग्दशा च ततः परम् । त्रिकोणाख्या दशा नाम तथा राशिदशा स्मृता
46.10
पञ्चस्वरदशा विप्र विज्ञेया योगिनीदशा । दशा पैण्डी तथांशी च नैसर्गिकदशा तथा
46.11
अष्टवर्गदश सन्ध्यादसा पाचकसंज्ञिका । अन्यास्तारादशाद्याश्च न स्वर्गाः सर्वसम्मता
46.12
कृत्तिकातः समारभ्य त्रिरावृत्य दशाधिपाः । आचंकुरागुशबुकेशुपूर्वा विहगाः क्रमात्
46.13
वह्निभाज्जन्मभं यावद् या संख्या नवतष्टिता । शेषाद्दशाधिपो ज्ञेयस्तमारभ्य दशां नय
46.14
विंशोत्तरशतं पूर्णमायुः पूर्वमुदाहृतम् । कलै विंशोत्तरी तस्माद् दशा मुख्या द्विज
46.15
दशासमाः क्रमादेषां षड् दशाऽश्वा गजेन्दवः । नृपाला नवचन्द्राश्च नवचन्द्रा नगा नखा
46.16
दशामनां भयातघ्नं भभोगेन हृतं फलम् । दशाया भुक्तवर्षाद्य भोग्यं मानाद् विशोधितम्
46.17
लग्नेशात् केन्द्रकोणस्थे राहौ लग्नं विना स्थिते । अष्टोत्तरी दशा विप्र विज्ञेया
46.18
चतुष्कं त्रितयं तस्मात् चतुष्कं त्रितयं पुनः । एवं स्वजन्मभं यावद् विगणय्य यथाक्
46.19
सूर्यश्चन्द्रः कुजः सौम्यः शनिर्जीवस्तमो भृगुः । एते दशाधिपा विप्र ज्ञेयाः केतुं
46.20
रसाः पञ्चेन्दवो नागाः सप्तचन्द्राश्च खेन्दवः । गोऽब्जाः सूर्याः कुनेत्राश्च रव्य
46.21
दशाब्दांघ्रिश्च पापानां शुभानां त्र्यंश एव हि । एकैकभे दशामानं विज्ञेयं द्विजसत्
46.22
ततस्तद्यातभोगाध्यां भुक्तं भोग्यं च साधयेत् । विंशोत्तरीवदेवात्र ततस्तत्फलमादिशे
46.23
कृष्णपक्षे दिवा जन्म शुक्लपक्षे तथा निशि । तदा ह्यष्टोत्तरी चिन्त्या फलार्थञ्च व
46.24
चन्द्रहोरागते कृष्णे सूर्यहोरागते सिती । लग्ने नृणां फलज्ञप्त्यै विचिन्त्या षोडश
46.25
पुष्यभाज्जन्मभं यावद् या संख्या गजतष्टिता । रविर्भौमो गुरुर्मन्दः केतुश्चन्द्रो
46.26
इति क्रमाद् दशाधीशाः ज्ञेया राहुं विना ग्रहाः । रुद्राद्येकोत्तराः संख्या धृत्यन
46.27
शुक्रांशके प्रजातस्य विचिन्त्या द्वादशोत्तरी । जन्मभात् पौष्णभं यावत् संख्या हि
46.28
सूर्यो गुरुः शिखी ज्ञोऽगुः कुजो मन्दो निशाकरः । विना शुक्रं दशाधीशा द्विचयात् सप
46.29
अर्कांश कर्कलग्ने पञ्चोत्तरी मता । मित्रर्क्षाज्जन्मभं यावत् संख्या सप्तविभाजिता
46.30
एकादिशेषे विज्ञ्याः क्रमात्सप्तदशाधिपाः । रविर्ज्ञोऽर्कसुतो भौमः शुक्रश्चन्द्रो
46.31
एकोत्तराच्च विज्ञेया द्वादशाद्याः क्रमात्समाः । धृत्यन्ताः सप्तखेटानां राहुकेतू
46.32
वर्गोत्तमगते लग्ने दशा चिन्त्या शताब्दिका । पौष्ण्भाज्जन्मपर्यन्तं गणयेत् सप्तभि
46.33
शेषाङ्के रवितो ज्ञेया दशा शतसमाह्वया । रविश्चन्द्रो भृगुर्ज्ञश्च जीवो भौमः शनिस्
46.34
क्रमदेते दशाधीशा बाणा बाणा दिशो दश । नखा नखाः खरामाश्च समाज्ञेया द्विजोत्तम
46.35
कर्मेशे कर्मगे ज्ञेया चतुराशीतिका दशा । पवनाज्जन्मभं यावद् या सङ्ख्या सप्तभाजिता
46.36
शेषे रवीन्दुभौमज्ञा गुरुशुक्रशनैश्चराः । दशाधीशाः क्रमादेषां ज्ञेया द्वादशवत्सरा
46.37
मूलाज्जन्मर्क्षपर्यन्तं गणयेदष्टभिर्भजेत् । शेषाद्दशाधीपा ज्न्`एया अष्टौ रव्यादय
46.38
नव वर्षाणि सर्वेषां विकेतूनां नभःसदाम् । लग्नेशे सप्तमे यस्य लग्ने वा सप्तमाधिपे
46.39
चिन्तनीया दशा तस्य द्विसप्ततिसमाह्वया । विंशोत्तरीवदत्राऽपि भुक्तं भोग्यं च साधय
46.40
यदार्को लग्नराशिस्थश्चिन्त्या षष्टिसमा तदा । दास्रात् त्रयं चतुष्कं च त्रयं चेति
46.41
गुर्वर्कभूसुतानां च दशा दश दशाब्दकाः । ततः शशिज्ञशुक्रार्कपुत्रागूनां रसाब्दकाः
46.42
श्रवणाज्जन्मभं यावत् संख्या वसुविभाजिता । शेषे चन्द्ररवीज्यारबुधार्किभृगुराहवः
46.43
क्रमाद्दशाधिपास्तेषामेकाद्येकोत्तराः समा । लग्ने दिनेऽर्कहोरायां चन्द्रहोरागते न
46.44
सूर्यस्याऽर्धास्तयः पूर्वं परस्तादूदयादपि । पञ्च पञ्च घटी सन्ध्या दशनाडी प्रकीर्
46.45
सन्ध्याद्वयञ्च विंशत्या नाडिकाभिः प्रकीर्तितम् । दिनस्य विंशतिर्घट्यः पूर्णसंज्ञ
46.46
निशायाः मुग्धसंज्ञाश्च घटिका विंशतिश्च याः । सूर्योदये च या सन्ध्या खण्डाख्या दश
46.47
अस्तकाले च या सन्ध्या सुधाख्या दशनाडिका । पूर्णमुग्धघटीमाने द्विगुणे तिथिभिर्भजे
46.48
तथा खण्डसुधाघट्यौ चतुर्घ्ने तिथिभिर्भजेत् । लब्धं वर्षादिकं मानं सूर्यादीनां खचा
46.49
एकादिसंख्यया निघ्नं दशामानं पृथक् क्रमात् । राहुकेतुयुतानां च नवानां कालसंज्ञकम्
46.50
रात्रौ लग्नाश्रिताद्राशेर्दिने लग्नेश्वराश्रिताम् । सन्ध्यायां वित्तभावस्थान्नेय
46.51
दशा वर्षाणि राशीनामेकैकस्य दशामितिः । क्रमाच्चक्रस्थितानाञ्च विज्ञातव्या द्विजोत
46.52
अथाऽहं शङ्करं नत्वा कालचक्रदशां ब्रुवे । पार्वत्यै कथिता पूर्वं सादरं या पिनाकिन
46.53
तस्याः सारं समुद्धृत्य तवाग्रे द्विजमन्दन । शुभाऽशुभं मनुष्याणां यथा जानन्ति पण्
46.54
द्वादशारं लिखेच्चक्रं तिर्यगूर्घ्वसमानकम् । गृहा द्वादश जायन्ते सव्येऽसव्ये द्वि
46.55
द्वितीयादिषु कोष्ठेषु राशीन् मेषादिकान् लिखेत् । एवं द्वादशराश्याख्यं कालचक्रमुद
46.56
अश्विन्यादित्रयं सव्यमार्गे चक्रे व्यवस्थितम् । रोहिण्यादित्रयं चैवमपसव्ये व्यवि
46.57
एवमृक्षविभागं हि कृत्वा चक्रं समुद्धरेत् । अश्विन्यदितिहस्तक्षेमूलप्रोष्ठपदाभिधा
46.58
वह्निवातादिविश्वर्क्षरेवत्यः सव्यतारकाः । एतद्दशोषुपादानामश्विन्यादौ च वीक्षयेत्
46.59
देहजीवौ कथं वीक्ष्यौ नक्षत्राणां पदेषु च । विशदं तत्प्रकारं च मैत्रेय कथयामयहम्
46.60
देहजीवौ मेषचापौ दास्राद्यचरणस्य च । मेषाद्याश्चापपर्यन्तं राशिपाश्च दशाधिपाः
46.61
मृगयुग्मे देहजीवौ द्वितीयचरणे स्मृतौ । क्रमात् मिथुनपर्यन्तं राशिपाश्च दशाधिपाः
46.62
दास्रादिदशताराणां तृतीयचरणे द्विज । गौर्देहो मिथुनं जीवो द्व्येकार्केशदशाङ्कपाः
46.63
क्वक्षिरामर्क्षनाथाश्च दशाधिपतयः क्रमात् । अश्विन्यादिदशौडूनां चतुर्थचरणे तथा
46.64
कर्कमीनौ देहजीवौ कर्कादिनवराशिपाः । दशाधीशाश्च विज्ञेया नवैते द्विजसत्तम
46.65
यमेज्यचित्रातोयर्क्षाऽहीर्बुध्न्याः सव्यतारकाः । एतत्पञ्चोडुपादानां भरण्यादौ विच
46.66
याम्यप्रथमपादस्य देहजीवावलिर्झषः । नागागर्तुपयोधीषुरामाक्षीन्द्वर्कभेश्वराः
46.67
याम्यद्वितीयपादस्य देहजीवौ घटाङ्गने । रुद्रदिङ्नन्दचन्द्राक्षिरामाब्धीष्वङ्गभेश्
46.68
याम्यतृतीयपादस्य देहजीवौ तुलाङ्गने । सप्ताष्टाङ्कदिगीशार्कगजाद्रिरमभेश्वराः
46.69
कर्को देहो धनुर्जीवो याम्यतुर्यपदे द्विज । वेदबाणाग्निनेत्रेन्दुसूर्येशाशाङ्कभेश
46.70
सप्तमेवं विजानीयादसव्यं कथयाम्यहम् । द्वादशारां लिखेच्चकं पूर्ववद् द्विजसत्तम
46.71
द्वितीयादिषु कोष्ठेषु वृश्चिकाद् व्यस्तमालिखीत् । रोहिणी च मघा द्वीशः कर्णश्चेति
46.72
उक्तं चाऽसव्यनाक्षत्रं पूर्वाचार्यैर्द्विजोत्तम । एतद्वेदोडुपादानां रोहिनीवन्निर
46.73
रोहिण्यादिपदे देहजीवौ कर्किधनुर्धरौ । नवदिग्रुद्रसूर्येन्दुनेत्राग्नोष्वब्धिभेश्
46.74
धातृद्वितीचरणे देहजीवौ तुलस्त्रियौ । अङ्कागवसुसूर्येशदिगङ्कवसुजूकपाः
46.75
तृतीयचरणे ब्राह्म दीहजीवौ घटाङ्गने । षड्बाणब्धिगुणक्षीन्दुनन्ददिग्रुद्रभेश्वराः
46.76
रोहिण्यन्तपदे देहजीवावलिजषौ स्मृतौ । सूर्येन्दुद्विगुणेष्वब्धितर्कशैलाष्टभेश्वरा
46.77
चान्द्ररौद्रभगार्यम्णमित्रेन्दुवसुवारुणम् । एतत्ताराष्टकं विज्ञैर्विज्ञेयं चान्द
46.78
कर्को देहो झषो जीवो मृगाद्यचरणे द्विज । व्यस्तान्मीनादिकर्कान्तराशिपाश्च दशाधिपा
46.79
गौर्देहो मिथुनं जीवो द्वितीयचरणे मृगे । त्रिद्व्येकाङ्कदिशीशार्कचन्द्राक्षिभवनाध
46.80
देहजीवौ नक्रयुग्मे तृतीयचरणे मृगे । त्रिबाणाब्धिरसागाष्टसूर्येशदशभेश्वराः
46.81
मेषो देहो धनुर्जीवो चतुर्थचरणे मृगे । व्यस्ताच्चापादिमेषान्तराशिपाश्च दशाधिपाः
46.82
अपसव्यगणे त्वेवं देहजीवदशादिकम् । पार्वत्यै शम्भुना प्रोक्तमिदावींकथितं मया
46.83
केषां च कति वर्षाणि दशेशानां महामुने । दशाया भुक्तभोग्याद्यं तदारम्भ प्रचक्ष्व म
46.84
भूतैकविंशगिरयो नवदिक्षोडशाब्धयः । सूर्यादीनां दशाब्धाः स्यू राशीनां स्वामिनो वशा
46.85
नरस्य जन्मकाले वा प्रश्नकाले यदंशकः । तदादिनवराशिनामब्दास्तस्यायुरुच्यते
46.86
सम्पूर्णायुर्भवेदादावर्धमंशस्य मध्यके । अंशान्ते परमं कष्टमित्याहुरपरे बुधाः
46.87
ज्ञात्वैवं स्फुटसिद्धान्तं राश्यंशं गणयेद् बुधः । अनुपातेन वक्ष्यामि तदुपायमतः प
46.88
गततारास्त्रिभिर्भक्ताः शेषं चैव चतुर्गुणम् । वर्तमानपदेनाढ्यं राशीनामंशको भवेत्
46.89
मेषे शतं वृषेऽक्षाष्टौ मिथुने त्रिगजाः समाः । कर्कटेऽङ्गगजाः प्रोक्तास्तावन्तस्त
46.90
जनो यत्रांशके जातो गतनाडीपलादिभिः । तदांशस्य हताः स्वाब्दाः पञ्चभूमिविभाजिताः
46.91
एवं महादशारम्भो भवेदंशाद्यथा क्रमात् । गणयेन्नवपर्यन्तं तत्तदायुः प्रकीर्तितम्
46.92
पदस्य भुक्तघट्याद्यैः स्वाब्दमानं हतं ततः । भभोगांघ्रिहृतं भुक्तं भोग्यं मानाद्
46.93
चन्द्राङ्कांशकला भुक्ताः स्वाब्दमानहता हृताः । द्विशत्या भुक्तवर्षाद्यं ज्ञेयं भ
46.94
सव्याख्ये प्रथमांशो यः स देह इति कथ्यते । अन्त्यांशो जीवसंज्ञः स्याद् विलोममपसव्
46.95
देहादिं गणयेत् सव्ये जीवादिमपसव्यके । एवं विज्ञाय दैवज्ञस्ततस्तत्फलमादिशेत्
46.96
कालचक्रगतिः प्रोक्ता त्रिधा पूर्वमहर्षिभिः । मण्डूकाख्या गतिश्चैका मर्कटीसंज्ञका
46.97
सिंहावलोकनाख्या च तृतीया परिकीर्तिता । उत्प्लुत्य गमनं विज्ञा मण्डूकाख्यं प्रचक्
46.98
पृष्ठतो गमनं नाम मर्कटीसंज्ञकं तथा । वाणाच्च नवपर्यन्तं गतिः सिंहावलोकनम्
46.99
कन्याकर्कटयोः सिंहयुग्मयोर्मण्डूय्की गतिः । कर्ककेसरिणोरेवं कथ्यते मर्कटीं गतिः
46.100
मीनवृश्चिकयोश्चापमेषयोः सैंहिकी गतिः । इति सञ्चिन्त्य विज्ञेयं कालचक्रदशाफलम्
46.101
मण्डूकगतिकाले हि सव्ये बन्धुजने भयम् । पित्रोर्वा विषशस्त्राग्निज्वरचोरादिजं भयम
46.102
केसरीयुग्ममण्डूके मातुर्मरण्मादिशेत् । स्वमृतिं राजभितिं वा सन्निपातभयं भवेत्
46.103
मर्कटीगमने सव्ये धनधान्यपशुक्षयः । पितुर्मरणमालस्यं तत्समानां च व मृतिः
46.104
सव्ये सिंहावलोके तु पशुभीतिर्भवेन्नृणाम् । सुहृत्स्नेहादिनाशश्च समानजनपीडनम्
46.105
पतनं वापि कूपादौ विषशस्र्ताग्निजं भयम् । वाहनात् पतनं वापि ज्वरार्तिः स्थाननाशनम
46.106
मण्डूकगमने वामे स्त्रीसुतादिप्रपीडनम् । ज्वरं च श्वापदाद् भीतिं वदेद् विज्ञः पदच
46.107
मर्कटीगमने वाऽपि जलभीतिं पदच्युतिम् । पितुर्नाशं नृपक्रोधं दुर्गारण्याटनं वदेत्
46.108
सिंहावलोकने वामे पदभ्रंशः पितुर्मृतिः । तत्समानमृतिर्वाऽपि फलमेवं विचिन्तयेत्
46.109
मीनात् तु वृश्चिके याते ज्वरो भवति निश्चितः । कन्यातः कर्कटे याते भ्रातृबन्धुविन
46.110
सिंहात्तु मिथुने याते स्त्रिया व्याधिर्भवेद् ध्रुवम् । कर्कटाच्च हरौ याते वधो भव
46.111
पितृबन्धुमृतिं विद्याच्चापान्मेषे गते पुनः । भयं पापखगैर्युक्ते शुभखेटयुते शुभम्
46.112
शुभं वाऽप्यशुभं वाऽपि कालचक्रदशाफलम् । राशिदिक्भागतो वापि पूर्वादिदिग्तभश्चरात्
46.113
तद्दिगावभागे वक्तव्यं तद्दशासमये नृणाम् । यथोपदेशमार्गेण सर्वेषां द्विजसत्तम
46.114
कन्यातः कर्कटे याते पूर्वभागे महत्फलम् । उत्तरं देशमाश्रित्य शुभा यात्रा भविष्यत
46.115
सिंहात्तु मिथुने याते पूर्वभागं विवर्जयेत् । कार्यान्तेऽपि च नैरृत्यां सुखं यात्
46.116
कर्कटात् सिंहभे याते कार्यहानिश्च दक्षिणे । दक्षिणां दिशमाश्रित्य प्रत्यगागमनं भ
46.117
मीनात्तु वृश्चिके याते उदग् गच्छति सङ्कटम् । चापाच्च मकरे याते सङ्कटं जायते ध्रु
46.118
चापान्मेषे तु यात्रायां व्याधिर्बन्धो मृतिर्भवेत् । वृश्चिके तु सुखं सम्पत् स्त्
46.119
सिंहाच्च कर्कटे याते पस्चिमां वर्जयेद्दिशम् । शुभयोगे शुभं ब्रूयादशुभे त्वशुभं फ
46.120
शूरश्चौरश्च मेषांशे लक्ष्मीवांश्च वृषांशके । मिथुनांशे भवेज्ज्ञानी कर्कांशे नृपत
46.121
सिंहांशे राजमान्यश्च कन्यांशे पण्डितो भवेत् । तुलांशे राजमन्त्री स्याद् वृश्चिका
46.122
चापांशे ज्ञानसम्पन्नो मरकांशे च पापकृत् । कुम्भांशे च वणिक्कर्मा मीनांशे धनधान्य
46.123
देहो जीवोऽथवा युक्तो रविभौमार्किराहुभिः । एकैकयोगे मृत्युः स्याद् बहुयोगे तु का
46.124
क्रूरैर्युक्ते तनौ रोगं जीवे युक्ते महद् भयम् । आधी रोगो भवेद् द्वाभ्यांअपमृत्यु
46.125
चतुर्भिर्मृतिमापन्नो देहे जीवेऽशुभैर्युते । युगपद्देहजीवौ च क्रूरग्रहयुतौ तदा
46.126
राजचोरादिभीतिश्च मृतिश्चापि न संशयः । वह्निवाधा रवौ ज्ञेया क्षीणेन्दौ च जलाद् भय
46.127
कुजे शस्त्रकृता पीडा वायुवाधा बुधे भवेत् । गुल्मवाधा शनौ ज्ञेया राहौ केतौ विषाद्
46.128
देहजीवगृहे यातो बुधो जीवोऽथवा भृगुः । सुखस्म्पत्कराः सर्वे रोगशोकविनाशनाः
46.129
मिश्रगृहैश्च संयुक्ते मिश्रं फलमवाप्नुयात् । पापक्षेत्रदशाकाले देहजीवौ तु दुःखित
46.130
शुभयुक्ताशुभक्षेत्रदशा मिश्रफला स्मृता । क्रूरयुक्तशुभक्षेत्रदशा मिश्रफला तथा
46.131
जनानां जन्मकाले तु यो राशिस्तनुभावगः । तस्य चक्रदशाकाले देहारोग्यं सुखं महत्
46.132
शुभे पूर्णसुखं पापे देहे रोगादिसम्भवः । स्वोच्चादिगतखेटाढ्ये राज्यमानधनाप्तयः
46.133
धनभावे च यो राशिस्तस्य चक्रदशा यदा । तदा सुभोजनं पुत्रस्त्रिसुखं च धनाप्तयः
46.134
विद्याप्तिर्वाक्पटुत्वं च सुगोष्ठ्या कालयापनम् । शुभर्क्षे फलमेवं स्यात् पापभे फ
46.135
तृतीयभावराशेस्तु कालचक्रदशा यदा । तदा भ्रातृसुखं शौर्यं धैर्यं चापि महत्सुखम्
46.136
स्वर्णाभरणवस्त्राप्तिः सम्मानं राजसंसदि । शुभर्क्षे फलमेवं स्यात् पापर्क्षे फलमन
46.137
सुखभावगतर्क्षस्य कालचक्रदशा यदा । तदा बन्धुसुखं भूमिगृहराज्यसुखाप्तयः
46.138
आरोग्यमर्थलाभश्च वस्त्रवाहनजं सुखम् । शुभर्क्षे शोभनं ज्ञेयं पापभे फलमन्यथा
46.139
सुतभावगतर्क्षस्य कालचक्रदशा यदा । सुतस्त्रीराज्यसौख्याप्तिरारोग्यं मित्रसंगमः
46.140
विद्याबुद्धियशोलाभो धैर्यं च विक्रमोदयः । शुभराशौ शुभं पूर्णं पापर्क्षे फलमन्यथा
46.141
रिपुभावगतर्क्षस्य कालचक्रदशा यदा । तदा चोरादिभूपाग्निविषशस्त्रभयं महत्
46.142
प्रमेहगुल्मपण्ड्वादिरोगाणामपि संभवः । पापर्क्षे फलमेवं स्यात् शुभर्क्षे मिश्रमाद
46.143
जायाभावगतर्क्षस्य कालचक्रदशा यदा । तदा पाणिग्रहः पत्नीपुत्रलाभादिकं सुखम्
46.144
कृषियोधनवस्त्राप्तिर्नृपपूजा महद्यशः । शुभराशौ फलं पूर्णं पापराशौ च तद्दलम्
46.145
मृत्युभावस्थितर्क्षस्य कालचक्रदशा तदा । स्थाननाशं महद् दुःखं बन्धुनाशं धनक्षयम्
46.146
दारिद्र्यमन्नविद्वोपमरिभीतिं च निर्दिशेत् । पापराशौ फलं पूर्णं शुभराशौ च तद्दलम्
46.147
धर्मभावगतर्क्षस्य कालचक्रदशा यदा । तदा पुत्रकलत्रार्थकृषिगेहसुखं वदेत्
46.148
सत्कर्मधर्मसंसिद्धिं महज्जनपरिग्रहम् । शुभराशौ शुभं पूर्णं पापराशौ च तद्दलम्
46.149
कर्मभावगतर्क्षस्य कालचक्रदशा यदा । राज्याप्तिर्भूपसम्मानं पुत्रदारादिजं सुखम्
46.150
सत्कर्मफलमैश्वर्यं सद्गोष्ठ्या कालयापनम् । शुभराशौ फलं पूर्णं पापराशौ च मिश्रितम
46.151
लाभभावस्थितर्क्षस्य कालचक्रदशा यदा । पुत्रस्त्रीबन्धुसौख्याप्तिर्भूपप्रीतिर्महत्
46.152
धनवस्त्राप्तिरारोग्यं सतां सङ्गश्च जायते । शुभराशौ फलं पूर्णं पापराशौ च खण्डितम्
46.153
व्ययभावगतर्क्षस्य कालचक्रदशा तदा । उद्योगभङ्गमालस्यं देहपीडां पदच्युतिम्
46.154
दारिद्यं कर्मवैफल्यं तथा व्यर्थव्ययं वदेत् । पापराशौ फलं त्वेवं शुभराशौ च तद्दलम
46.155
लग्नादिव्ययपर्यन्तं भानां चरदशां ब्रुवे । तस्मात् तदीशपर्यन्तं संख्यामत्र दशां व
46.156
मेषादित्रित्रिभैर्ज्ञेयं पदमोजपदे क्रमात् । दशाब्दानयने कार्या गणना व्युत्क्रमात
46.157
वृश्चिकाधिपती द्वौ च केतुभौमौ स्मृतौ द्विज । शनिराहु च कुम्भस्य स्वामिनौ परिकीर्
46.158
द्विनाथक्षेत्रयोरत्र क्रियते निर्णयोऽधुना । द्वावेवाधिपती विप्र युक्तौ स्वर्क्षे
46.159
वर्ष द्वादशकं तत्र न चेदेकादि चिन्तयेत् । एकः स्वक्षेत्रयोऽन्यस्तु परत्र यदि संस
46.160
तदाऽन्यत्र स्थितं नाथं परिगृह्य दशां नयेत् । द्वावप्यन्यर्क्षगौ तौ चेत् तमोर्मध्
46.161
तत एव दशा ग्राह्या क्रमाद् वोत्क्रमतो द्विजः । बलस्याऽत्र विचारे स्यादग्रहात् सग
46.162
द्वावेव सग्रहौ तौ चेत् बली तत्राधिकग्रहः । ग्रहयोगसमानत्वे ज्ञेयं राशिबलाद् बलम्
46.163
ज्ञेयाश्चरस्थिरद्वन्द्वाः क्रमतो बलशालिनः । राशिसत्त्वसमानत्वे बहुवर्षो बली भवेद
46.164
एकः स्वोच्चगतश्चाऽन्यः परत्र यदि संस्थितः । गृह्णीयादुच्चखेटस्थं राशिमन्यं विहाय
46.165
उच्चखेटस्य सद्भावे वर्षमेकं च निक्षिपेत् । तथैव नीचखेटस्य वर्षमेकं विशोधयेत्
46.166
एवं सर्वं समालोच्य जातकस्य फलं वदेत्
46.167
क्रमादुत्क्रमतो वाऽपि धर्मभावपदक्रमात् । लग्नराशिं समारभ्य विज्ञश्चरदशां नयेत्
46.168
अथाऽहं सम्प्रवक्ष्यामि स्थिरसंज्ञां दशां द्विज । चरे सप्त स्थिरे चाऽष्टौ द्वन्द्
46.169
स्थिरत्वाच्च दशाब्दानां स्थिराख्येति निगद्यते । ब्रह्मखेटाश्रितर्क्षादिर्दशेयं प
46.170
योऽसौ ब्रह्मग्रहः प्रोक्तः कथं स ज्ञायते मुने । इति स्पष्टतरं ब्रूहि कृपाऽस्ति य
46.171
षष्ठाष्टव्ययनाथेषु यो बली विषमर्क्षगः । पृष्ठस्थितो भवेद् ब्रह्मां बलिनो लग्नजाय
46.172
कारकादष्टमेशो वा ब्रह्माऽप्यष्टभावगः । शनौ पाते च ब्रह्मत्त्वे ब्रह्मा तत्षष्ठखे
46.173
बहवो लक्षणक्रान्ता ज्ञेयस्तेष्वधिकांशकः । अंशसाम्ये बलाधिक्याद् विज्ञेयो ब्रह्मख
46.174
योगार्धे च दशामानं द्वयोर्योगार्धसम्मितम् । लग्नसप्तमप्राण्यादिर्दशेयं च प्रवर्त
46.175
लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् । ततः केन्द्रादिसंस्थानां राशीनाञ्च बलक
46.176
कारकादपि राशीनां खेटानां चैवमेव हि । दशाब्दाश्चरवज्ज्ञेयाः खेटानां च स्वभावधि
46.177
द्विराश्यधिपक्षेटस्य गण्येदुभयावधि । उभयोर्धिक संख्या कारकस्य दशा समाः
46.178
आत्मकारकमारभ्य कारकाख्यदशा क्रमात् । लग्नात् कारकपर्यन्तं संख्यामत्र दशां विदुः
46.179
मण्डूकापरपर्याया त्रिकूटाख्यदशा द्विज । लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत्
46.180
ततः क्रमेणौजराशौ समे नेया तथोऽत्क्रमात् । त्रिकूटानां च विज्ञेयाः स्थिरवच्च दशा
46.181
निर्याणस्य विचारार्थं कैश्चिछूलदशा स्मृता । लग्नसप्तमतो मृत्युभयोर्यो बलवान् भवे
46.182
तदादिर्विषमे विप्र क्रमादुत्क्रमतः समे । दशाब्दाः स्थिरवत्तत्र बलिमारकभे मृतिः
46.183
जन्मलग्नत्रिकोणेषु यो राशिर्बलवान् भवेत् । तमार्भ्य नयेद् धीमान् चरिपर्यायवद् दश
46.184
क्रमादुत्क्रमतो ग्राह्यं त्रिकोणं विषमे समे । त्रिकोणाख्यदशा प्रोक्ता समा नाथावस
46.185
लग्नाद् धर्मस्य तद्दृष्टराशीनां च दशास्ततः । दशमस्य च तद्दृष्टराशीनां च नयेत् पु
46.186
एकादशस्य तद्दृष्टराशीनां स्थिरवत् समाः । प्रवृत्ता दृग् वशाद्यस्माद् दृग्दशेयं त
46.187
चरे व्युत्क्रमतो ग्राह्या दृग्योग्याः स्थिरभे क्रमात् । विषमे क्रमतो द्वन्द्वे र
46.188
ऋक्षे लग्नादिराशीनां दशा राशिदशा स्मृता । भयातं रविभिर्निघ्नं भभोगविहृतं फलम्
46.189
राश्याद्यं लग्नराश्यादौ योज्यं द्वादशशेषितम् । तदारभ्य क्रमादोजे दशा ज्ञेयोत्क्र
46.190
दशाब्दा भुक्तभागघ्ना त्रिंशता विहृताह् फलम् । भुक्तं वर्षादिकं ज्ञेयं भोग्यं मान
46.191
अकारादीन् स्वरान् पञ्च प्रथमं विन्यसेत् क्रमात् । कादिहान्तांल्लिखेद् वर्णान् स्
46.192
तिर्यक् पंक्तिक्रमेणैव पञ्चपञ्चविभागतः । न प्रोक्ता ङञणा वर्णा नामादौ सन्ति ते न
46.193
चेद् भवन्ति तदा ज्ञेया गजडास्ते यथाक्रमात् । यत्र स्वरे स्वनामाद्यवर्णः स्यात् त
46.194
क्रमात् पंच दशाधीशाः द्वादशद्वादशाब्दकाः । स्वराणां च क्रमाज्ज्ञेयाः दशास्वन्तर्
46.195
पूर्वमेव मया प्रोक्ता वर्णदाख्या दशा द्विज । इदानीं शम्भुना प्रोक्ता कथ्यते योगि
46.196
मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा । उल्का सिद्धा संकटा च योगिन्योऽष्टौ प्
46.197
मङ्गलातोऽभवच्चन्द्रः पिङ्गलातो दिवाकरः । धन्यातो देवपूज्योऽभूद् भ्रामरीतोऽभवत् क
46.198
भर्दिकातो बुधो जातस्तथोल्कातः शनैश्चरः । सिद्धातो भार्गवि जातः संकटातस्तमोऽभवद्
46.199
जन्मर्क्ष च त्रिभिर्युक्तं वसुभिर्भागमाहरेत् । एकादिशेषे विज्ञेया योगिन्योः मङ्ग
46.200
एकाद्येकोत्तरा ज्ञेयाः क्रमादासां दशासमाः । नक्षत्रयातभोगाभ्यां भुक्तं भोग्यं च
46.201
येषां यदायुः सम्प्रोक्तं पैण्डमांशं निसर्गजम् । तक्षत् तेषां दशा ज्ञेया पैण्डी च
46.202
बली लग्नार्कचन्द्राणां यत्तस्य प्रथमा दशा । तत्केन्द्रादिगतानां च ज्ञेया बलवशात्
46.203
अष्टवर्गबलेनैषां फलानि परिचिन्तयेत् । अष्टवर्गदशाश्चैताः कथिताः पूर्वसूरिभिः
46.204
परायुर्द्वादशो भागस्तस्य सन्ध्या प्रकीर्तिता । तन्मिता लग्नभादीनां क्रमात् सन्ध्
46.205
सन्ध्या रसगुणा कार्या चन्द्रवह्निहृता फलम् । संस्थाप्यं प्रथमे कोष्ठे तदर्धं त्र
46.206
त्रिभागं वसुकोष्ठेषु विन्यस्य तत्फलं वदेत् । एवं द्वादशभावेषु पाचकानि प्रकल्पयेत
46.207
विंशत्तरिदशेवाऽत्र कैश्चित् तारादशा स्मृता । आशंकुरागुशबुकेश्वादिस्थानेषु तारकाः
46.208
अन्मसम्पत्विपत्क्षेमप्रत्यरिः साधको बधः । मैत्रं परममैत्रं च केन्द्रस्थबलिनो ग्र
46.209
ज्ञेया तारादशा विप्र नामतुल्यफलप्रदा । यस्य केन्द्रे स्थितः खेटो दशेयं तस्य कीर्
46.210
इति ते कथिता विप्र दश भेदा अनेकधा । एतदन्तर्दशाभेदान् कथयिष्यामि चाग्रतः
← ग्रहावस्थाध्यायः
दशाफलाद्यायः →