← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

दशाफलाद्यायः

89 verses · Maharshi Parashara

47.1श्रुताश्च बहुधा भेदा दशानां च मया मुने । फलं च कीदृशं तासां कृपया मे तदुच्यताम् 47.2साधारणं विशिष्टञ्च दशानां द्विविधं फलम् । ग्रहाणां च स्वभावेन स्थानस्थितिवशेन च 47.3ग्रहवीर्यानुसारेण फलं ज्ञेयं दशासु च । आद्यद्रेष्काणगे खेटे दशारम्भे फलं वदेत् 47.4दशामध्ये फलं वाच्यं मध्यद्रेष्काणगे खगे । अन्ते फलं तृतीयस्थे व्यस्तं खेटे च वक् 47.5दशारम्भे दशादीशे लग्नगे शुभदृग्युते । स्वोच्चे स्वभे स्वमैत्रे वा शुभं तस्य दशाफ 47.6षष्ठाऽष्टमव्ययस्थे च नीचास्तरिपुभस्थिते । अशुभं तत्फलं चाऽथ ब्रुवे सर्वदशाफलम् 47.7मूलत्रिकोणे स्वक्षेत्रे स्वोच्चे वा परमोच्चगे । केन्द्रत्रिकोणलाभस्थे भाग्यकर्मा 47.8सूर्ये बलसमायुक्ते निजवर्गबलैर्युते । तस्मिन्दाये महत् सौख्यं धनलाभादिकं शुभम् 47.9अत्यन्तं राजसन्मानमश्वांदोल्यादिकं शुभम् । सुताधिपसमायुक्ते पुत्रलाभं च विन्दति 47.10धनेशस्य च सम्बन्धे गजान्तैश्वर्यमादिशेत् । वाहनाधिपसम्बन्धे वाहनात्रयलाभकृत् 47.11नृपलतुष्टिर्वित्ताढ्यः सेनाधीशः सुखी नरः । वस्त्रवाहनलाभश्च दशायां बलिनो रवेः 47.12नीचे षडष्टके रिःफे दुर्बले पापसंयुते । राहुकेतुसमायुक्ते दुह्स्थानाधिपसंयुते 47.13तस्मिन्दाये महापीडा धनधान्यविनाशकृत । राजकोपः प्रवासश्च राजदण्डो धनक्षयः 47.14ज्वरपीडा यशोहानिर्बन्धुमित्रविरोधकृत । पितृक्षयभयं चैव गृहे त्वशुभमेव च 47.15पितृवर्गे मनस्तापं जन्द्वेषं च विन्दति । शुभदृष्टियुते सूर्ये मध्ये तस्मिन् क्वच 47.16एवं सूर्यफलं विप्र संक्षेपादुदितं मया । विंशोत्तरीमतेनाथ ब्रुवे चन्द्रदशाफलम् 47.17स्वोच्चे स्वक्षेत्रगे चैव केन्द्रे लाभत्रिकोणगे । शुभग्रहेण संयुक्ते पूर्णे चन्द 47.18कर्मभाग्याधिपैर्युक्ते वाहनेशबलैर्युते । आद्यन्तैश्वर्यसौभाग्यधनधान्यादिलाभकृत 47.19गृहे तु शुभकार्याणि वाहनं राजदर्शनम् । यत्नकार्यार्थसिद्धिः स्याद् गृहे लक्ष्मीक 47.20मित्रप्रभुवशाद्भाग्यं राज्यलाभं महत्सुखम् । अश्वान्दोल्यादिलाभं च श्वेतवस्त्रादि 47.21पुत्रलाभादिसन्तोषं गृहगोधनसंकुलम् । धनस्थानगते चन्द्रे तुङ्गे स्वक्षेत्रगेऽपि वा 47.22अनेकधनलाभं च भाग्यवृद्धिर्महत्सुखम् । निक्षेपराजसन्मानं विद्यालाभं च विन्दति 47.23नीचे वा क्षीणचन्द्रे वा धनहानिर्भविष्यति । दुश्चिक्ये बलसंयुक्ते क्वचित्सौख्यं क 47.24दुर्बले पापसंयुक्ते देहजाड्यं मनोरुजम् । भृत्यपीडा वित्तहानिर्मातृवर्गजनाद्वधः 47.25षष्ठाष्टमव्यये चन्द्रे दुर्बले पापसंयुते । राजद्वेषो मनोदुःखं धनधान्यादिनाशनम् 47.26मातृक्लेषं मनस्तापं देहजाड्यं मनोरुजम् । दुःस्थे चन्द्रे बलैर्युक्ते क्वचिल्लाभं 47.27स्वभोच्चादिगतस्यैवं नीचशत्रुभगस्य च । ब्रवीमि भूमिपुर्तस्य शुभाऽशुभदशाफलम् 47.28परमोच्चगते भौमे स्वोच्चे मूलत्रिकोणगे । स्वर्क्षे केन्द्रत्रिकोणे वा लाभे वा धनग 47.29सम्पूर्णबलसंयुक्ते शुभदृष्टे शुभांशके । राज्यलाभं भूमिलाभं धनधान्यादिलाभकृत् 47.30आधिक्यं राजसम्मानं वाहनाम्बरभूषणम् । विदेशे स्थानलाभं च सोदराणां सुखं लभेत् 47.31केन्द्रे गते सदा भौमे दुश्चिक्ये बलसंयुते । पराक्रमाद्वित्तलाभो युद्धे शत्रुजयो 47.32कलत्रपुत्रविभवं राजसम्मानमेव च । दशादौ सुखमाप्नोति दशान्ते कष्टमादिशेत् 47.33नीचादिदुष्टभावस्थे भौमे बलविवर्जिते । पापयुक्ते पापदृष्टे सा दशा नेष्टदायिका 47.34एवं राहोश्च केतोश्च कथयामि गृहादिकम् । तयोर्दशाफलज्ञप्त्यै तवाऽग्रे द्विजनन्दन 47.35राहोस्तु वृषभं केतोर्वृश्चिकं तुङ्गसंज्ञकम् । मूलत्रिकोणकं ज्ञेयं युग्मं चापं क् 47.36कुम्भाली च गृहौ प्रोक्तौ कन्यामीनौ च केनचित् । तद्दाये बहुसौख्यं च धनधान्यादिसम् 47.37मित्र्प्रभुवशादिष्टं वाहनं पुत्रसम्भवः । नवीनगृहनिर्माणं धर्मचिन्ता महोत्सवः 47.38विदेशराजसन्मानं वस्त्रालङ्कारभूषणम् । शुभयुक्ते शुभैर्दृष्टे योगकारकसंयुते 47.39केन्द्रत्रिकूणलाभे वा दुश्चिक्ये शुभराशिगे । महाराजप्रसादेन सर्वसम्पत्सुखावहम् 47.40यवनप्रभुसन्मानं ग्र्हे कल्याणसम्भवम् । रन्ध्रे वा व्ययगे राहौ तद्दाये कष्टमादिशे 47.41पापग्रहेण सम्बन्धे मारकग्र्हसंयुते । नीचराशिगते वापि स्थानभ्रंशो मनोव्यथा 47.42विनाशो दारपुत्राणां कुत्सितान्नं च भोजनम् । दशादौ देहपीडा च धनधान्यपरिच्युतिः 47.43दशामध्ये तु सौख्यं स्यात् स्वदेशे धनलाभकृत् । दशान्ते कष्टमाप्नोति स्थानभ्रंशो म 47.44यः सर्वेषु नाभोगेषु बुधैरतिशुभः स्मृतः । तस्य देवेन्द्रपूज्यस्य कथयामि दशाफलम् 47.45स्वोच्चे स्वक्षेत्रगे जीवे केन्द्रे लाभत्रिकोणगे । मूलत्रिकोणलाभे वा तुंगांशे स् 47.46राज्यलाभं महापौरुषं राजसन्मानकीर्तनम् । गजवाजिसमायुक्तं देवब्राह्मणपूजनम् 47.47दारपुत्रादिसौख्यं च वाहनांबरलाभजम् । यज्ञादिकर्मसिद्धिः स्याद्वेदान्तश्रवणादिकम् 47.48महाराजप्रसादेनाऽभीष्टसिद्धिः सुखावहा । आन्दोलिकादिलाभश्च कल्याणं च महत्सुखम् 47.49पुत्रदारादिलाभश्च अन्नदानं महत्प्रियम् । नीचास्तपापसंयुक्ते जीवै रिष्फाष्टसंयुते 47.50स्थानभ्रंशं मनस्तापं पुत्रपीडामहद्भयम् । पश्वादिधनहानिश्च तीर्थयात्रादिकं लभेत् 47.51आदौ कष्टफलं चैव चतुष्पाज्जीवलाभकृत् । मध्यान्ते सुखमाप्नोति राजसम्मानवैभवम् 47.52अथ सर्वेषु खेटेषु योऽतिहीनः प्रकीर्तितः । तस्य भास्करपुत्रस्य कथयामि दशाफलम् 47.53स्वोच्चे स्वक्षेत्रगे मन्दे मित्रक्षेत्रेऽथ वा यदि । मूलत्रिकोणे भाग्ये वा तुंगा 47.54दुश्चिक्ये लाभगे चैव राजसम्मानवैभवम् । सत्कीर्तिर्धनलाभश्च विद्यावादविनोदकृत् 47.55महाराजप्रसादेन गजवाहनभूषणम् । राजयोगं प्रकुर्वीत सेनाधीशान्महत्सुखम् 47.56लक्ष्मीकटाक्षचिह्नानि राज्यलाभं करोति च । गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत 47.57षष्ठाष्टमव्यये मन्दे नीचे वाऽस्तङ्गतेऽपि वा । विषशस्त्रादिपीडा च स्थाभ्रंशं महद् 47.58पितृमातृवियोगं च दारपुत्रादिपीडनम् । राजवैस्ःअम्यकार्याणि ह्यनिष्टं बन्धनं तथा 47.59शुभयुक्तेक्षिते मन्दे योगकारकसंयुते । केन्द्रत्रिकोणलाभे वा मीनगे कार्मुके शनौ 47.60राज्यलाभं महोत्साहं गजश्वाम्बरसंकुलम् 47.61अथ सर्वनभोगेषु यः कुमारः प्रकीर्तितः । तस्य तारेशपुत्रस्य कथयामि दशाफलम् 47.62स्वोच्चे स्वक्षेत्रसंयुक्ते केन्द्रलाभत्रिकोणगे । मित्रक्षेत्रसमायुक्ते सौम्ये द 47.63धनधान्यादिलाभं च सत्कीर्तिधनसम्पदाम् । ज्ञानाधिक्यं नृपप्रीतिं सत्कर्मगुणवर्द्धन 47.64पुत्रदारादिसौख्यं च देहारोग्यं महत्सुखम् । क्षीरेण भोजनं सौख्यं व्यापाराल्लभते ध 47.65शुभदृष्टियुते सौम्ये भाग्ये कर्माधिपे दशा । आधिपत्ये बलवती सम्पूर्ण्फलदादिका 47.66पापग्रहयुते दृष्टे राजद्वेषं मनोरुजम् । बन्धुजनविरोधं च विदेशगमनं लभेत् 47.67परप्रेष्यं च कलहं मूर्तकृर्च्छान्महन्भयम् । षष्ठाष्टमव्यये सौम्ये लाभभोगार्थनाशन 47.68वातपीडां धनं चैवं पाण्डुरोगं विनिर्दिशेत् । नृपचौराग्निभीतिं च कृषिगोभूमिनाशनम् 47.69दशादौ धनधान्यं च विद्यालाभं महत्सुखम् । पुत्रकल्याणसम्पत्तिः सन्मार्गे धनलाभकृत् 47.70मध्ये नरेन्द्रसन्मानमन्ते दुःखं भविष्यति 47.71यस्तमोग्रहयोर्मध्ये कबन्धः कथ्यते बुधैः । तस्य केतोरिदानीं ते कथेयामि दशाफलम् 47.72केन्द्रे लाभे त्रिकोणे व शुभराशौ शुभेक्षिते । स्वोच्चे वा शुभवर्गे वा राजप्रीतिं 47.73देशाग्रामाधिपत्यं च वाहनं पुत्रसम्भवम् । देशान्तरप्रयाणं च निर्दिशेत् तत् सुखावह 47.74पुत्रदारसुखं चैव चतुष्पाज्जीवलाभकृत् । दुश्चिक्ये षष्ठलाभे वा केतुर्दाये सुखं दि 47.75राज्यं करोति मित्रांशं गजवाजिसमन्वितम् । दशदौ राजयोगश्च दशामध्ये महद्भयम् 47.76अन्ते दूराटनं चैव देहविश्रमणं तथा । धने रन्ध्रे व्यये केतौ पापदृष्टियुतेक्षिते 47.77निगडं बन्धुनाशं च स्थानभ्रंशं मनोरुजम् । शूद्रसङ्गादिलाभं च कुरुते रोगसंकुलम् 47.78अथ भूतेषु यः शुक्रा मदरूपेण तिष्ठति । तस्य दैत्यगुरोर्विप्र कथयामि दशाफलम् 47.79परमोच्चगते शुक्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे । नृपाऽभिषेकसम्प्राप्तिर्वाहनाऽम् 47.80गजाश्वपशुलाभं च नित्यं मिष्ठान्नभोजनम् । अखण्डमण्डलाधीशाराजसन्मानवैभवम् 47.81मृदङ्गवाद्यघोषं च गृहे लक्ष्मीकटाक्षकृत् । त्रिकोणस्थे निजे तस्मिन् राज्यार्थगृह 47.82विवाहोत्सवकार्याणि पुत्रकल्याणवैभवम् । सेनाधिपत्यं कुरुते इष्टबन्धुसमागनम् 47.83नष्टराज्याद्धनप्राप्तिं गृहे गोधनसङ्ग्रहम् । षष्ठाष्टमव्यये शुक्रे नीचे वा व्ययर 47.84आत्मबन्धुजनद्वेषं दारवर्गादिपीडनम् । व्यवसायात्फ्लं नष्टं गोमहिष्यादिहानिकृत् 47.85दारपुत्रादिपीडा वा आत्मबन्धुवियोगकृत् । भाग्यकर्माधिपत्येन लग्नवाहनराशिगे 47.86तद्दशायां महत्सौख्यं देशग्रामाधिपालता । देवालयतडागादिपुण्यकर्मसु संग्रहः 47.87अन्नदाने महत्सौख्यं नित्यं मिष्ठान्नभोजनम् । उत्साहः कीर्तिसम्पत्ती स्त्रीपुत्रध 47.88स्वभुक्तौ फलमेवं स्याद्बलान्यन्यानि भुक्तिषु । द्वितीयद्यूननाथे तु देहपीडा भविष् 47.89तद्दोषपरिहारार्थं रुद्रं वा त्र्यम्बकं जपेत् । स्वेतां गां महिषीं दव्यादारोग्यं