← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
विशेषनक्षत्रदशाफलाध्यायः
20 verses · Maharshi Parashara
48.1
स्थानस्थितिवशेनैवं फलं प्रोक्तं पुरातनैः । मिथो भावेशसम्बन्धात्फलानि कथयाम्यहम्
48.2
लग्नेशस्य गशाकाले सत्कीतिर्देहजं सुखम् । धनेशस्य दशायां तु क्लेशो वा मृत्युतो भय
48.3
सहजेशदशाकाले ज्ञेयं पापफलं नृणाम् । सुखाधीशदशायां तु गृहभूमिसुखं भवेत्
48.4
पञ्चमेशस्य पाके च विद्याप्तिः पुत्रजं सुखम् । रोगेशस्य दशाकाले देहपीडा रिपोर्भयम
48.5
सप्तमेशस्य पाके तु स्त्रीपीडा मृत्युतो भयम् । अष्टमेशदशाकाले मृत्युभीतिर्धनक्षति
48.6
धर्मशस्य दशायां च भूरिल्लाभो यशःसुखम् । दशमेशदशाकाले सम्मानं नृपसंसदि
48.7
लाभेशस्य दशाकाले लाभे बाधा रुजोभयम् । व्ययेशस्य दशा नृणां बहुकष्टप्रदा द्विज
48.8
दशारम्भे शुभस्थाने स्थितस्यापि शुभं फलम् । अशुभस्थानगस्यैवं शुभस्यापि न शोभनम्
48.9
पञ्चमेशेन युक्तस्य कर्मेशस्य दशा शुभा । नवमेशेन युक्तस्य कर्मेशस्यातिशभना
48.10
पञ्चमेशेन युक्तस्य ग्रहस्यापि दशा शुभा । तथा धर्मपयुक्तस्य दशा परमशोभना
48.11
सुखेशसहितस्यापि धर्मेशस्य दशा शुभा । पञ्चमस्थानगस्यापि मानेशस्य दशाशुभा
48.12
एवं त्रिकोणनाथानां केन्द्रस्थानां दशाः शुभाः । तथा कोणस्थितानां च केन्द्रेशानां
48.13
केन्द्रेशः कोणभावस्थः कोणेशः केन्द्रगो यदि । तयोर्दशां शुभां प्राहुर्ज्योतिःशास्
48.14
षष्ठाष्टमव्ययाधीशा अपि कोणेशसंयुता । तेषां दशाऽपि शुभदा कथिता कालकोविदैः
48.15
कोणेशो यदि केम्द्रस्थः केन्द्रेशो यदि कोणगः । ताभ्यां युक्तस्य खेटस्य दृष्टियुक्
48.16
दशां शुभप्रदां प्राहुर्विद्वांसो दैवचिन्तकाः । लग्नेशो धर्मभावस्थो धर्मेशो लग्नग
48.17
एतयोस्तु दशाकाले सुखधर्मसमुद्भवः । कर्मेशो लग्नराशिस्थो लग्नेशः कर्मभावगः
48.18
तयोर्दशाविपाके तु राज्यलाभो भवेद्ध्रुवम् । त्रिषडायगतानां च त्रिषडायाधिपैर्युजम्
48.19
शुभानामपि खेटानां दशा पापफलप्रदा । मारकस्थानगानां च मारकेशयुजामपि
48.20
रन्ध्रस्थानगतानां च दशाऽनिष्टफलप्रदा । एवं भावेशसम्बन्धादूरनीयं दशाफलम्
← दशाफलाद्यायः
कालचक्रदशाफलाध्यायः →