← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
कुजदशान्तर्दशाफलाध्यायः
76 verses · Maharshi Parashara
54.1
कुजे स्वान्तर्गते विप्र लग्नात्केन्द्रत्रिकोणगे । लाभे वा शुभसंयुक्ते दुष्चिक्ये
54.2
लग्नाधिपेन संयुक्ते राजाऽनुग्रहवैभवम् । लक्ष्मीकटोक्षचिह्नानि नष्टराज्यार्थलाभकृ
54.3
पुत्रोत्सवादिसन्तोषो गृहे गोक्षीरसङ्कलम् । स्वोच्चे वा स्वर्क्षगे भौमे स्वांशे व
54.4
गृहक्षेत्राभिवृद्धिश्च गोमहिष्यादिलाभकृत् । महाराजप्रसादेन स्वेष्टसिद्धिः सुखावह
54.5
अथाऽष्टमव्यये भौमे पापदृग्योगसंयुते । मूत्रकृर्च्छादिरोगश्च कष्टाधिक्यं व्रणाद्भ
54.6
चौराहिराजपीडा च धनधान्यपरुक्षयः । द्वितीये द्यूननाथे तु देहजाड्यं मनोव्यथा
54.7
तद्दोषपरिहारार्थं रुद्रजाप्यं च कारयेत् । अनड्वाहं प्रदद्वाच्च कुजदोषनिवृत्तये
54.8
तेन तुष्टो भवेद् भौमः शङ्करस्य प्रसादतः । आरोग्यं कुरुते तस्य सर्वसम्पत्तिदायकम्
54.9
कुजस्यान्तर्गते राहौ स्वोच्चे मूलत्रिकोणगे । शुभैर्युक्ते शुभैर्दृष्टे केन्द्रला
54.10
तत्काले राजसम्मानं गृहभूम्यादिलाभकृत् । कलत्रपुत्रलाभः स्याद्व्यवसायात्फलाधिकम्
54.11
गङ्गास्नानफलावाप्तिं विदेशगमनं तथा । तथाऽष्टमव्यये राहौ पापयुक्तेऽथ वीक्षिते
54.12
चौराहिव्रणभीतिश्च चतुष्पाज्जीवनशनम् । वातपित्तरुजोभीतिः कारागृहनिवेशनम्
54.13
धनस्थानगते राहौ धननासं महद्भयम् । सप्तमस्थानगे वाऽपि ह्यपमृत्युभयं महत्
54.14
नागपूजां प्रकुर्वीत देवब्राह्मणभोजनम् । मृत्युञ्जयजपं कुर्यादायुरारोग्यलब्धये
54.15
कुजस्यान्तर्गते जीवे त्रिकोणे केन्द्रगेऽपि वा । लाभे वा धनसंयुक्ते तुङ्गांशे स्व
54.16
सत्कीर्ती राजसम्मानं धनधान्यस्य वृद्धिकृत् । गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभ
54.17
दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा । भाग्यकर्माधिपैर्युक्ते वाहनाधिपसं
54.18
लग्नाधिपसमायुक्ते शुभांशे शुभवर्गगे । गृहक्षेत्राभिवृद्धिश्च गृहे कल्याणसम्पदः
54.19
देहारोग्यं महत्कीर्तिगृहे गोकुलसंग्रहः । चतुष्पाज्जीवलाभः स्याद्व्यवसायात्फलाधिक
54.20
कलपुत्रसौख्यं च राजसम्मानवैभवम् । षष्ठाष्टमव्यये जीवे नीचे वास्तंगते सति
54.21
पापग्रहेण संयुक्ते दृष्टे वा दुर्बले सति । चौराहिनृपभीतिश्च पित्तरोगादिसम्भवम्
54.22
प्रेतबाधा भृत्यनाशः सोदराणां विनाशनम् । द्वितीयद्यूननाथे तु ह्यपमृत्युज्वरादिकम्
54.23
कुजस्यान्तर्गते मन्दे स्वर्क्षे केन्द्रत्रिकोणगे । मूलत्रिकोणकेन्द्रे वा तुङ्गां
54.24
लग्नाधिपतिना वापि शुभदृष्टियुतेऽसिते । राज्यसौख्यं यशोवृद्धिः स्वग्रामे धान्यवृद
54.25
पुत्रपौत्रसमायुक्तो गृहे गोधनसंग्रहः । स्ववारे राजसम्मानं स्वमासे पुत्रवृद्धिकृत
54.26
नीचादिक्षेत्रगे मन्दे तथाऽष्टव्ययराशिगे । म्लेच्छवर्गप्रभुभयं धनधन्यादिनाशनम्
54.27
निगडे बन्धनं व्याधिरन्ते क्षेत्रनाशकृत् । द्वितीयद्यूननाथे तु पापयुक्ते महद्भयम्
54.28
धननाशश्च सञ्चारे राजद्वेषो मनोव्यथा । चौराग्निनृपपीडा च सहोदरविनाशनम्
54.29
बन्धुद्वेषः प्रमाद्यैश्च जीवहानिश्च जायते । अकस्माच्च मृतेर्भीतिः पुत्रदारादिपीड
54.30
कारागृहादिभीदिश्च राजदण्डो महद्भयम् । दायेशात्केन्द्रराशिस्थे लाभस्थे वा त्रिकोण
54.31
विदेशयानं लभते दुष्कीर्तिर्विविधा तथा । पापकर्मरतो नित्यं बहुजीवादिहिंसकः
54.32
विक्रयः क्षेत्रहानिश्च स्थानभ्रंशो मनोव्यथा । रणे पराजयश्चैव मूत्रकृर्च्छान्महद्
54.33
दायेशादथ रन्ध्रे वा व्यये वा पापसंयुते । तद्भुक्तौ मरणं ज्ञेयं नृपचौरादिपीडनम्
54.34
वातपीडा च शूलादिज्ञातिश्त्रुभयं भवेत्
54.35
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् । ततः सुखमवाप्नोति शङ्करस्य प्रसादतः
54.36
कुजस्यान्तर्गते सौम्ये लग्नात्केन्द्रत्रिकोणगे । सत्कथाश्चाऽजपादानं धर्मबुद्धिर्
54.37
नीतिमार्गप्रसङ्गश्च नित्यं मिष्टान्नभोजनम् । वाहनाम्बरपश्वादिर्राजकर्म सुखानि च
54.38
कृषिकर्मफले सिद्धिर्वारणाम्बरभूषणम् । नीचे वास्तङ्गते वापि षष्ठाष्टव्ययगेऽपि वा
54.39
हृद्रोगं मानहानिश्च निगडं बन्धुनाशनम् । दारपुत्रार्थनाशः स्याच्चतुष्पाज्जीवनाशनम
54.40
दशाधिपेन संयुक्ते शत्रुवृद्धिर्महद्भयम् । विदेशगमनं चैव नानारोगास्तथैव च
54.41
राजद्वारे विरोधश्च कलहः स्वजनैरपि । दायेशात्केन्द्रत्रिकोणे वा स्वोच्चे युक्तार्
54.42
अनेकधननाथत्वं राजसम्मनमेव च । भूपालयोगं कुरुते धनम्बरविभूषणम्
54.43
भूरवाद्यमृदंगादि सेनापत्यं महत्सुखम् । विद्याविनोदविमला वस्त्रवाहनभूषणम्
54.44
दारपुत्रादिविभवं गृहे लक्ष्मीः कटाक्षकृत् । दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापस
54.45
तद्दाये मानोहानिः स्यात्क्रूरबुद्धिस्तु क्रूरवाक् । चौराग्निनृपपीडा च मार्गे दस्
54.46
अकस्मात्कलहश्चैव बुधमुक्तौ न संशयः । द्वितीयद्यूननाथे तु महाव्याधिर्भयङ्करः
54.47
अश्वदानं प्रकुर्वीत विष्णोर्नामसहस्रकम् । सर्वसम्पत्प्रदं विप्र सर्वारिष्टप्रशान
54.48
कुजस्यान्तर्गते केतौ त्रिकोणे केन्द्रगेऽपि वा । दिश्चिक्ये लाभगे वाऽपि शुभयुक्ते
54.49
राजानुग्रहशान्तिश्च बहुसौख्यं धनागमः । किञ्चित्फलं दशादौ तु भूलाभः पुत्रलाभकृत्
54.50
राजसंलाभकार्याणि चतुष्पाज्जीवलाभकृत् । योगकारकसंस्थाने बलवीर्यसमन्विते
54.51
पुत्रलाभो यशोवृद्धिर्गृहे लक्ष्मीः कटाक्षकृत् । भृत्यवर्गधनप्राप्तिः सेनापत्यं म
54.52
भूपालमित्रं कुरुते यागाम्बरादिभूषणम् । दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते
54.53
कलहो दन्तरोगश्च चौरव्याघ्रादिपीडनम् । ज्वरातिसारकुष्ठादिदारपुत्रादिपीडनम्
54.54
द्वितीयसप्तमस्थाने देहे व्याधिर्भविष्यति । अपमानमनस्तापो धनधान्यादिप्रच्युतिम्
54.55
कुजस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वाऽपिशुभस्था
54.56
राज्यलाभो महत्सौख्यं गजाश्वाम्बरभूषणम् । लग्नाधिपेन सम्बन्धे पुत्रदारादिवर्धनम्
54.57
आयुषो वृद्धिरैश्वर्यं भाग्यवृद्धिसुखं भवेत् । दायेशात्केन्द्रकोणस्थे लाभे वा धनग
54.58
तत्काले श्रियमाप्नोति पुत्रलाभं महत्सुखम् । स्वप्रभोश्च महत्सौख्यं धनवस्त्रादिला
54.59
महारजप्रसादेन ग्रामभूम्यादिलाभदम् । भुक्त्यन्ते फलमाप्नोति गीतनृत्यादिलाभकृत्
54.60
पुण्यतीर्थस्नानलाभं कर्माधिपसमन्विते । पुण्यधर्मदयाकूपतडागं कारयिष्यति
54.61
दायेशाद्रन्ध्ररिष्फस्थे षष्ठे वा पापसंयुते । करोति दुःखबाहुल्यं देहपीडां धनक्षयम
54.62
राजचौरादिभीतिञ्च गृहे कलहमेव च । दारपुत्रादिपीडां च गोमहिष्यादिनाशकृत्
54.63
द्वितीयद्यूननाथे तु देहबाधा भविष्यति । श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धय
54.64
कुजस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे । मूलत्रिकोणलाभे वा भाग्यकर्
54.65
तद्भुक्तौ वाहनं कीर्तिं पुत्रलाभं च विन्दति । धनधान्यसमृद्धिः स्याद् गृहे कल्याण
54.66
क्षेमारोग्यं महद्धैर्यं राजपूज्यं महत्सुखम् । व्यवसायात्फलाधिक्यं विदेशे राजदर्श
54.67
दायेशात्षष्ठरिष्फे वा व्यये वा पापसंयुते । देहपीडा मनस्तापः कार्यहानिर्महद्भयम्
54.68
शिरोरोगो ज्वरादिश्च अतिसारमथापि वा । द्वितीयद्यूननाथे तु सर्पज्वरविषाद्भयम्
54.69
सुतपीडाभयं चैव शान्ति कुर्याद्यथाविधि । देहारोग्यं प्रकुरुते धनधान्यचयं तथा
54.70
कुजस्यान्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे । भार्यवाहनकर्मेशलग्नाधिपसम
54.71
करोति विपुलं राज्यं गन्धमाल्याम्बरादिकम् । तडागं गोपुरादीनां पुण्यधर्मादिसंग्रहम
54.72
विवाहोत्सवकर्माणि दारपुत्रादिसौख्यकृत् । पितृमातृसुखावाप्तिं गृहे लक्ष्मीः कटाक्
54.73
महारजप्रसादेन स्वेष्टसिद्धिसुखादिकम् । पूर्णे चन्द्रे पूर्णफलं क्षीणे स्वल्पफल्ं
54.74
नीचारिस्थऽष्टमे षष्ठे दायेशाद्रिपुरन्ध्रके । मरणं दारपुत्राणां कष्टं भूमिविनाशनम
54.75
पशुधान्यक्षयश्चैव चौरादिरणभीतिकृत् । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति
54.76
देहजाड्यं मनोदुःखं दुर्गा लक्ष्मीजपं चरेत् । श्वेतां गां महिषीं दद्यादनेमारोग्यम
← चन्द्रान्तर्दशाफलाध्यायः
रह्वन्तर्दशाफलाध्यायः →