← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

रह्वन्तर्दशाफलाध्यायः

83 verses · Maharshi Parashara

55.1कुलीरे वृश्चिके राहौ कन्यायां चापगेऽपि वा । तद्भुक्तौ राजसम्मानं वस्त्रवाहनभूषणम 55.2व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् । प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् 55.3लग्नादुपचये राहौ शुभग्रहयुतेक्षिते । मित्रांशे तुङ्गभागांशे योगकारकसंयुते 55.4राज्यलाभं महोत्साहं राजप्रीतिं शुभावहम् । करोति सुखसम्पत्तिं दारपुत्रादिवर्द्धनम 55.5लग्नाष्ट्मे व्यये राहौ पापयुक्तेऽथ वीक्षिते । चौरादिव्रणपीडा च सर्वत्रैवं भवेद्द 55.6राजद्वारजनद्वेष इष्टबन्धुविनाशनम् । दारपुत्रादिपीडा च भवत्येव न संशयः 55.7द्वितीयद्यूननाथे वा सप्तमस्थानमाश्रिते । सदा रोगो महाकष्टं शान्तिं कुर्याद्यथावि 55.8राहुरन्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे स्वक्षेत्रगे वापि तुङ्गस्व 55.9स्थानलाभं मनोधैर्यं शत्रुनाशं महत्सुखम् । राजप्रीतिकरं सौख्यं जनोऽतीव समश्नुते 55.10दिनेदिने वृद्धिरपि सितपक्षे शशी यथा । वाहनादिधनं भूरि गृहे गोधनसंकुलम् 55.11नैरृत्ये पश्चिमे भागे प्रयाणं राजदर्शनम् । युक्तकार्यार्थसिद्धिः स्यात्स्वदेशे प 55.12उपकारो ब्राह्मणानां तीर्थयात्रादिकर्मणाम् । वाहनग्रामलाभश्च देवब्राह्मणपूजनम् 55.13पुत्रोत्सवादिसन्तोषो नित्यं मिष्ठान्नभोजनम् । नीचे वाऽस्तङ्गते वापि षष्ठाष्टव्यय 55.14शत्रुक्षेत्रे पापयुक्ते धनहानिर्भविष्यति । कर्मविघ्नो भवेत्तस्य मानहानिश्च जायते 55.15कलत्रपुत्रपीडा च हृद्रोगो राजकारकृत् । दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा 55.16दुश्चिक्ये बलसम्पूर्णे गृहक्षेत्रादिवृद्धिकृत् । भोजनाम्बरपश्वादिदानधर्मजपादिकम् 55.17भुक्त्यन्ते राजकोपाच्च द्विमासं देहपीडनम् । ज्येष्ठभ्रातुर्विनाशश्च मातृपित्रादि 55.18दायेशात्षष्ठरन्ध्रे वा रिःफे वा पापसंयुते । तद्भुक्तौ धनहानिः स्याद्देहपीडा भविष 55.19द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति । स्वर्णस्य प्र्तिमादानं शिवपूजं च कार् 55.20श्रीशम्भोश्च प्रसादेन ग्रहस्तुष्टो द्विजोत्तम । देहारोग्यं प्रकुरुते शान्तिं कुर 55.21राहोरन्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे मूलत्रिकोणे वा दुश्चिक्ये 55.22तद्भुक्तौ नृपतेः सेवा राजप्रीतिकरी शुभा । विवाहोत्सवकार्याणि कृत्वा पुण्यानि भूर 55.23आरामकरणे युक्तो तडागं कारयिष्यति । शूद्रप्रभुवशादिष्टलाभो गोधनसंग्रहः 55.24प्रयाणं पश्चिमे भागे प्रभुमूलाद्धनक्षयः । देहालस्यं फलाल्पत्वं स्वदेशे पुनरेष्यत 55.25नीचारिक्षेत्रगे मन्दे रन्ध्रे वा व्ययगेऽपि वा । नीचारिराजभीतिश्च दारपुत्रादिपीडन 55.26आत्मबन्धुमनस्तापं दायादजनविग्रहम् । व्यवहारे च कलहमकस्माद्भूषणं लभेत् 55.27दायेशात्षष्ठरिष्फे वा रन्ध्रे वा पापसंयुते । हृद्रोगो मानहानिश्च विवादः शत्रुपीड 55.28अन्यदेशादिसञ्चारो गुल्मवद्वयाधिभाग्भवेत् । कुभोजनं कोद्रवादि जातिदुःखाद्भयं भवेत 55.29द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति । कृष्णां गां महिषीं दद्याद्दानेमारोग्य 55.30राहोरन्तर्गते सौम्ये भाग्ये वा स्वर्क्षगेऽपि वा । तुङ्गे वा केन्द्रराशिस्थे पुत् 55.31राजयोगं प्रकुरुते गृहे कल्याणवर्द्धनम् । व्यापारेण धनप्राप्तिविद्यावाहनमुत्तमम् 55.32विवाहोत्सवकार्याणि चतुष्पाज्जीवलाभकृत् । सौम्यमासे महत्सौख्यं स्ववारे राजदर्शनम् 55.33सुगन्धपुष्पशय्यादि स्त्रीसौख्यं चातिरोभनम् । महाराजप्रसादेन धनलाभो महद्यशः 55.34दायेशात्केन्द्रलाभे वा दुश्चिक्ये भाग्यकर्मगे । देहारोग्यं हृदुत्साह इष्टसिद्धिः 55.35पुण्यश्लोकादिकीर्तिश्च पुराणश्रवणादिकम् । विवाहो यज्ञदीक्षा च दानधर्मदयादिकम् 55.36षष्ठाष्टमव्यये सौम्ये मन्देनापि युतेक्षिते । दायेशात्षष्ठरिःफे वा रन्ध्रे वा पाप 55.37देवभाह्मणनिन्दा च भोगभाग्यविवर्जितः । सत्यहीनश्च दुर्बुद्धिश्चौराहिनृपपीडनम् 55.38अकस्मात्कलहश्चैव गुरुपुत्रादिनाशनम् । अर्थव्ययो राजकोपो दारपुत्रादिपीडनम् 55.39द्वितीयद्यूननाथे वा ह्यपमृत्युभयं वदेत् । तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् 55.40राहोरन्तर्गते केतौ भ्रमणं राजतो भयम् । वातज्वरादिरोगश्च चतुष्पाज्जीवहानिकृत् 55.41अष्टमाधिसंयुक्ते देहजाड्यं मनोव्यथा । शुभयुक्ते शुभैर्दृष्टे देहसौख्यं धनागमः । 55.42लग्नाधिपेन सम्बन्धे इष्टसिद्धिः सुखावहा । लग्नाधिपसमायुक्ते लाभो वा भवति ध्रुवम् 55.43चतुष्पाज्जिवलाभः स्यात्केन्द्रे वाथ त्रिकोणगे । रन्ध्रस्थानगते केतौ व्यये वा बलव 55.44तद्भुक्तौ बहुरोगः स्याच्चोराहिव्रणपीडनम् । पितृमातृवियोगश्च भ्रातृद्वेषो मनोरुजा 55.45द्वितीयद्यूननाथे तु देहबाधा भविष्यति । तद्दोषपरिहारार्थं छागदानं च कारयेत् 55.46राहोरन्तर्गते शुक्रे कग्नात्केन्द्गत्रिकोणगे । लाभे वा बलसंयुक्ते योगप्राबल्यमाद 55.47विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् । पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भ 55.48सम्मानं राजसम्मनं राज्यलाभो महत्सुखम् । स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स् 55.49नूतनं गृहनिर्माणं नित्यं मिष्ठान्नभोजनम् । कलत्रपुत्रविभवं मित्रसंगः सुभोजनम् 55.50अन्नदानं प्रियं नित्यं दानधर्मादिसंग्रहः । महाराजप्रसादेन वाहनाम्बरभूषणम् 55.51व्यवसायात्फलाधिक्यं विवाहो मौञ्जिबन्धनम् । षष्ठाष्टमव्यये शुक्रे नीचे शत्रुगृहे 55.52मन्दारफणिसंयुक्ते तद्भुक्तौ रोगमादिशेत् । अकस्मात्कलहं चैव पितृपुत्रवियोगकृत् 55.53स्वबन्धुजनहानिश्च सर्वत्र जनपीडनम् । दायादकलहश्चैव स्वप्रभोः स्वस्य मृत्युकृत् 55.54कलत्रपुत्रपीडा च शूलरोगादिसम्भवः । दायेशात्केन्द्रराशिस्थे त्रिकोणे वा समन्विते 55.55लाभे वा कर्मराशिस्थे क्षेत्रपालमहत्सुखम् । सुगन्धवस्त्रशय्यादि गानवाद्यसुखं भवेत 55.56छत्रचामरभूषाप्तिः प्रियवस्तुसमन्विता । दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते 55.57विप्राहिनृपचौरादिमूत्रकृच्छ्रान्महद्भयम् । प्रमेहाद्रौधिरो रोगः कुत्सितान्नं शिर 55.58कारागृहप्रवेशश्च राजदण्डाद्धनक्षयः । द्वितीयद्यूननाथे वा दारपुत्रादिनाशनम् 55.59आत्मपीडा भयं चैव ह्यपमृत्युभयं भवेत् । दुर्गालक्ष्मीजपं कुर्यात् ततःसुखमवाप्नुया 55.60राहोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे । त्रिकोणे लाभगे वाऽपि तुङ्गां 55.61शुभग्रहेण सन्दृष्टे राजप्रीतिकरं शुभम् । धनधान्यसमृद्धिश्च ह्यल्पमान सुखवाहम् 55.62अल्पग्रामाधिपत्यं च स्वल्पलाभो भविष्यति । भाग्यलग्नेशसंयुक्ते कर्मेशेन निरीक्षित 55.63राजाश्रयो महाकीर्तिर्विदेशगमनं तथा । देशाधिपत्ययोगश्च गजश्वाम्बरभूषणम् 55.64मनोऽभिष्टप्रदानं च पुत्रकल्याणसम्भवम् । दयेशाद्रिःफरन्ध्रस्थे षष्ठे वा नीचगेऽपि 55.65ज्वरातिसाररोगश्च कलहो राजविग्रहः । प्रयाणं शत्रुवृद्धिश्च न्रिपचौराग्निपीडनम् 55.66दायेशात्केन्द्रकोणे वा दश्चिक्ये लाभगेऽपि वा । विदेशे राजसम्मानं कल्याणं च शुभाव 55.67द्वितीयद्यूननाथे तु महारोगो भविष्यति । सूर्यप्रणामं शान्तिं च कुर्यादारोग्यसम्भव 55.68राहोरन्तर्गते चन्द्रे स्वक्षेत्रे स्वोच्चगेऽपि वा । केन्द्रत्रिकोणलाभे वा मित्रर 55.69राजत्वं राजपूज्यत्वं धनार्थं धनलाभकृत् । आरोग्यं भूषण्ं चैव मित्रस्त्रीपुत्रसम्प 55.70पूर्णे चन्द्रे फलं पूर्णं राजप्रीत्या शुभावहम् । अश्ववाहनलाभः स्यद्गृहक्षेत्रादि 55.71दायेशात्सुखभाग्यस्थे केन्द्रे वा लाभगेऽपि वा । लक्ष्मीकटाक्षचिह्नानि गृहे कल्याण 55.72सर्वकार्यसिद्धिः स्याद्धनधान्यसुखावहा । सत्कीर्तिलाभसम्मानं देव्याराधनमाचरेत् 55.73दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते । पिशाचक्षुद्रव्याघ्राद्य्सिर्गृहक्षेत 55.74मार्गे चौरभयं चैव व्रणाधिक्य महोदयम् । द्वितीयद्यूननाथे तु अपमृत्युस्तदा भवेत् 55.75श्वेतां गां महिषीं दद्याद् विप्रायारोग्यसिद्धये । ततः सौख्यमवाप्नोति चन्द्रग्रहप 55.76राहोरन्तर्गते भौमे लग्नाल्लाभत्रिकोणगे । केन्द्रे वा शुभसंयुक्ते स्वोच्चे स्वक्ष 55.77नष्टराज्यधन्प्राप्तिर्गृहक्षेत्राभिवृद्धिकृत् । इष्टदेवप्रसादेन सन्तानसुखभाग्भवे 55.78क्षिप्रभोज्यान्महत्सौख्यं भूषणश्वाम्बरादिकृत् । दायेशात्केन्द्रकोणे वा दुश्चिक्य 55.79रक्तवस्त्रादिलाभः स्यात्प्रयाणं राजदर्शनम् । पुत्रवर्गेषु कल्याणं स्वप्रभोश्च मह 55.80सेनपत्यं महोत्साहो भ्रातृवर्गधनागमः । दायेशाद्रन्ध्ररिःफे वा षष्ठे पापसमन्विते 55.81पुत्रदारादिहानिश्च सूदराणां च पीडनम् । स्थानभ्रंशो बन्धुवर्गदारपुत्रविरोधनम् 55.82चौराहिव्रणभीतिश्च स्वदेहस्य च पीडनम् । आदौ क्लेशकरं चैव मध्यान्ते सौखमाप्नुयात् 55.83द्वितीयद्यूननाथे तु देहालस्यं महद्भयम् । अनड्वाहं च गां दद्यादारोग्यसुखलब्धये