← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

शन्यन्तर्दशाफलाध्यायः

82 verses · Maharshi Parashara

57.1मूलत्रिकोणे स्वर्क्षे वा तुलायामुच्चगेऽपि वा । केन्द्रत्रिकोणलाभे वा राजयोगादिसं 57.2राज्यलाभो महत्सौख्यं दारपुत्रादिवर्धनम् । वाहनत्रयसंयुक्तं गजाश्वाम्बरसङ्कुलम् 57.3महाराजप्रसादेन सेनापत्यादिलाभकृत् । चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् 57.4तथाऽष्टमे व्यये मन्दे नीचे वा पापसंयुते । तद्भुक्त्यादौ राजभीतिर्विषशस्त्रादिपीड 57.5रक्तस्त्रावो गुल्मरोगो ह्यतिमारादिपीडनम् । मध्ये चौरादि भीतिश्च देशत्यागो मनोरुज 57.6अन्ते शुभकरी चैव शनेरन्तर्दशा द्विज । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति 57.7तद्दोषपरिहारार्थं म्र्ट्युञ्जयजपं चरेत् । ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः 57.8मन्दस्यान्तर्गते सौम्ये त्रिकोणे केन्द्रगेऽपि वा । सम्मानं च यशः कीर्तिं विद्याल 57.9स्वदेशे सुखमाप्नोति वाहनादिफलैर्युतम् । यज्ञादिकर्मसिद्धिश्च राजयोगादिसम्भवम् 57.10देहसौख्यं हृदुत्साहं गृहे कल्याणसम्भवम् । सेतुस्नानफलावाप्तिस्तीर्थयात्रादिकर्मण 57.11वाणिज्याद्धनलाभश्च पुराणश्रवणादिकम् । अन्नदानफलं चैव नित्यं मिष्ठान्नभोजनम् 57.12षष्ठाष्टमव्यये सौम्ये नीचे वास्तंगते सति । रव्यारफणिसंयुक्ते दायेशाद्वा तथैव च 57.13नृपाभिषेकमर्थाप्तिर्देशग्रामाधिपत्यता । फलमीदृशमादौ तु मध्यान्ते रोगपीडनम् 57.14नष्टानि सर्वकार्याणि व्याकुलत्वं महद्भयम् । द्वितीयसप्तमाधिशे देहबाधा भविष्यति 57.15तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् । अन्नदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् 57.16मन्दस्यान्तर्गते केतौ शुभदृष्टियुतेक्षिते । स्वोच्चे वा शुभराशिस्थे योगकारकसंयुत 57.17केन्द्रकोणगते वापि स्थानभ्रंशो महद्भयम् । दरिद्रबन्धनं भीतिः पुत्रदारादिनाशनम् 57.18स्वप्रभोश्च महाकष्टं विदेशगमनं तथा । लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः 57.19गङ्गादिसर्वतीर्भेषु स्नानं दैवतदर्शनम् । दायेशात्केन्द्रकोणे वा तृतीयभवराशिगे 57.20समर्थो धर्मबुद्धिश्च सौख्यं नृपसमागमः । तथाऽष्टमे व्यये केतौ दायेशाद्वा तथैव च 57.21अपमृत्युभयं चैव कुत्सितान्नस्य भोजनम् । शीतज्वरातिसारश्च व्रणचौरादिपीडनम् 57.22दारपुत्रवियोगश्च संसारे भवति ध्रुवम् । द्वितियद्यूनराशिस्थे देह पीडा भविष्यति 57.23छागदानं प्रकुर्वीत ह्यपमृत्युनिवारणम् । केतुग्रहप्रसादेन सुखशान्तिमवाप्नुयात् 57.24मन्दस्यान्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रगेऽपि वा । केन्द्रे वा शुभसंयुक्ते त् 57.25दारपुत्रधनप्राप्तिर्देहारोग्यं महोत्सवः । गृहे कल्याण्सम्पत्ति राज्यलाभं महत्सुख 57.26महाराजप्रसादेन हीष्टसिद्धिः सुखावहा । स्सम्मानं प्रभुसम्मानं प्रियवस्त्रादिलाभकृ 57.27द्विपान्तराद्वस्त्रलाभः श्वेताश्वो महिषी तथा । गुरुचारवशाद्भाग्यं सौख्यं च धनसम् 57.28शनिचारान्मनुष्योऽसौ योगमाप्नोत्यसंशयम् । शत्रुनीचास्तगे शुक्रे षष्ठाष्टमव्ययराशि 57.29दारनाशो मनःक्लेशः स्थाननाशो मनोरुजः । दारानां स्वजनक्लेशः सन्तापो जनविग्रहः 57.30दायेशाद्भाग्यगे चैव केन्द्रे वा लाभसंयुते । राजप्रीतिकरं चैव मनोऽभीष्टप्रदायकम् 57.31दानधर्मदयायुक्तं तीर्थयात्रादिकं फलम् । सास्र्तार्थकाव्यरचनां वेदान्तश्रवणादिकम् 57.32दारपुत्रादिसौख्यं च लभते नाऽत्र संशयः । दायेशाद्व्ययगे शुक्रे षष्ठे वा ह्यष्टमेऽ 57.33नेत्रपीडा ज्वरभयं स्वकुलाचारवर्जितः । कपोले दन्तशूलादि हृदि गुह्ये च पीडनम् 57.34जलभीतिर्मनस्तापो वृक्षात्पतनसम्भवः । राजद्वारे जनद्वेषः सोधरेण विरोधनम् 57.35द्वितीयसप्तमाधीशे आत्मक्लेशो भविष्यति । तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् 57.36श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धिदाम् । जगदम्बाप्रसादेन ततः सुखमवाप्नुया 57.37मन्दस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा । भाग्याधिपेन संयुक्ते केन्द 57.38शुभदृष्टियुते वापि स्वप्रभोश्च महत्सुखम् । गृहे कल्याणसम्पत्तिः पुत्रादिसुखवर्द् 57.39वाहनाम्बरपश्वादिगोक्षीरैस्संकुलं गृहम् । लग्नाष्टमव्यये सूर्ये दायेशाद्वा तथैव च 57.40हृद्रोगो मानहानिश्च स्थानभ्रंशो मनोरुजा । इष्ट्बन्धुवियोगश्च उद्योगस्य विनाशनम् 57.41तापज्वरादिपीडा च व्याकुलत्वं भयं तथा । आत्मसम्बन्धिमरणमिष्टवस्तुवियोगकृत् 57.42द्वितीयद्यूननाथे तु देहबाधा भविष्यति । तद्दोषपरिहारार्थं सूर्यपूजां च कारयेत् 57.43मन्दस्यान्तर्गते चन्द्रे जीवदृष्टिसमन्विते । स्वोच्चे स्वक्षेत्रकेन्द्रस्थे त्रि 57.44पूर्णे शुभग्रहैर्युक्ते राजप्रीतिसमागमः । महाराजप्रसादेन वाहनाम्बरभूषणम् 57.45सौभाग्यं सुखवृद्धिं च भृत्यानां परिपालनम् । पितृमातृकुले सौख्यं पशुवृद्धिः सुखाव 57.46क्षीणे वा पापसंयुक्ते पापदृष्टे वा नीचगे । क्रूरांशकगते वापि क्रूरक्षेत्रगतेऽपि 57.47जातकस्य महत्कष्टं राजकोपो धनक्षयः । पितृमातृवियोगश्च पुत्रीपुत्रादिरोगकृत् 57.48व्यवसायात्फलं नेष्टं नानामार्गे धनव्ययः । अकाले भोजनं चैव मौषधस्य च भक्षणम् 57.49फलमेतद्विजानीयादादौ सौख्यं धनागमः । दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा 57.50वाहनाम्बरपश्वादिभ्रातृवृद्धिः सुखावहा । पितृमातृसुखावाप्तिः स्त्रीसौख्यं च धनागम 57.51मित्रप्रभुवशादिष्टं सर्वसौख्यं शुभावहम् । दायेशाद्द्वादश भावे रन्ध्रे वा बलवर्जि 57.52शयनं रोगमालस्यं स्थानभ्रष्टं सुखापहम् । शत्रुवृद्धिविरोधं च बन्धुद्वेषमवाप्नुयात 57.53द्वितीयद्यूननाथे तु देहालस्य भविष्यति । तद्दोषशमनार्थं च तिलहोमादिकं चरेत् 57.54गुडं घृतं च दध्नाक्तं तण्डुलं च यथाविधि । श्वेतां गां महिषीं दद्यादायुरारोग्यवृद 57.55मन्दस्यान्तर्गते भौमे केन्द्रलाभत्रिकोणगे । तुङ्गे स्वक्षेत्रगे वापि दशाधिपसमन्व 57.56लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः । राजप्रीतिकरं सौख्यं वाहनाम्बरभूषणम् 57.57सेनापत्यं नृपप्रीतिः कृषिगोधान्यसम्पदः । नूतनस्थाननिर्माणं भ्रातृवर्गेष्टसौख्यकृ 57.58नीचे चास्तङ्गते भौमे लग्नादष्टव्ययस्थिते । पापदृष्टियुते वापि धनहानिर्भविष्यति 57.59चौराहिव्रणशस्त्रादिग्रन्थिरोगादिपीडनम् । भ्रातृपित्रादिपीडा च दायादजनविग्रहः 57.60चतुष्पाज्जीवहानिश्च कुत्सितान्नस्य भोजनम् । विदेशगमनं चैव नानमार्गे धनव्ययः 57.61अष्टमद्यूननाथे तु द्वितीयस्थेऽथ वा यदि । अपमृत्युभयं चैव नानाकष्टं पराभवः 57.62तद्दोषपरिहारार्थं शान्तिहोमं च कारयेत् । वृषदानं प्रकुर्वीत सर्वारिष्टनिवारणम् 57.63मन्दस्यान्तर्गते राहौ कलहश्च मनोव्यथा । देहपीडा मनस्तापः पुत्रद्वेषो रुजोभयम् 57.64अर्थव्ययो राजभयं स्वजनादिविरोधिता । विदेशगमनं चैव गृहक्षेत्रादिनाशनम् 57.65लग्नाधिपेन संयुक्ते योगकारकसंयुते । स्वोच्चे स्वक्षेत्रगे केन्द्रे दायेशाल्लाभरा 57.66आदौ सौख्यं धनावाप्तिं गृहक्षेत्रादिसम्पदम् । देवब्राह्मणभक्तिं च तीर्थयात्रादिकं 57.67चतुष्पाज्जीवलाभः स्याद्गृहे कल्याण्वर्द्धनम् । मध्ये तु राजभीतिश्च पुत्रमित्रविर 57.68मेषे कन्यागते वापि कुलीरे वृषभे तथा । मीनकोदण्डसिंहेषु गजान्तैश्वर्यमादिशेत् 57.69राजसम्मनभूषाप्तिं मृदुलाभरसौख्यकृत् । द्विसप्तमाधिपैर्युक्ते देहबाधा भविष्यति 57.70मृत्युञ्जयं प्रकुर्वीत छागदानं च कारयेत् । वृषदानं प्रकुर्वीत सर्वसम्पत्सुखावहम् 57.71मन्दस्यान्तर्गते जीवे केन्द्रे लाभत्रिकोणगे । लग्नाधिपेन संयुक्ते स्वोच्चे स्वक् 57.72सर्वकार्यार्थसिद्धिः स्याच्छोभनं भवति ध्रुवम् । महाराजप्रसादेन धनवाहनभूषणम् 57.73सन्मानं प्रभुसम्मानं प्रियवस्त्रार्थलाभकृत् । देवतागुरुभक्तिश्च विद्वज्जनसमागमः 57.74दारपुत्रादिलाभश्च पुत्रकल्याणवैभवम् । षष्ठाष्टमव्यये जीवे नीचे वा पापसंयुते 57.75निजसम्बन्धिमरणं धनधान्यविनाशनम् । राजस्थाने जनद्वेषः कर्यहानिर्भविष्यति 57.76विदेशगमनं चैव कुष्ठरोगादिसम्भवः । दायेशात्केन्द्रकोणे वा धने वा लाभगेऽपि वा 57.77विभवं दारसौभाग्यं राजश्रीधनसम्पदः । भोजनाम्बरसौख्यं च दानधर्मादिकं भवेत् 57.78ब्रह्मप्र्तिष्ठासिद्धिश्च क्रतुकर्मफलं तथा । अन्नदानं महाकीर्तिर्वेदान्तश्रवणादि 57.79दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते । बन्धुद्वेषो मनोदुःखं कलहः पदविच्युति 57.80कुभोजनं कर्महानी राजदण्डाद्धनव्यय । कारागृहप्रवेशश्च पुत्रदारादिपीडनम् 57.81द्वितीयद्यूननाथे तु देहवाधा मनोरुजः । आत्मसम्बन्धमरणं भविष्यति न संशयः 57.82तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् । स्वर्णदानं प्र्कुर्वीत ह्यारोग्यं भवति ध्र