← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
बुधान्तर्दशाफलाध्यायः
72 verses · Maharshi Parashara
58.1
मुक्ताविद्रुमलाभश्च ज्ञानकर्मसुखादिकम् । विद्यामहत्त्वं कीर्तिश्च नूतनप्रभुदर्शन
58.2
विभवं दारपुत्रादि पितृमातृसुखावहम् । स्वोच्चादिस्थेऽथ नीचेऽस्ते षष्ठाष्टमव्ययराश
58.3
पापयुक्तेऽथवा दृष्टे धनधान्यपशुक्षयः । आत्मबन्धुविरोधश्च शूलरूगादिसम्भवः
58.4
राजकार्यकलापेन व्याकुलो भव्ति ध्रुवम् । द्वितीयद्यूननाथे तु दारक्लेशो भविष्यति
58.5
आत्मसम्बन्धिमरणं वातशूलादिसम्भवः । तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत्
58.6
बुधस्यान्तर्गते केतौ लग्नात्केन्द्रत्रिकोणगे । शुभयुक्ते शुभैर्दृष्टे लग्नाधिपसम
58.7
योगकारकसम्बन्धे दायेशात्केन्द्रलाभगे । देहसौख्यं धनाल्पत्वं बन्धुस्नेहमथादिशेत्
58.8
चतुष्पाज्जीवलाभः स्यात्संचारेण धनागमः । विद्याकीर्तिर्प्रसङ्गश्च समानप्रभुदर्शनम
58.9
भोजनाम्बरसौख्यं च ह्यादौ मध्ये सुखावहम् । दायेशाद्यदि रन्ध्रस्थे व्यये वा पापसंय
58.10
वाहनात्पतनं चैव पुत्रक्लेशादिसम्भवः । चौरादिराजभीतिश्च पापकर्मरतः सदा
58.11
वृश्चिकादिविषाद्भीतिर्नीचैः कलहसंभवः । शोकरोगादिदुःखं च नीचसङ्गादिकं भवेत्
58.12
द्वितीयद्यूननाथे तु देहजाड्यं भविष्यति । तद्दोषपरिहाराय छागदानं तु कारयेत्
58.13
सौम्यस्यान्तर्गते शुक्रे केन्द्रे लाभे त्रिकोणगे । सत्कथापुण्यधर्मादिसंग्रहः पुण
58.14
मित्रप्रभुवशादिष्टं क्षेत्रलाभः सुखं भवेत् । दशाधिपात्केन्द्रगते त्रिकोणे लाभगेऽ
58.15
तत्काले श्रियमाप्नोति राजश्रीधनसम्पदः । वापीकूपतडागदिदानधर्मादिसंग्रहः
58.16
व्यवसायात्फलाधिक्यं धनधान्यसमृद्धिकृत् । दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जि
58.17
हृद्रोगो मानहानिश्च ज्वरातीसारपीडनम् । आत्मबन्धुवियोगश्च संसारे भवति ध्रुवम्
58.18
आत्मकष्टं मनस्तापदायकं द्विजसत्तम । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति
58.19
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् । जगदम्बाप्रसादेन ततः शान्तिमवाप्नुयात्
58.20
सौम्यस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे । त्रिकोणे धनलाभे तु तुङ्ग
58.21
राजप्रसादसुभाग्यं मित्रप्रभुवशात्सुखम् । भूम्यात्मजेन संदृष्टे आदौ भूलाभमादिशेत्
58.22
लग्नाधिपेन संदृष्टे बहुसौख्यं धनागमम् । ग्रामभूम्यादिलाभं च भोजनाम्बरसौख्यकृत्
58.23
लग्नाष्टमव्यये वापि शन्यारफणिसंयुते । दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते
58.24
चौरादिशस्त्रपीडा च पित्ताधिक्यं भविष्यति । शिरोरुङ्मनसस्ताप इष्टबन्धुवियोगकृत्
58.25
द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविश्यति । तद्दोषपरिहारार्थं शान्तिं कुर्याद्यथावि
58.26
सौम्यस्यान्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि
58.27
योगस्थानाधिपत्येन योगप्राबल्यमादिशेत् । स्त्रीलाभं पुत्रलाभं च वस्त्रवाहनभूषणम्
58.28
नूतनालयलाभं च नित्यं मिष्ठान्नभोजनम् । गीतवाद्यप्रसंगं च शास्त्रविद्यापरिश्रमम्
58.29
दक्षिणां दिशमाश्रित्य प्रयाणं च भविष्यति । द्वीपान्तरादिवस्त्राणां लाभश्चैव भविष
58.30
मुक्ताविद्रुमरत्नानि धौतवस्त्रादिकं लभेत् । नीचारिक्षेत्रसंयुक्ते देहबाधा भविष्य
58.31
दायेशात्केन्द्रकोणस्थे दुश्चिक्ये लाभगेऽपि वा । तद्भुक्त्यादौ पुण्यतीर्थस्थानदैव
58.32
मनोधैर्यं हृदुत्साहो विदेशधनलाभकृत् । दायेशात्षष्ठरन्ध्रे वा व्यये वा पापसंयुते
58.33
चोराग्निनृपभीतिश्च स्त्रीसमागमतो भवेत् । दुष्कृतिर्धनहानिश्च कृषिगोश्वादिनाशकृत्
58.34
द्वितीयद्यूननाथे तु देहबाधा भविष्यति । तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत्
58.35
वस्त्रदानं प्रकुर्वीत आयुर्वृद्धिसुखावहम् । जगदम्बाप्रसादेन ततः सुखमवाप्नुयात्
58.36
सौम्यस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि लग्
58.37
राजानुग्रहशान्तिं च गृहे कल्याणसम्भवम् । लक्ष्मीकटाक्षचिह्नानि नष्टराज्यार्थमाप्
58.38
पुत्रोत्सवादिसन्तोषं गृहे गोधनसंकुलम् । गृहक्षेत्रादिलाभं च गजवाजिसमन्वितम्
58.39
राजप्रीतिकरं चैव स्त्रीसौख्यं चातिशोभनम् । नीचक्षेत्रसमायुक्ते ह्यष्टमे वा व्यये
58.40
पापदृष्टियुते वापि देहपीडा मनोव्यथा । उद्योगभङ्गो दशादौ स्वग्रामे धान्यनशनम्
58.41
ग्रंथिशस्त्रव्रणादीनां भयं तापज्वरादिकम् । दायेशात्केन्द्रगे भौमे त्रिकोणे लाभगे
58.42
शुभदृष्टे धनप्राप्तिर्देहसौख्यं भवेनृणाम् । पुत्रलाभो यशोवृद्धिर्भ्रातृवर्गो महा
58.43
दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते । तद्भुक्त्यादौ महाक्लेशो भ्रातृवर्गे महद
58.44
नृपाग्निचौरभीतिश्च पुत्रमित्रविरोधनम् । स्थानभ्रंशो भवेदादौ मध्ये सौख्यं धनागमः
58.45
अन्ते तु राजभीतिः स्यात्स्थानभ्रंशोह्यथापिवा । द्वितीयद्यूननाथे तु ह्यपमृत्युभयं
58.46
गोदानं च प्रकुर्वीत मृत्युञ्जयजपं चरेत् । शङ्करस्य प्रसादेन ततः सुकह्मवाप्नुयात्
58.47
बुधस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे । कुलीरे कुम्भगे वापि कन्यायां वृषभेपि
58.48
राजसम्मानकीर्तिं च धनं च प्रभविष्यति । पुण्यतीर्थस्थानलाभो देवतादर्शनं तथा
58.49
इष्तापूर्ते च महतो मानश्चाम्बरलाभकृत् । भुक्त्यादौ देहपीडा च त्वन्ते सौख्यं विनि
58.50
लग्नाष्टव्ययराशिस्थे तद्भुक्तौ धननाशनम् । भुक्त्यादौ देहनाशश्च वातज्वरमजीर्णकृत्
58.51
लग्नादुपचये राहौ शुभग्रहसमन्विते । राजसंलापसन्तोषो नूतनप्रभुदर्शनम्
58.52
दायेशाद्द्वादशे वापि ह्यष्टमे पापसंयुते । निष्ठुरं राजकार्याणि स्थानभ्रंशो महद्भ
58.53
बन्धनं रोगपीडा च निजबन्धुमनोव्यथा । हृद्रोगो मानहानिश्च धनहानिर्भविष्यति
58.54
द्वितीयसप्तमस्थे वा ह्यपमृत्युर्भविष्यति । तद्दोषपरिहारार्थं दुर्गालक्ष्मीजपं चर
58.55
श्वेतां गां महिषीं दद्यादायुआरोग्यदायिनीम् । जगदम्बाप्रसादेन ततः सुखमवाप्नुयात्
58.56
बुधस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि लाभे
58.57
देहसौख्यं धनावाप्ती राजप्रीतिस्तथैव च । विवाहोत्सवकार्याणि नित्यं मिष्ठान्नभोजनम
58.58
गोमहिष्यादिलाभश्च पुराणश्रवणादिकम् । देवतागुरुभक्तिश्च दानधर्ममखादिकम्
58.59
यज्ञकर्मप्रवृद्धिश्च शिवपूजाफलं तथा । नीचे वास्तंगते वापि षष्ठाष्टव्ययगेऽपि वा
58.60
शन्यारदृष्टसंयुक्ते कलहो राजविग्रहः । चौरादिदेहपीडा च पितृमातृविनाश्नम्
58.61
मानहानि राजदण्डो धनहानिर्भविष्यति । विषाहिज्वरपीडा च कृषिभूमिविनाशनम्
58.62
दयेशात्केन्द्रकोणे वा लाभे वा बलसंयुते । बन्धुपुत्रहृदुत्साहो शुभं च धनसंयुतम्
58.63
पशुवृद्धिर्यशोवृद्धिरन्नदानादिकं फलम् । दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जित
58.64
अङ्गतापश्च वैकल्यं देहबाधा भ्विष्यति । कलत्रबन्धुवैषम्यं राजकोपो धनक्षयः
58.65
अकस्मात्कलहाद्भीतिः प्रमादो द्विजतो भयम् । द्वितीयसप्तमस्थे वा देहबाधा भविष्यति
58.66
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् । गोभूरिरण्यदानेन सर्वारिष्टं व्यपोहति
58.67
सौम्यस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रकेन्द्रगे । त्रिकोणलाभगे वापि गृहे कल
58.68
राज्यलाभं महोत्साहं गृहं गोधनसंकुलम्
58.69
शुभस्थानफलवाप्तिं तीर्थवासं तथादिशेत् । अष्टमे वा व्यये मन्दे दायेशाद्वा तथैव च
58.70
अरातिदुःखबाहुल्यं दारपुत्रादिपीडनम् । बुद्धिभ्रंशो बन्धुनाशः कर्मनाशो मनोरुजः
58.71
विदेशगमनं चैव दुःस्वप्नादिप्रदर्शनम् । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति
58.72
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् । कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्ध
← शन्यन्तर्दशाफलाध्यायः
केत्वन्तर्दशाफलाध्यायः →