← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
शुक्रान्तर्दशाफलाध्यायः
69 verses · Maharshi Parashara
60.1
अथ स्वान्तर्गते शुक्रे लग्नात्केन्द्रत्रिकोणगे । लाभे वा बलसंयुक्ते तद्भुक्तौ च
60.2
विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् । पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भ
60.3
सन्मानं राजसम्मानं राज्यलाभो महत्सुखम् । स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे व
60.4
नूतनालयनिर्माणं नित्यं मिष्ठान्नभोजनम् । कलत्रपुत्रविभवं मित्रसंयुक्तभोजनम्
60.5
अन्नदानं प्रियं नित्यं दनधर्मादिसङ्ग्रहः । महाराजप्रसादेन वाहनाम्बरभूषणम्
60.6
व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् । प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत्
60.7
लग्नाद्युपचये शुक्रे शुभग्रहयुतेक्षिते । मित्रांशे तुङ्गलाभेशयोगलारकसंयुते
60.8
राज्यलाभो महोत्साहो राजप्रीतिः शुभावहा । गृहे कल्याणसम्पत्तिर्दारपुत्रादिवर्द्धन
60.9
षष्ठाष्टमव्यये शुक्रे पापयुक्तेऽथ वीक्षिते । चौरादिव्रणभीतिश्च सर्वत्र जनपीडनम्
60.10
राजद्वारे जनद्वेष इष्टबन्धुविनाशनम् । दारपुत्रादिपीडा च सर्वत्र जनपीडनम्
60.11
द्वितीयद्यूननाथे तु स्थिते चेन्मरणं भवेत् । तर्त दुर्गाजपं कुर्याद्धनुदानं च कार
60.12
शुक्रस्यान्तर्गते सूर्ये सन्तापो राजविग्रहः । दायादकलहश्चैव स्वोच्चनीचविवर्जिते
60.13
(शुक्रस्यान्तर्गते सूर्ये सन्तापो राजभिः कलिः । दायादात् कलहश्चैव शुभक्षेत्रात्य
60.14
तद्भुक्तौ धनलाभः स्याद्राज्यस्त्रीधनसम्पदः । स्वप्रभोश्च महत्सौख्यमिष्टबन्धोः सम
60.15
पितृमात्रोः सुखप्राप्तिं भ्रातृलाभं सुखावहम् । सत्कीर्तिं सुखसौभाग्यं पुत्रलाभं
60.16
तथाष्टमे व्यये सूर्ये रिपुराशिस्थितेऽपि वा । नीचे वा पापवर्गस्थे देहतापो मनोरुजः
60.17
स्वजनोपरिसंक्लेशो नित्यं निष्ठुरभाषणम् । पितृपीडा बन्धुहानी राजद्वारे विरोधकृत्
60.18
व्रणपीडाहिबाधा च स्वगृहे च भयं तथा । नानारोगभयं चैव गृहक्षेत्रादिनाशनम्
60.19
सप्तमाधिपतौ सूर्ये ग्रहबाधा भविष्यति । तद्दोषपरिहारार्थं सूर्यप्रीतिं च कारयेत्
60.20
शुक्रस्यान्तर्गते चन्द्रे केन्द्रलाभत्रिकोणगे । स्वोच्चे स्वक्षेत्रगे चैव भाग्यन
60.21
शुभयुक्ते पूर्णचन्द्रे राज्यनाथेन संयुते । तद्बुक्तौ वाहनादीनां लाभं गेहे महत्सु
60.22
महाराजप्रसादेन गजान्तैश्वर्यमादिशेत् । महानदीस्नानपुण्यं देवब्राह्मणपूजनम्
60.23
गीतवाद्यप्रसङ्गादिविद्वज्जनविभूषणम् । गोमहिष्यादिवृद्धिश्च व्यवसायेऽधिकं फलम्
60.24
भोजनाम्बरसौख्यं च बन्धुसंयुक्तभोजनम् । नीचे वात्सङ्गते वापि षष्ठाष्टमव्ययराशिगे
60.25
दायेशात्षष्ठगे वापि रन्ध्रे वा व्ययराशिगे । तत्काले धननाशः स्यात्सञ्चरेत महद्भयम
60.26
देहायासो मनस्तापो राजद्वारे विरोधकृत् । विदेशगमनं चैव तीर्थयात्रादिकं फलम्
60.27
दारपुत्रादि पीडा च निजबन्धुवियोगकृत् । दायेशात्केन्द्रलाभस्थे त्रिकोणे सहजेऽपि व
60.28
राजप्रीतिकरी चैव देशग्रामाधिपत्यता । धैर्यं यशः सुखं कीर्तिर्वाहनाम्बरभूषणम्
60.29
कूपारामतडागदिनिर्माणं धनसङ्ग्रहः । भुक्तयादौ देहसौख्यं स्यादन्ते क्लेशस्तथा भवेत
60.30
शुक्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे भौमे लाभ
60.31
लग्नाधिपेन संयुक्ते कर्मभाग्येशसंयुते । तद्भुक्तौ राजयोगादिसम्पदं शोभनां वदेत्
60.32
वस्त्राभरणभूम्यादेरिष्टसिद्धिः सुखावहा । तथाऽष्टमे व्यये वाऽपि दायेशाद्वा तथैव च
60.33
शीतज्वरादिपीडा च पितृमातृभयावहा । ज्वराद्यधिकरोगाश्च स्थानभ्रंशो मनोरुजा
60.34
स्वबन्धुजनहानिश्च कलहो राजविग्रहः । राजद्वारजनद्वेषो धनधान्यव्ययोऽधिकः
60.35
व्यवसायात्फलं नेष्टं ग्रामभूम्यादिहानिकृत् । द्वितीयद्यूननाथे तु देहवाधा भविष्यत
60.36
शुक्रस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे । स्वोच्चे वा शुभसंदृष्टे योगकारकसंयु
60.37
तद्भुक्तौ बहुसौख्यं च धनधान्यादिलाभकृत् । इष्टबन्धुसमाकीर्णं भवनं च समादिशेत्
60.38
यातुः कार्यार्थसिद्धिः स्यात् पशुक्षेत्रादिसम्भवः । लग्नाद्युपचये राहौ तद्भुक्ति
60.39
शत्रुनाशो महोत्साहो राजप्रीतिकरी शुभा । भुक्त्यादौ शरमासांश्च अन्ते ज्वरमजीर्णकृ
60.40
कार्यविघ्नमवाप्नोति सञ्चरे च मनोव्यथा । परं सुखं च सौभाग्यं महाराज इवाऽश्नुते
60.41
नैरृतीं दिशमाश्रित्य प्रयाणं प्रभुदर्शनम् । यातुः कार्यार्थसिद्धिः स्यात्स्वदेशे
60.42
उपकारो ब्राह्मणानां तीर्थयात्राफलं भवेत् । दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंय
60.43
अशुभं लभते कर्म पितृमातृजनावधि । सर्वत्र जनविद्वेषं नानारूपं द्विजोत्तम
60.44
द्वितीये सप्तमे वापि देहालस्य विनिर्दिशेत् । तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरे
60.45
शुक्रस्यान्तर्गते जीवे स्वोच्चे स्वक्षेत्रकेन्द्रगे । दायेशाच्छुभराशिस्थे भाग्ये
60.46
नष्टराज्याद्धनप्राप्तिमिष्टार्थाम्बरसम्पदम् । मित्रप्रभोश्च सन्मानं धनधान्यं लभे
60.47
राजसम्मानकीर्तिं च अश्वान्दोलादिलाभकृत् । विद्वत्प्रभुसमाकीर्णं शास्त्रापरिश्रमम
60.48
पुत्रोत्सवादिसन्तोषमिष्टबन्धुसमागमम् । पितृमातृसुखप्राप्तिं पुत्रादिसौख्यमादिशेत
60.49
दायेशात्षष्ठराशिस्थे व्यये वा पापसंयुते । राजचौरादिपीडा च देहपीडा भविष्यति
60.50
आत्मरुग्बन्धुकष्टं स्यात्कलहेन मनोव्यथा । स्थानच्युतिं प्रवासं च नानारोगं समाप्न
60.51
द्वितीयसप्तमाधीशे देहबाधा भविष्यति । तद्दोषपरिहारार्थं महामृत्युञ्जयं चरेत्
60.52
शुक्रस्यान्तर्गते मन्दे स्वोच्चे तु परमोच्चगे । स्वर्क्षकेन्द्रत्रिकोणस्थे तुङ्ग
60.53
तद्भुक्तौ बहुसौख्यं स्यादिष्टबन्धुसमागमः । राजद्वारे च सम्मानं पुत्रिकाजन्मसम्भव
60.54
पुण्यतीर्थफलवाप्तिर्दानधर्मादिपुण्यकृत् । स्वप्रभोश्च पदावाप्तिः नीचस्थे क्लेशभा
60.55
देहालस्यमवाप्नोति तथाऽयादधिकव्ययम् । तथाष्टमे व्यये मन्दे दायेशाद्वा तथैव च
60.56
भुक्त्यादौ विविधा पीडा पितृमातृजनावधि । दारपुत्रादिपीडा च परदेशादिविभ्रमः
60.57
व्यवसायात्फलं नष्टं गोमहिष्यादिहानिकृत् । द्वितीयसप्तमाधीशे देहबाधा भविष्यति
60.58
तद्दोषपरिहारार्थं तिलहोमं च कारयेत् । मृत्युञ्जयजपं कुर्याच्चण्डीपाठमाथपि वा
60.59
स्वयं वा ब्राह्मणद्वारा यथाशक्ति यथाविधि । ततः शान्तिमवाप्नोति शिवाशम्भुप्रसादतः
60.60
शुक्रस्यान्तर्गते सौम्ये केन्द्रे लाभत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि राज
60.61
सौभाग्यं पुत्रलाभश्च सन्मार्गेण धनागमः । पुराणधर्मश्रवणं शृङ्गारिजनसंगमः
60.62
इष्टबन्धुजनाकीर्णं शोभितं तस्य मन्दिरम् । स्वप्रभोश्च महत्सौख्यं नित्यं मिष्ठान्
60.63
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते । पापदृष्टे पापयुक्ते चतुष्पाज्जीवहानि
60.64
अन्यालयनिवासश्च मनोवैकल्यसम्भवः । व्यापारेषु च सर्वेषु हानिरेव न संशयः
60.65
भुक्त्यादौ शोभनं प्रोक्तं मध्ये मध्यफलं दिशेत् । अन्ते क्लेशकरं चैव शीतवातज्वराद
60.66
सप्तमाधीशदोषेण देहपीडा भविष्यति । तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत्
60.67
शुक्रस्यान्तर्गते केतौ स्वोच्चे वा स्वर्क्षगेऽपि वा । योगकारकसम्बन्धे स्थानवीर्य
60.68
भुक्त्यादौ शुभमाधिक्यान्नित्यं मिष्ठान्नभोजनम् । व्यवसायात्फलाधिक्यं गोमहोष्यादि
60.69
धनधान्यसमृद्धिश्च संग्रामे विजयो भवेत् । भुक्त्यन्ते हि सुखं चैव भुक्त्यादौ मध्य
← केत्वन्तर्दशाफलाध्यायः
प्रत्यन्तर्दशाफलाध्यायः →