← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

केत्वन्तर्दशाफलाध्यायः

79 verses · Maharshi Parashara

59.1केन्द्रे त्रिकोणलाभे वा केतौ लग्नेशसंयुते । भाग्यकर्मसुसम्बन्धे वाहनेशसमन्विते 59.2तद्भुक्तौ धनधान्यादि चतुष्पाज्जीवलाभकृत् । पुत्रदारादिसौख्यं च राजप्रीतिमनोरुजः 59.3ग्रामभूम्यादिलाभश्च गृहं गोधनसंकुलम् । नीचास्तखेटसंयुक्ते ह्यष्टमे व्ययगेऽपि वा 59.4हृद्रोगो मानहानिश्च धनधान्यपशुक्षयः । दारपुत्रादिपीडा च मनश्चांचल्यमेव च 59.5द्वितीयद्यूननाथेन सम्बन्धे तत्र संस्थिते । अनारोग्यं महत्कष्टमात्मबन्धुवियोगकृत् 59.6दुर्गादेवीजपं कुर्यान्मृत्युञ्जयजपं चरेत् । एवं स्वान्तर्गते केतौ ततः सुखमवाप्नु 59.7केतोरन्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रसंयुते । केन्द्रत्रिकोणलाभे वा राज्यनाथे 59.8राजप्रीतिं च सौभाग्यं दिशात्स्वाम्बरसंकुलम् । तत्काले श्रियमाप्नोति भाग्यकर्मेशस 59.9नष्टराज्यधनप्राप्तिं सुखवाहनसुत्तमम् । सेतुस्नानादिकं चैव देवतादर्शनं महत् 59.10महाराजप्रसादेन ग्रामभूम्यादिलाभकृत् । दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि 59.11देहारोग्यं शुभं चैव गृहे कल्याणशोभनम् । भोजनाम्बरभूषाप्तिरथदोलादिलाभकृत् 59.12दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते । अकस्मात्कलहं चैव पशुधान्यादिपीडनम् 59.13नीचस्थे खेटसंयुक्ते लग्नात्षष्ठाष्टराशिगे । स्वबन्धुजनवैषम्यं शिरोक्षिव्रणपीडनम् 59.14हृद्रोगं मानहानिं च धनधान्यपशुक्षयम् । कलत्रपुत्रपीडायाः सञ्चारं च समादिशेत् 59.15द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजम् । तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् । 59.16केतोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा । केन्द्रत्रिकोणलाभे वा शुभयुक् 59.17धनधान्यादिलाभश्च राजानुग्रहवैभवम् । अनेकशुभकार्याणि चेष्टसिद्धिः सुखावहा 59.18अष्टमव्ययराशिस्थे पापग्रहसमन्विते । तद्भुक्तौ राजभीतिश्च पितृमातृवियोगकृत् 59.19विदेशगमनं चैव चौराहिविषपीडनम् । राजमित्रविरोधश्च राजदण्डाद्धनक्षयः 59.20शोकरोगभयं चैव उष्णाधिक्यं ज्वरो भवेत् । दायेशात्लेन्द्रकोणे वा लाभे वा धनसंस्थित 59.21देहसौख्यं चार्थलाभ पुत्रलाभो मनोदृढम् । सर्वकार्यार्थसिद्धिः स्यात्स्वल्पग्रामाध 59.22दायेशाद्रन्ध्ररिःफे वा स्थिते वा पापसंयुते । अन्नविघ्नो मनोबीतिर्धनधान्यपशुक्षयः 59.23आदौ मध्ये महाक्लेशानन्ते सौख्यं विनिर्दिशेत् । द्वितीयसप्तमाधीशे ह्यपमृत्युर्भवि 59.24तस्य शान्तिं प्रकुर्वीत स्वर्णं धेनुं प्रदापयेत् । भास्करस्य प्रसादेन ततः सुखमवा 59.25केतोरन्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रगेऽपि वा । केन्द्रत्रिकोणलाभे वा धने शु 59.26राजप्रीतिर्महोत्साहः कल्याणं च महत्सुखम् । महाराजप्रसादेन गृहभूम्यादिलाभकृत् 59.27भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् । अश्ववाहनलाभश्च वस्त्रभरणभूषणम् 59.28देवालयतडागादिपुण्यधर्मादिसङ्ग्रहम् । पुत्रदारादिसौख्यं च पूर्णचन्द्रः प्रयच्छति 59.29क्षीणे वा नीचगे चन्द्रे षष्ठाष्टमव्ययराशिगे । आत्मसौख्यं मनस्तापं कार्यविघ्नं मह 59.30पितृमातृवियोगं च देहजाड्यं मनोव्यथाम् । व्यवसायात्फलं कष्टं पशुनाशं भयं वदेत् 59.31दायेशात्केन्द्रकोणे वा लाभे वा बलसंयुते । कृषिगोभूमिलाभं च इष्टबन्धुसमागमम् 59.32तस्मात्स्वकार्यसिद्धिं च गृहे गोक्षीरमेव च । भुक्त्यादौ शुभमारोग्यं मध्ये राजप्र 59.33अन्ते तु राजभीतिं च विदेशगमनं तथा । दूरयात्रादिसञ्चारं सम्बन्धिजनपूजनम् 59.34दायेशात्षष्ठरिःफे वा रन्ध्रे वा बलवर्जिते । धनधान्यादिहानिश्च मनोव्यात्कुलमेव च 59.35स्वबन्धुजनवैरं च भ्रातृपीडा तथैव च । निधनाधिपदोषेण द्विसप्तपतिसंयुते 59.36अपमृत्युभयं तस्य शान्तिं कुर्याद्यथाविधि । चन्द्रप्रीतिकरीं चैव ह्यायुरारोग्यसिद 59.37केतोरन्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे स्वक्षेत्रगे वाऽपि शुभग्रह 59.38आदौ शुभफलं चैव ग्रामभूम्यादिलाभकृत् । धनधान्यादिलाभश्च चतुष्पाज्जीवलाभकृत् 59.39गृगारामक्षेत्रलाभो राजानुग्रहवैभवम् । भाग्ये कर्मेशसम्बन्धे भूलाभः सौख्यमेव च 59.40दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा । राजप्रीतियशोलाभः पुत्रमित्रादिसौ 59.41तथाऽष्टमव्यये भौमे दायेशाद्धनगेऽपि वा । द्रुतं करोति मरणं विदेशे चापदं भ्रमम् 59.42प्रमेहमूत्रकृच्छ्रादिचौरादिनृपपीडनम् । कलहादि व्यथायुक्तं किञ्चित्सुखविवर्द्धनम् 59.43द्वितीयद्यूननाथे तु तापज्वरविषाद्भयम् । दारपीडा मनःक्लेशमपमृत्युभयं भवेत् 59.44अण्ड्वाहं प्रदद्यात्तु सर्वसम्पत्सुखावहम् । ततः शान्तिमवाप्नोति भौमग्रहप्रसादतः 59.45केतोरन्तर्गते राहौ स्वोच्चे मित्रस्वराशिगे । केन्द्रत्रिकोणे लाभे वा दुश्चिक्ये 59.46तत्काले धनलाभः स्यात्सञ्चारो भवति ध्रुवम् । म्लेच्छप्रभुवशात्सौख्यं धन्धान्यफलाद 59.47चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् । भुक्त्यादौ क्लेशमाप्नोति मध्यान्ते 59.48रन्ध्रे वा व्ययगे राहौ पापसंदृष्टसंयुते । बहुमूत्रं कृशं दीहं शीतज्वरविषाद्भयम् 59.49चातुर्थिकज्वरं चैव क्षुद्रोपद्रवपीडनम् । अकस्मात्कलहं चैव प्रमेहं शूलमादिशेत् 59.50द्वितीयसप्तमस्थे वा तदा क्लेशं महद्भयम् । तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् 59.51केतोरन्तर्गते जीवे कन्द्रे लाभे त्रिकोणगे । स्वोच्चे स्वक्षेत्रगे वापि लग्नाधिपस 59.52कर्मभाग्याधिपैर्युक्ते धनधान्यार्थसम्पदम् । राजप्रीतिं तदोत्साहमश्वांदोल्यादिकं 59.53गृहे कल्याणसम्पत्तिं पुत्रलाभं महोत्सवहम् । पुण्यतीर्थं महोत्साहं सत्कर्म च सुखा 59.54इष्टदेवप्रसादेन विजयं कार्यलाभकृत् । राजसंल्लापकार्याणि नूतनप्रभुदर्शनम् 59.55षष्ठाष्टमव्यये जीवे दायेशान्नीचगेऽपि वा । चौराहिव्रणभीतिं च धनधान्यादिनाशनम् 59.56पुत्रदारावियोगं च त्वतीवक्लेशसम्भवम् । आदौ सुभफलं चैव अन्ते क्लेशकरं वदेत् 59.57दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा । शुभयुक्ते नृपप्रीतिर्विचित्राम्ब 59.58दूरदेशप्रयाणं च स्वबन्धुजनपोषणम् । भोजनाम्बरपश्वादि भुक्त्यादौ देहपीडनम् 59.59अन्ते तु स्थानचलनमकस्मात्कलहो भवेत् । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति 59.60तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् । महामृत्युञ्जयं जाप्यं सर्वोपद्रवनाशनम् 59.61केतोरन्तर्गते मन्दे स्वदशायां तु पीडनम् । बन्धोः क्लेशो मनस्तापश्चतुष्पाज्जीवलाभ 59.62राजकार्यकलापेन धननाशो महद्भयम् । स्थानाच्च्युतिः प्रवासश्च मार्गे चौरभयं भवेत् 59.63आलस्यं मनसो हानिश्चाष्टमे व्ययराशिगे । मीनत्रिकोणगे मन्दे तुलायां स्वर्क्षगेऽपि 59.64केन्द्रत्रिकोणलाभे वा दुश्चिक्ये वा शुभांशके । शुभदृष्टयुते चैव सर्वकार्यार्थसाध 59.65स्वप्रभोश्च महत्सौख्यं भ्रमणं च सुखावहम् । स्वग्रामे सुखसम्पत्तिः स्ववर्गे राजदर 59.66दायेशात्षष्ठरिःफे वा अष्टमे पापसंयुते । देहतापो मनस्तापः कार्ये विघ्नो महद्भयम् 59.67आलस्यं मानहानिश्च पितृमात्रोर्विनाशनम् । द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् 59.68तद्दोषपैर्हारार्थं तिलहोमं च कारयेत् । कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धय 59.69केतोरन्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे । स्वोच्चे स्वक्षेत्रसंयुक्ते राज्यलाभो 59.70सत्कथाश्रवणं दानं धर्मसिद्धिः सुखावहा । भूलाभः पुत्रलाभश्च शुभगोष्ठीधनागमः 59.71अयत्नाद्धर्मलब्धिश्च विवाहश्च भविष्यति । गृहे शुभकरं कर्म वस्त्राभरणभूषणम् 59.72भाग्यकर्माधिपैर्युक्ते भाग्यवृद्धिः सुखावहा । विद्वद्गोष्ठीकथाभिश्च कालक्षेपो भव 59.73षष्ठाष्टमव्यये सौम्ये मन्दाराहियुतेक्षिते । विरोधो राजवर्गैश्च परगेहनिवासनम् 59.74वाहनाम्बरपश्वादिधनधान्यादिनाशकृत् । भुक्त्यादौ शोभनं प्रोक्तं मध्ये सौख्यं धनागम 59.75अन्ते क्लेशकरं चैव दारपुत्रादिपीडनम् । दायेशात्केन्द्रगे सौम्ये त्रिकोणे लाभगेऽप 59.76देहारोग्यं महांल्लाभः पुत्रकल्याणवैभवम् । भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् 59.77दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते । तद्भुक्त्यादौ महाक्लेशो दारपुत्रादिप 59.78राजभीतिकरश्चैव मध्ये तीर्थकरो भवेत् । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति 59.79तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् । ततः सुखमवाप्नोति श्रीहरेश्च प्रसादतः