← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

सूक्ष्मान्तर्दशाध्यायः

82 verses · Maharshi Parashara

62.1गुण्या स्वस्वदशावर्षैः प्रत्यन्तरदशामितिः । खार्क्रैभक्ता पृथग्लब्धिः सूक्ष्मान् 62.2निजभूमिपरित्यागो प्राणनाशभयं भवेत् । स्थाननाशो महाहानिः निजसूक्ष्मगते रवौ 62.3देवब्राह्मण्भक्तिश्च नित्यकर्मरतस्तथा । सुप्रीतिः सर्वमित्रश्चैव रवेः सूक्ष्मगते 62.4क्रूरकर्मरतिस्तिग्मशत्रुभिः परिपीडनम् । रक्तस्रावादिरोगश्च रवेः सूक्ष्मगते कुजे 62.5चौराग्निविषभीतिश्च रणे भङ्गः पराजयः । दानधर्मादिहीनश्च रवेः सूक्ष्मगते ह्यगौ 62.6नृपसत्कारराजार्हः सेवकैः परिपूजितः । राजचक्षुर्गतः शान्तः सूर्यसूक्ष्मगते गुरौ 62.7चौर्यसाहसकर्मार्थं देवब्राह्मणपीडनम् । स्थानच्युतिं मनोदुखं रवेः सूक्ष्मगते शनौ 62.8दिव्याम्बरादिलब्धिश्च दिव्यस्त्रीपरिभोगिता । अचिन्तितार्थसिद्धिश्च रवेः सूक्ष्मग 62.9गुरुतार्थविनाशश्च भृत्यदारभवस्तथा । क्वचित्सेवकसम्बन्धो रवेः सूक्ष्मगते ध्वजे 62.10पुत्रमित्रकलत्रादिसाख्यसम्पन्न एव च । नानाविधा च सम्पत्ती रवेः सूक्ष्मगते भृगौ 62.11भूषणं भूमिलाभश्च सम्मानं नृपपूजनम् । तामसत्त्वं गुरुत्वं च निजसूक्ष्मगते विधौ 62.12दुःखं शत्रुविरोधश्च कुक्षिरोगः पितुर्मृतिः । वातपित्तकफोद्रेकः विधोः सूक्ष्मगते 62.13क्रोधनं मित्रबन्धूनां देशत्यागो धनक्षयः । विदेशान्निगडप्राप्तिर्विधोः सूक्ष्मगते 62.14छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः । सर्वत्र सुखमाप्नोति विधोः सूक्ष्मगते गुरौ 62.15राजोपद्रवभीतिः स्याद्व्यवहारे धनक्षयः । चौरर्वं विप्रभीतिश्च विधोः सूक्ष्मगते शन 62.16राजमानं वस्तुलाभो विदेशाद्वाहनादिकम् । पुत्रपौत्र्समृद्धिश्च विधोः सूक्ष्मगते बु 62.17आत्मनो वृत्तिहननं सस्यशृङ्गवृषादिभिः । अग्निसूर्यादिभीतिः स्याद्विधोः सूक्ष्मगते 62.18विवाहो भूमिलाभश्च वस्त्राभरणवैभवम् । राज्यलाभश्च कीर्तिश्च विधोः सूक्ष्मगते भृगौ 62.19क्लेशात्क्लेशः कार्यनाशः पशुधान्यधनक्षयः । गात्रवैषम्यभूमिश्च विधोः सूक्ष्मगते र 62.20भूमिहानिर्मनःखेदो ह्यपस्मारी च बन्धुयुक् । पुरोक्षोभमनस्तापो निजसूक्ष्मगते कुजे 62.21अङ्गदोषो जनाद्भीतिः प्रमदावंशनाशनम् । वह्निसर्पभयं घोरं भौमे सूक्ष्मगतेऽप्यहौ 62.22देवपूजारतिश्चात्र मन्त्राभ्युत्थानतत्परः । लोके पूजा प्रमोदश्च भौमे सूक्ष्मगते ग 62.23बन्धनान्मुच्यते बद्धो धनधान्यपरिच्छदः । भृत्यार्थबहुलः श्रीमान् भौमे सूक्ष्मगते 62.24वाहनं छात्रसंयुक्तं राज्यभोगपरं सुखम् । कामश्वासादिका पीडा भौमे सूक्ष्मगते बुधे 62.25परप्रेतितबुद्धिश्च सर्वत्राऽपि च गर्हिता । अशुचिः सर्वकालेषु भौमे सूक्ष्मगते ध्व 62.26इष्टस्त्रीभोगसम्पत्तिरिष्टभोजनसंग्रहः । इष्टार्थस्यापि लाभश्च भौमे सूक्ष्मगते भृ 62.27राजद्वेषो द्विजात्क्लेशः कार्याभिप्रयवंचकः । लोकेऽपि निन्द्यतामेति भौमे सूक्ष्मग 62.28शुद्धत्वं धनसम्प्राप्तिर्देवभाह्मण्वत्सलः । व्याधिना परिभूयेत् भौमे सूक्ष्मगते व 62.29लोकोपद्रवबुद्धिश्च सर्वकार्ये मतिविभ्रमः । शून्यता चित्तदोषः स्यात् स्वीये सूक्ष 62.30दीर्घरोगी दरिद्रश्च सर्वेषां प्रियदर्शनः । दानधर्मरतः शस्तो राहोः सूक्ष्मगते गुर 62.31कुमार्गात्कुत्सितोर्थश्च दुष्टश्च परसेवकः । असत्सङ्गमतिर्मूढो राहोः सूक्ष्मगते श 62.32स्त्रीसम्भोगमतिर्वाग्मी लोकसम्भावनावृतः । अन्नमिच्छंस्तनुग्लानी राहोः सूक्ष्मगते 62.33माधुर्यं मानहानिश्च बन्धनं चाप्रमाकरम् । पारुष्यं जीवहानिश्च राहोः सूक्ष्मगते ध् 62.34बन्धनान्मुच्यते बद्धः स्थानमानार्थसञ्चयः । कारणाद् द्रव्यलाभश्च राहौ सूक्ष्मगते 62.35व्यक्तार्शो गुल्मरोगश्च क्रोधहानिस्तथैव च । वाहनादिसुखं सर्वं राहोः सूक्ष्मगते र 62.36मणिरत्नधनवाप्तिर्विद्योपासनशीलवान् । देवार्चनपरो भक्त्या राहोः सूक्ष्मगते विधौ 62.37निर्जिते जनविद्रावो जने क्रोधश्च बन्धनम् । चौर्यशीलरतिर्नित्यं राहोः सूक्ष्मगते 62.38शोकनाशो धनाधिक्यमग्निहोत्रं शिवार्चनम् । वाहनं छत्रसंयुक्तं स्वीये सूक्ष्मगते गु 62.39व्रतभङ्गो मनस्तापो विदेशे वसुनाशनम् । विरोधो बन्धुवैर्गश्च गुरोः सूक्ष्मगते शनौ 62.40विद्याबुद्धिविवृद्धिश्च ससम्मानं धनागमः । गृहे सर्वविधं सौख्यं गुरोः सूक्ष्मगते 62.41ज्ञानं विभवपाण्डित्ये शास्त्रश्रोता शिवार्चनम् । अग्निहोत्रं गुरोर्भक्तिर्गुरोः 62.42रोगान्मुक्तिः सुखं भोगो धनधान्यसमागमः । पुत्रदारादिसौख्यं च गुरोः सूक्ष्मगते भृग 62.43वातपित्तप्रकोपश्च श्लेष्मोद्रेकस्तु दारुणः । रसव्यादिकृतं शूलं गुरोः सूक्ष्मगते 62.44छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः । नेत्रकुक्षिगता पीडा गुरोः सूक्ष्मगते विधौ 62.45स्र्तीजनाच्च विषोत्पत्तिर्बन्धनं च रुजोभयम् । देशान्तरगमो भ्रान्तिर्गुरोः सूक्ष् 62.46व्याधिभिः परिभूतःस्याच्चौरैरपहृतं धनम् । सर्पवृश्चिकभीतिश्च गुरोः सूक्ष्मगतेऽप्य 62.47धनहानिर्महाव्याधिः वातपीडा कुलक्षयः । भिन्नाहारी महादुःखी निजसूक्ष्मगते शनौ 62.48वाणिज्यवृत्तेर्लाभश्च विद्याविभवमेव च । स्त्रीलाभश्च महीप्राप्तिः शनेः सूक्ष्मगत 62.49चौरोपद्रवकुष्ठादिवृत्तिक्षयविगुम्फनम् । सर्वाङ्गपीडनं व्याधिः शनेः सूक्ष्मगते ध् 62.50ऐश्वर्यमायुधाभ्यासः पुत्रलाभोऽभिषेचनम् । आरोग्यं धनकामौ च शनेः सूक्ष्मगते भृगौ 62.51राजतेजोविकारत्वं स्वगृहे जायते कलिः । किञ्चित्पीडा स्वदेहोत्था शनेः सूक्ष्मगते र 62.52स्फीतबुद्धिर्महारम्भो मन्दतेजा बहुव्ययः । स्त्रीपुत्रैश्च समं सौख्यं शनेः सूक्ष् 62.53तेजोहानिर्महोद्वेगो वह्निमान्द्यं भ्रमः कलिः । वातपित्तकृता पीडा शनेः सूक्ष्मगते 62.54पितृमातृविनाशश्च मनोदुःखं गुरुव्ययम् । सर्वत्र विफलत्वं च शनेः सूक्ष्मगतेऽप्यहौ 62.55सन्मुद्राभोगसम्मानं धनधान्यविवर्द्धनम् । छत्रचामरसम्प्राप्तिः शनेः सूक्ष्मगते गु 62.56सौभाग्यं राजसम्मानं धनधान्यादिसम्पदः । सर्वेषां प्रियदर्शी च निजसूक्ष्मगते बुधे 62.57बालग्रहोग्निभीस्तापः स्त्रीगदोद्भवदोषभाक् । कुमार्गी कुत्सिताशी च बौधे सूक्ष्मगत 62.58वाहनं धनसम्पत्तिर्जलजान्नार्थसम्भवः । शुभकीर्तिर्महाभोगो बौधे सूक्ष्मगते भृगौ 62.59ताडनं नृपवैषम्यं बुद्धिस्खलनरोगभाक् । हानिर्जनापवादं च बौधे सूक्ष्मगते रवौ 62.60सुभगः स्थिरबुद्धिश्च राजसन्मानसम्पदः । सुहृदां गुरुसंचारो बौधे सूक्ष्मगते विधौ 62.61अग्निदाहो विषोत्पत्तिर्जडत्वं च दरिद्रता । विभ्रमश्च महोद्वेगो बौधे सूक्ष्मगते क 62.62अग्निसर्पनृपाद्भीतिः कुच्छ्रादिरिपराभवः । भूतावेशभ्रमाद्भ्रान्तिर्बौधे सूक्ष्मगत 62.63गृहोपकरणं भव्यं दानं भोगादिवैभवम् । राजप्रसादसम्पत्तिर्बौधे सूक्ष्मगते गुरौ 62.64वाणिज्यवृत्तिलाभश्च विद्याविभवमेव च । स्त्रीलाभश्च महाव्याप्तिर्बौधे सूक्ष्मगते 62.65पुत्रदारादिजं दुःखं गात्रवैषम्यमेव च । दारिद्र्याद् भिक्षुवृत्तिश्च नैजे सूक्ष्म 62.66रोगनाशऽर्थलाभश्च गुरुविप्रानुवत्सलः । सङ्गमः स्वजनैः सार्द्धकेतोः सूक्ष्मगते भृग 62.67युद्धं भूमिविनाशश्च विप्रवासः स्वदेशतः । सुहृद्विपातिरार्तिश्च केतोः सूक्ष्मगते 62.68दासीदाससमृद्धिश्च युद्धे लब्धिर्जयस्तथा । ललिता कीर्तिरुत्पन्ना केतोः सूक्ष्मगते 62.69आसने भयमश्वादेश्चौरदुष्टादिपीडनम् । गुल्मपीडा शिरोरोगः केतोः सूक्ष्मगते कुजे 62.70विनाशः स्त्रीगुरूणां च दुष्टस्त्रीसङ्गमाल्लघुः । वमनं रुधिरं पित्तं केतोः सूक्ष् 62.71रिपोर्विरोधः सम्पत्तिः सहसा राजवैभवम् । पशुक्षेत्रविनाशार्तिः केतोः सूक्ष्मगते ग 62.72मृषा पीडा भवेत्क्षुद्रमुखोत्पत्तिश्च लङ्घनम् । स्त्रीविरोधः सत्यहानिः केतोः सूक् 62.73नानाविधजनाप्तिश्च विप्रयोगोऽरिपीडनम् । अर्थसम्पत्समृद्धिश्च केतोः सूक्ष्मगते बुध 62.74शत्रुहानिर्महत्सौख्यं शङ्करालयनिर्मितिः । तडागकूपनिर्माणं निजसूक्ष्मगते भृगौ 62.75उरस्तापो भ्रमश्चैव गतागतविचेष्टितम् । क्वचिल्लाभः क्वचिद्धानिर्भृगोः सूक्ष्मगते 62.76आरोग्यं धनसम्पात्तिः कार्यलाभो गतागतैः । बुद्धिविद्याविवृद्धिः स्याद् भृगोः सूक् 62.77जडत्वं रिपुवैषम्यं देशभ्रंशो महद्भयम् । व्याधिदुःखसमृत्पत्तिर्भृगोः सूक्ष्मगते क 62.78राज्याग्निसर्पजा भीतिर्बन्धुनाशो गुरुव्यथा । स्थानच्युतिर्महाभीतिर्भृगोः सूक्ष्म 62.79सर्वत्र कार्यलाभश्च क्षेत्रार्थविभवोन्नतिः । वणिग्वृत्तेर्महालब्धिर्भृगोः सूक्ष् 62.80शत्रुपीडा महद्दुःखं चतुष्पादविनाशनम् । स्वगोत्रगुरुहानिः स्याद् भृगोः सूक्ष्मगते 62.81बान्धवादिषु सम्पत्तिर्व्यवहारो धनोन्नतिः । पुत्रदारादितः सौख्यं भृगोः सूक्ष्मगते 62.82अग्निरोगो महापीडा मुखनेत्रशिरोव्यथा । सञ्चितार्थात्मनः पीडा भृगोः सूक्ष्मगते ध्व