← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

प्राणदशाफलाध्यायः

83 verses · Maharshi Parashara

63.1पृथक् खगदशावर्षैर्हन्यात् सूक्ष्मदशामितिम् । खसूर्यैर्विभजेल्लिब्धर्ज्ञेय प्राणद 63.2प्ॐश्चल्यं विषजा बाधा चौराग्निनृपजं भयम् । कष्टं सूक्ष्मदशाकाले रवौ प्राणदशां गत 63.3सुखं भोजनसम्पत्तिः संस्कारो नृपवैभवम् । उदारादिकृपाभिश्च रवेः प्राणगते विधौ 63.4भूपोपद्रवमन्यार्थे द्रव्यनाशो महद्भयम् । महत्यपचयप्राप्ती रवेः प्राणगते कुजे 63.5अन्नोद्भवा महापीडा विषोत्पत्तिर्विशेषतः । अर्थाग्निराजभिः क्लेशो रवेः प्राणगतेऽप 63.6नानाविद्यार्थसम्पत्तिः कार्यलाभो गतागतैः । नृपविप्राश्रमे सूक्ष्मे रवेः प्राणगते 63.7बन्धनं प्राणनाशश्च चित्तोद्वेगस्तथैव च । बहुबाधा महाहानी रवेः प्राणगते शनौ 63.8राजान्नभोगः सततं राजलाञ्छानतत्पदम् । आत्मा सन्तर्पयेदीवं रवेः प्राणगते बुधे 63.9अन्योऽन्यं कलहश्चैव वसुहानिः पराजयः । गुरुस्त्रीबन्धुविर्गैश्च सूर्यप्राणगते ध्व 63.10राजपूजा धनाधिक्यं स्त्रीपुत्रादिभवं सुखम् । अन्नपानादिभोगादि सूर्यप्राणगते भृगौ 63.11स्त्रीपुत्रादिसुखं द्रव्यं लभते नूतनाम्बरम् । योगसिद्धिं समाधिञ्च निजप्राणगते वि 63.12क्षयं कुष्ठं बन्धुनाशं रक्तस्रावान्महद्भयम् । भूतावेशादि जायते विधोः प्राणगते कु 63.13सर्पभीतिविशेषाण भूतोपद्रवान् सदा । दृष्टिक्षोभो मतिभ्रंशो विधोः प्राणगतेऽप्यहौ 63.14धर्मवृद्धिः क्षमाप्राप्तिर्देवब्राह्मणपूजनम् । सौभाग्यं प्रियदृष्टिश्च चन्द्रप्र 63.15सहसा देहपतनं शत्रूपद्रववेदना । अन्धत्वं च धनप्राप्तिश्चन्द्रप्राणगते शनौ 63.16चामरच्छत्रसम्प्राप्ती राज्यलाभो नृपात्ततः । समत्वं सर्वभूतेषु चन्द्रप्राणगते बुध 63.17शस्त्राग्निरिपुजा पीडा विषाग्निः कुक्षिरोगता । पुत्रदारवियोगश्च चन्द्रप्राणगते ध 63.18पुत्रमित्रकलत्राप्तिविदेशाच्च धनागमः । सुखसम्पत्तिरर्थश्च चन्द्रप्राणगते भृगौ 63.19क्रूरता कोपवृद्धिश्च प्राणहानिर्मनोव्यथा । देशत्यागो महाभीतिश्चन्द्रप्राणगते रवौ 63.20कलहो रिपुभिर्बन्धः रक्तपित्तादिरोगभीः । निजसूक्ष्मदशामध्ये कुज प्राणगते फलम् 63.21विच्युतः सुतदारैश्च बन्धूपद्रवपीडितः । प्राणत्यागो विषेणैव भौमप्राणगतेऽप्यहौ 63.22देवार्चनपरः श्रीमान्मन्तानुष्ठानतत्परः । पुत्रपौत्रसुखावाप्तिर्भौमप्राणगते गुरौ 63.23अग्निबाधा भवेन्मृत्युरर्थनाशः पदच्युतिः । बन्धुभिबन्धुतावाप्तिर्भौमप्राणगते शनौ 63.24दिव्याम्बरसमुत्पत्तिर्दिव्याभरणभूषितः । दिव्याङ्गनायाः सम्प्राप्तिर्भौमप्राणगते 63.25पतनोत्पातिपीडा च नेत्रक्षोभो महद्भयम् । भुजङ्गाद् द्रव्यहानिश्च भौमप्राणगते ध्वज 63.26धनधान्यादिसम्पत्तिर्लोकपूजा सुखागमा । नानाभोगैर्भवेद्भोगी भौमप्राणगते भृगौ 63.27ज्वरोन्मादः क्षयोऽर्थस्य राजविस्नेहसम्भवः । दीर्घरोगी दरिद्रः स्याद्भौमप्राणगते 63.28भोजनादिसुखप्राप्तिर्वस्त्राभरणजं सुखम् । शीतोष्णव्याधिपीडा च भौमप्राणगते विधौ 63.29अन्नाशने विरक्तश्च विषभीतिस्तथैव च । साहसाद्धननाशश्च राहौ प्राणगते भवेत् 63.30अङ्गसौख्यं विनिर्भीतिर्वाहनादेश्च सङ्गता । नीचिः कलहसम्प्राप्ती राहोः प्राणगते ग 63.31गृहदाहः शरीरे रुङ् नीचैरपहृत धनम् । तथा बन्धनसम्प्राप्ती राहोः प्राणगते शनौ 63.32गुरूपदेशविभवो गुरुसत्कारवर्द्धनम् । गुणवाञ्छीलवांश्चापि राहोः प्राणगते बुधे 63.33स्त्रीपुत्रादिविरोधश्च गृहान्निष्क्रमणादपि । साहसात्कायहानिश्च राहोः प्राणगते ध् 63.34छत्रवाहनसम्पत्तिः सर्वार्थफलसञ्चयः । शिवार्चनगृहारम्भो राहोः प्राणगते भृगौ 63.35अर्शादिरोगभीतिश्च राज्योपद्रवसम्भवः । चतुष्पादादिहानिश्च राहोः प्राणगते रवौ 63.36सौमनस्यं च सद्बुद्धिः सत्कारो गुरुदर्शनम् । पापाद्भीतिर्मनःसौख्यं राहोः प्राणगते 63.37चाण्डालाग्निवशाद्भीतिः स्वपदच्युतिरापदः । मलिनः श्वादिवृत्तिश्च राहोः प्राणगते क 63.38हर्षागमो धनाधिक्यमग्निहोत्रं शिवार्चनम् । वाहनं छत्रसंयुक्तं निज प्राणगते गुरौ 63.39व्रतहानिर्विषादश्च विदेशे धननाशनम् । विरोधो बन्धुवर्गैश्च गुरोः प्राणगते शनौ 63.40विद्याबुद्धिविवृद्धिश्च लोके पूजा धनागमः । स्त्रीपुत्रादिसुखप्राप्तिर्गुरोः प्रा 63.41ज्ञानं विभवपाण्डित्यं शास्त्रज्ञानं शिवार्चनम् । अग्निहोत्रं गुरोर्भक्तिर्गुरोः 63.42रोगान्मुक्तिः सुखं भोगो धनधान्यसमागमः । पुत्रदारादिजं सौख्यं गुरोः प्राणगते भृगौ 63.43वातपित्तप्रकोपं च श्लेष्मोद्रेकं तु दारुणम् । रसव्याधिकृतं शूलं गुरोः प्राणगते र 63.44छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः । नेत्रकुक्षिगता पीडा गुरोः प्राणगते विधौ 63.45स्त्रीजनाच्च विषोत्पत्तिर्बन्धनं चातिनिग्रहः । देशान्तरगमो भ्रान्तिर्गुरोः प्राण 63.46व्याधिभिः परिभूतः स्याच्चौरैरपहृतं धनम् । सर्पवृश्चिकभीतिश्च गुरोः प्राणगतेऽप्यह 63.47ज्वरेण ज्वलिता कान्तिः कुष्ठरोगोदरादिरुक् । जलाग्निकृतमृत्युः स्यान्निजप्राणगते 63.48धनं धान्यं च माङ्गल्यं व्यवहाराभिपूजनम् । देवब्राह्मणभक्तिश्च शनेः प्राणगते बुधे 63.49मृत्युवेदनदुःखं च भूतोपद्रवसम्भवः । परदाराभिभूतत्वं शनेः प्राणगते ध्वजे 63.50पुत्रार्थविभवैः सौख्यं क्षितिपालादितः सुखम् । अग्निहोत्रं विवाहश्च शनेः प्राणगते 63.51अक्षिपीडा शिरोव्याधिः सर्पशत्रुभयं भवेत् । अर्थहानिर्महाक्लेशः शनेः प्राणगते रवौ 63.52आरोग्यं पुत्रलाभश्च शान्तिपौष्टिकवर्धनम् । देवब्राह्मणभक्तिश्च शनेः प्राणगते विध 63.53गुल्मरोगः शत्रुभीतिर्मृगया प्राननाशनम् । सर्पाग्निविषतो भीतिः शनेः प्राणगते कुजे 63.54देशत्यागो नृपाद्भीतिर्मोहनं विषभक्षणम् । वातपित्तकृता पीडा शनेः प्राणगतेऽप्यहौ 63.55सेनापत्यं भूमिलाभः संगमः स्वजनैः सह । गौरवं नृपसम्मानं शनेः प्राणगते गुरौ 63.56आरोग्यं सुखसम्पत्तिर्धर्मकर्मादिसाधनम् । समत्वं सर्वभुतेषु निजप्राणगते बुधे 63.57वह्नितस्करतो भीतिः परमाधिर्विषोद्भवः । देहान्तकरणं दुःखं बुधप्राणगते ध्वजे 63.58प्रभुत्वं धनसम्पत्तिः कीर्तिर्धर्मः शिवार्चनम् । पुत्रदारादिकं सौख्यं बुधप्राणगत 63.59अन्तर्दाहो ज्वरोन्मादौ बान्धवानां रति स्त्रियाः । प्राप्यते स्तीयसम्पत्तिर्बुधप् 63.60स्त्रीलाभश्चार्थसम्पत्तिः कन्यालाभो धनागमः । लभते सर्वतः सौख्यं बुधप्राणगते विधौ 63.61पतितः कुक्षिरोगी च दन्तनेत्रादिजा व्यथा । अर्शांसि प्राणसन्देहो बुधप्राणगते कुजे 63.62वस्त्राभरणसम्पत्तिर्वियोगो विप्रवैरिता । सन्निपातोद्भवं दुखं बुधप्राणगतेऽप्यहौ 63.63गुरुत्वं धनसम्पत्तिर्विद्या सद्गुणसंग्रहः । व्यवसायेन सल्लाभो बुधप्राणगते गुरौ 63.64चौर्येण निधनप्राप्तिर्विधनत्वं दरिद्रता । याचकत्वं विशेषेण बुधप्राणगते शनौ 63.65अश्वपातेन घातश्च शत्रुतः कलहागमः । निर्विचारवधोत्पत्तिर्निजप्राणगते ध्वजे 63.66क्षेत्रलाभो वैरिनाशो हयलाभो मनःसुखम् । पशुक्षेत्रधनाप्तिश्च केतोः प्राणगते भृगौ 63.67स्तेयाग्निरिपुभीतिश्च धनहानिर्मनोव्यथा । प्राणान्तकरणं कष्टं केतोः प्राणगते रवौ 63.68देवद्विजगुरोः पूजा दीर्घयात्रा धनं सुखम् । कर्णे वा लोचने रोगः केतोः प्राणगते वि 63.69पित्तरोगो नसावृद्धिर्विभ्रमः सन्निपातजः । स्वबन्धुजनविद्वेषः केतोः प्राणगते कुजे 63.70विरोधः स्त्रीसुताद्यैश्च गृहान्निष्क्रमणं भवेत् । स्वसाहसात्कार्यहानिः केतोः प्र 63.71शस्त्रव्रणैर्महारोगो हृत्पीडादिसमुद्भवः । सुतदारवियोगश्च केतोः प्राणगते गुरौ 63.72मतिविभ्रमतीक्ष्णत्वं क्रूरकर्मरतिः सदा । व्यवसनाद्बन्धनं दुःखं केतोः प्राणगते शन 63.73कुसुमं शयनं भूषा लेपनं भोजनादिकम् । सौख्यं सर्वाङ्गभोग्यं च केतोः प्राणगते बुधे 63.74ज्ञानमीश्वरभक्तिश्च सन्तोषश्च धनागमः । पुत्रपौत्रसमृद्धिश्च निजप्राणगते भृगौ 63.75लोकप्रकाशकीर्तिश्च सुतसौख्यविवर्जितः । उष्णादिरोगजं दुखं शुक्रप्राणगते रवौ 63.76देवार्चने कर्मरतिर्मन्त्रतोषणतत्परः । धनसौभाग्यसम्पत्तिः शुक्रप्राणगते विधौ 63.77ज्वरो मसूरिकास्फोटकण्डूचिपिटकादिकाः । देवब्राह्मणपूजा च शुक्रप्राणगते कुजे 63.78नित्यं शत्रुकृता पीडा नेत्रकुक्षिरुजादयः । विरोधः सुहृदां पीडा शुक्रप्राणगतेऽप्य 63.79आयुरारोग्यमैश्वर्यं पुत्रस्त्रीधनवैभवम् । छत्रवाहनसम्प्राप्तिः शुक्रप्राणगते गुर 63.80राजोपद्रवजा भीतिः सुखहानिर्महारुजः । नीचैः सह विवादश्च भृगोः प्राणगते शनौ 63.81सन्तोषो राजसम्मानं नानादिग्भूमिसम्पदः । नित्यमुत्साहव्र्द्धिः स्याच्छुक्रप्राणगत 63.82जीवितात्मयशोहानिर्धनधान्यपरिक्षयः । त्यागभोगधनानि स्युः शुक्रप्राणगते ध्वजे 63.83एवमृक्षदशानां हि सान्तरागां मया द्विज । फलानि कथितान्यत्र संक्षेपादेव तेऽग्रतः