← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

कालचक्रान्तर्दशाफलाध्यायः

58 verses · Maharshi Parashara

64.1जगद्धिताय प्रोक्तानि पुरा यानि पुरारिणा । तानि चक्रान्तर्दशाफलानि कथयाम्यहम् 64.2मेषांशे स्वान्तरे भौमे ज्वरश्च व्रणसम्भवः । बुधशुक्रेन्दुजीवेषु सुखं शत्रुभयं रव 64.3वृषांशे स्वान्तरे सौरे कलहो रोगसम्भवः । विद्यालाभस्तनौ सौख्यं गुरौ तत्र गते फलम् 64.4देशत्यागो मृतिर्वापि शस्त्रघातो ज्वरोऽथवा । वृषभस्वांशके विप्र कुजे तत्र गते फलम 64.5वस्त्राभरणलाभश्च स्त्रीसुयोगो महत् सुखम् । शुक्रेन्दुसुतचन्द्रेषु वृषभस्वांशके फ 64.6नृपाद् भयं पितृमृतिः स्ववदाद्यैर्भयं रवौ । मिथुने स्वांशके शुक्रे धनवस्त्रसमागमः 64.7पितृमातृमृतेर्भीतिर्ज्वरश्च व्रणसम्भवः । दूरदेशप्रयाणं च मिथुने स्वांशके कुजे 64.8बुद्धिविद्याविवृद्धिश्च महाविभवसम्भवः । लोके मानश्च प्रीतिश्च मिथेने स्वांशके गु 64.9विदेशगमनं व्याधिर्मरणं धननाशनम् । बन्धुनाशोऽथवा विप्र मिथुने स्वांशके शनौ 64.10विद्यावस्त्रादिलाभश्च दारपुत्रादिजं सुखम् । सर्वत्र मानमाप्नोति मिथुने स्वांशके 64.11कर्क स्वांशगते चन्द्रे पुत्रदारसुखं महत् । ऐश्वर्यं लभते लोके मानं प्रीतिं तथैव 64.12शत्रुभ्यश्च पशुभ्यश्च भयं राजकुलात् तथा । आधिव्याधिभयं चैव कर्के स्वांशगते रवौ 64.13पुत्रदारसुहृत्सौख्यं धनवृद्धिस्तथैव च । लोके मानं यशश्चैव कर्कांशे बुधशुक्रयोः 64.14विषशस्त्रमृतेर्भीतिं ज्वररोगादिसम्भवाम् । पीडां चैव समाप्नोति कर्के स्वांशगते कु 64.15विभवस्यातिलाभश्च शरीरेऽपि सुखं तथा । नृपात् सम्मानलाभश्च कर्के स्वांशगते गुरौ 64.16वादव्याधिभयं घोरं सर्पवृश्चिकतो भयम् । नानाकष्टमवाप्नोति कर्के स्वांशगते शनौ 64.17सिंहांशे स्वांशगे भौमे मुखरोगभयं दिशेत् । पित्तज्वरकृतां वाधां शस्त्रक्षतमथापि व 64.18धनवस्त्रादिलाभश्च स्त्रीपुत्रादिसुखं तथा । बुधभार्गवयोर्विप्र सिंहांशे स्वान्तरस 64.19उच्चात् पतनभीतिश्च स्वल्पद्रव्यसमागमः । विदेशगमनं चैव सिंहे स्वान्तर्गते विधौ 64.20भयं शत्रुजनेभ्यश्च ज्वरादिव्याद्धिसम्भवः । ज्ञानहानिर्मृतेर्भीतिः सिंहे स्वान्तर 64.21धनधान्यादिलाभं च प्रसादं द्विजभूपयोः । विद्यावृद्धिमवाप्नोति सिंहे स्वान्तर्गते 64.22कन्यायां स्वांशगे सौरे कष्टं प्राप्नोति मानवः । द्रयाणं च ज्वरं चैव क्षुद्भवं वै 64.23नृपप्रसादमैश्वर्यं सुहृद्बन्धुसमागमम् । विद्यावृद्धिमवाप्नोति कन्यायां स्वांशके 64.24पित्तज्वरभवा पीडा विदेशे गमनं तथा । शस्त्रघातोऽग्निभीतिश्च कन्यायां स्वान्तरे कु 64.25भृत्यपुत्रार्थलाभश्च नानासुखसमागमः । बन्धुभार्गवचन्द्रेषु कन्यास्वांशगतेषु च 64.26प्रयाणं रोगभीतिश्च कलहो बन्धुभिः सह । शस्त्रघातभयं चैव कन्यांशे स्वांशगे रवौ 64.27तुले स्वान्तर्गते शुक्रे सद्बुद्धिश्च सुखोदयः । स्त्रीपुत्रधननवस्त्रादिलाभो भवति 64.28पितृकष्टं सुहृद्वैरं शिरोरोगो ज्वरोदयः । विषशस्त्राग्निभीतिश्च तुले स्वान्तर्गते 64.29द्रव्यरत्नादिलाभश्च धर्मकार्यं नृपादयः । सर्वत्र सुखसम्प्राप्तिस्तुले स्वांशगते 64.30प्रयाणं च महाव्याधिः क्षेत्रदेः क्षतिरेव च । शत्रुवाधा च कार्येषु तुले स्वांशगते 64.31पुत्रजन्म धनप्राप्तिः स्त्रीसुखं च मनःप्रियम् । भाग्योदयश्च विज्नेयस्तुले स्वान् 64.32शशाङ्कबुधशुक्रेषु वृश्चिके स्वांशगेषु च । नानाधान्यधनप्राप्तिर्व्याधिविनाशो महत् 64.33शत्रुक्षोभभयं व्याधिमर्थनाशं पितुर्भयम् । श्वापदाद् भयमाप्नोति वृश्चिके स्वांशगे 64.34वातपित्तभयं चैव मसूरीव्रणमादिशेत् । अग्निशस्त्रादिभीतिश्च वृश्चिके स्वांशगे कुजे 64.35धनं धान्यञ्च रत्नं च देवब्राह्मणपूजनम् । राजप्रसादमाप्नोति वृश्चिके स्वांशगे गुर 64.36धनबन्धुविनाशश्च जायते मानसी व्यथा । शत्रुवाधा महाव्याधिर्वृश्चिके स्वांशगे शनौ 64.37अतिदाहं ज्वरं छर्दि मुखरोगं विशेषतः । नानाक्लेशमवाप्नोति चापांशे स्वांशगे कुजे 64.38श्रियं विद्यां च सौभाग्यं शत्रुनाशं नृपात् सुखम् । भार्गवेन्दुचन्द्राणां चापे स् 64.39भार्यावित्तविनाशं च कलहं च नृपाद् भयम् । दूरयात्रामवाप्नोति चापांशे स्वांशगे रवौ 64.40दानधर्मतपोलाभं राजपूजनमाप्नुयात् । भार्याविभवलाभं च चापे स्वांशगते गुरौ 64.41द्विजदेवनृपोद्भूतं कोपं बन्धुविनाशनम् । देशत्यागमवाप्नोति मकरस्वांशगे शनौ 64.42देवार्चनं तपोध्यानं सम्मानं भूपतेः कुले । भार्गवज्ञेन्दुजीवानां मृगांशेऽन्तर्दशा 64.43शिरोरोगं ज्वरं चैव करपादक्षतं दिशेत् । रक्तपित्तातिसारांश्च मृगस्वांशगते कुजे 64.44विनाशं पितृबन्धूनां ज्वररोगादिकं दिशेत् । नृपशत्रुभयं चैव मृगांशस्वांशगे शनौ 64.45नानाविद्यार्थलाभश्च पुत्रस्त्रीमित्रजं सुखम् । शरीरारोग्यमैश्वर्यं कुम्भे स्वांश 64.46ज्वराग्निचोरजा पीडा शत्रुणां च महद् भयम् । मनोव्यथामवाप्नोति घटांशस्वान्तरे कुजे 64.47नैरुज्यं च सुखं चैव सम्मानं भूपतेः द्विजात् । मनःप्रसादमाप्नोति कुम्भांशस्वांशगे 64.48धातुत्रयप्रकोपं च कलहं देशविभ्रमम् । क्षयव्याधिमवाप्नोति कुंभांशस्वांशगे शनौ 64.49पुत्रमित्रधनस्त्रीणां लाभं चैव मनःप्रियम् । सौभाग्यवृद्धिमाप्नोति कुम्भांशस्वांश 64.50विद्यावृद्धिमवाप्नोति स्त्रीसुखं व्याधिनाशनम् । सुहृत्सङ्गं मनःप्रीतिं मीनांशस्व 64.51बन्धुभिः कलहं चैव चौरभीतिं मनोव्यथाम् । स्थानभ्रंशमवाप्नोति मीनांशस्वांशगे रवौ 64.52रणे विजयमाप्नोति पशुभूमिसुतागमम् । धनवृद्धिश्च मीनांशे स्वांशयोर्बुधशुक्रयोः 64.53पित्तरोगं विवादञ्च स्वजनैरपि मानवः । शत्रुणां भयमाप्नोति मीनांशस्वांशगे कुजे 64.54धनवस्त्रकलत्राणां लाभो भूपसमादरः । प्रतिष्ठा बहुधा लोके मीनांशस्वांशगे गुरौ 64.55धननाशो मनस्तापो वेश्यादीनां च सङ्गमात् । देशत्यागो भवेद्वापि मीनांशस्वांशगे शनौ 64.56एवं प्राज्ञैश्च विज्ञेयं कालचक्रदशाफलम् । अन्तर्दशाफलं चैव वामर्क्षेऽप्येवमेव च 64.57इदं फलं मया प्रोक्तं धर्माऽधर्मकृतं पुरा । तत्सर्वं पाणिभिर्नित्यं प्राप्यते नाऽ 64.58सुहृदोऽन्तर्दशा भव्या पापस्यापि द्विजोत्तम । शुभस्यापि रिपोश्चैवमशुभा च प्रकीर्त