← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
पंचमहापुरुषलक्षणाध्यायः
22 verses · Maharshi Parashara
75.1
अथ वक्ष्याम्यहं पञ्चमहापुरुषलक्षणम् । स्वभोच्चगतकेन्द्रस्थैर्बलिभिश्च कुजादिभिः
75.2
क्रमशो रुचको भद्रो हंसो मालव्य एव च । शशश्चैते बुधैः सर्वैर्महान्तः पुरुषाः स्मृ
75.3
दीर्घाननो महोत्साहो स्वच्छकान्तिर्महाबलः । चारुभ्रूर्नीलकेशश्च सुरुचिश्च रणप्रिय
75.4
रक्तश्यामोऽरिहन्ता च मन्त्रविच्चोरनायकः । क्रूरोभर्ता मनुष्याणां क्षामाऽङ्घ्रिर्
75.5
वीणावज्रधनुःपाशवृषचक्राङ्कितः करे । मन्त्राभिचारकुशली दैर्ध्ये चैव शतांगुलः
75.6
मुखदैर्घ्यसमं मध्यं तस्य विज्ञैः प्रकीर्तितम् । तुल्यस्तुलासहस्रेण रुचको द्विजपु
75.7
भुनक्ति विन्ध्यसह्याद्रिप्रदेशं सप्ततिं समाः । शत्रेण वह्निना वापि स प्रयाति सुर
75.8
शार्दूलप्रतिभह् पीनवक्षा गजगतिः पुमान् । पीनाजानुभुजः प्राज्ञश्चतुरस्रश्च योगवित
75.9
सात्त्विकः शोभनांघ्रश्च शोभनश्मश्रुसंयुतः । कामी शङ्खगदाचक्रशरकुञ्जरचिह्नकैः
75.10
ध्वजलाङ्गलचिह्नैश्च चिह्नितांघ्रिकराम्बुजः । सुनासश्शास्त्रविद् धीरः कृष्णाकुञ्च
75.11
स्वतन्त्रः सर्वकार्येषु स्वजनप्रीणनक्षमः । ऐश्वर्यं भुज्यते चास्य नित्यं मित्रजन
75.12
तुलया तुलितो भारप्रमितः स्त्रीसुतान्वितः । सक्षेमो भूपतिः पाति मध्यदेशं शतं समाः
75.13
हंसो हंसस्वरो गौरः सुमुखोन्नतनासिकः । श्लेष्मलो मधुपिङ्गाक्षो रक्तवर्णनखः सुधीः
75.14
पीनगण्डस्थलो वृत्तशिराः सुचरणो नृपः । मत्स्याऽङ्कुशधनुःशंखकञ्जखट्वाङ्गचिह्नकैः
75.15
चिह्नतांघ्रिकरः स्त्रीषु कामार्तो नैति तुष्टताम् । षण्ण्वत्यंगुलो दैर्घ्ये जलक्र
75.16
गङ्गायमुनयोर्मध्यदेशं पाति शतं समाः । वनान्ते निधनं याति भुक्त्वा सर्वसुखं भुवि
75.17
समौष्ठः कृशमध्यश्च चन्द्रकान्तिरुचिः पुमान् । सुगन्धो नातिरक्ताङ्गो न ह्रस्वो ना
75.18
समस्वच्छरदो हस्तिनाद आजानुबाहुधृक् । मुखं विश्वांगुलं दैर्घ्ये विस्तारे च दशाङ्ग
75.19
मालव्यो मालवाख्यं च देशं पाति ससिन्धुकम् । सुखं सप्ततिवर्षान्तं भुक्त्वा याति सु
75.20
तनुद्विजमुखः शूरो नातिह्रस्वः कृशोदरः । मध्ये क्षामः सुजंघश्च मतिमान् पररन्ध्रवि
75.21
शक्तो वनाद्रिदुर्गेषु सेनानीर्दन्तुरः शशः । चंचलो धातुवादी च स्त्रीशक्तोऽन्यधाना
75.22
मालावीणामृदङ्गाऽस्त्ररेखाङ्कितकरांघ्रिकः । भूपोऽयं वसुधा पाति जीवन् खाद्रिसमाः स
← सुदर्शनचक्रफलाध्यायः
पंचमहाभूतफलाध्यायः →