← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

पंचमहाभूतफलाध्यायः

18 verses · Maharshi Parashara

76.1अथ पञ्चमहाभूतच्छायाज्ञानं वदामि ते । ज्ञायते येन खेटानां वर्तमानदशा बुधैः 76.2शिखिभूखाम्बुवातानामधिपा मङ्गलादयः । तत्तद्बलावशाज्ज्ञेयं तत्तद्भूतभवं फलम् 76.3सबले मङ्गले वह्निस्वभावो जायते नरः । बुधे महीस्वभावः स्यादाकाशप्रकृतिर्गुरौ 76.4शुक्रे जलस्वभावश्च मारुतप्रकृतिः शनौ । मिश्रैर्मिश्रस्वभावश्च विज्ञेयो द्विजसत्त 76.5सूर्ये वह्निस्वभावश्च जलप्रकृतिको विधौ । स्वदशायां ग्रहाश्छायां व्यंजयन्ति स्वभू 76.6क्षुधार्तश्चपलः शूरः कृशः प्राज्ञोऽतिभक्षणः । तीक्ष्नो गौरतनुर्मानी वह्निप्रकृति 76.7कर्पूरोत्पलगन्धाढ्यो भोगी स्थिरसुखी बली । क्षमावान् सिंहनादश्च महीप्रकृतिको नरः 76.8शब्दार्थवित् सुनीतिज्ञो प्रगल्भो ज्ञानसंयुतः । विवृतास्योऽतिदीर्घश्च व्योमप्रकृत 76.9कान्तिमान् भारवाही च प्रियवाक् पृथिवीपतिः । बहुमित्रा मृदुर्विद्वान् जलप्रकृतिसम 76.10वायुतत्त्वाधिको दाता क्रोधी गौरोऽटनप्रियः । भूपतिश्च दुराधर्षः कृशाङ्गो जायते जन 76.11स्वर्णदीप्तिः शुभा दृष्टिः सर्वकार्यार्थसिद्धिता । विजयो धनलाभश्च वह्निभायां प्र 76.12इष्टगन्धः शरीरे स्यात् सुस्निग्धनखदन्तता । धर्मार्थसुखलाभश्च भूमिच्छाया यदा भवेत 76.13स्वच्चा गगनजा छाया वाक्पटुत्वप्रदा भवेत् । सुशब्दश्रवणोद्भूतं सुखं तत्र प्रजायते 76.14मृदुता स्वस्थता देहे जलच्छाया यदा भवेत् । तदाऽभिष्टरसस्वादसुखं भवति देहिनः 76.15मालिन्यं मूढता दैत्यं रोगश्च पवनोद्भवाः । तदा च शोकसन्तापौ वायुच्छाया यदा भवेत् 76.16एवं फलं बुधैर्ज्ञेयं सबलेषु कुजादिषु । निर्बलेषु तथा तेषु वक्तव्यं व्यत्ययाद् द् 76.17नीचशत्रुभगैश्चापि विपरीतं फलं वदेत् । फलाप्तिरबलैः खेटैः स्वप्नचिन्तासु जायते 76.18तद्दुष्टफलशान्त्यर्थमपि चाज्ञातजन्मनाम् । फलपक्त्या दशा ज्ञेया वर्तमाना नभःसदाम्