← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

सत्त्वादिगुणफलाध्यायः

22 verses · Maharshi Parashara

77.1अथो गुणवशेनाहं कथयामि फलं द्विज । सत्त्वग्रहोदये जातो भवेत्सत्त्वाधिकः सुधीः 77.2रजःखेटोदये विज्ञो रजोगुणसमन्वितः । तमःखेटोदये मूर्खो भवेज्जातस्तमोऽधिकः 77.3गुणसाम्ययुतो जातो गुणसाम्यखगोदये । एवं चतुर्विधा विप्र जायन्तो जन्तवो भुवि 77.4उत्तमो मध्यमो नीच उदासीन इति क्रमात् । तेषां गुणानहं वक्ष्ये नारदारिप्रभाषितान् 77.5शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । अलोभः सत्यवादित्वं जने सत्त्वाधिके गुणाः 77.6शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाऽप्यपलायनम् । साधूनां रक्षणं चेति गुणा ज्ञेय 77.7लोभश्चासत्यवादित्वं जाड्यमालस्यमेव च । सेवाकर्मपटुत्वंच गुणा एते तमोऽधिके 77.8कृषिकर्मणि वाणिज्ये पटुत्वं पशुपालने । सत्यासत्यप्रभाषित्वं गुणसाम्ये गुणा इमे 77.9गतैश्च लक्षणैर्लक्ष्य उत्तमो मध्यमोऽधमः । उदासीनश्च विप्रेन्द तं तत्कर्मणि योजये 77.10द्वाभ्यामेकोऽधिको यश्च तस्याधिक्यं निगद्यते । अन्यथा गुणसाम्यं च विज्ञेयं द्विजस 77.11सेव्यसेवकयोरेवं कन्यकावरयोरपि । गुणैः सदृशयोरेव प्रीतिर्भवति निश्चला 77.12उदासीनोऽधमस्यैवमुदासीनस्य मध्यमः । मध्यमस्योत्तमो विप्र प्रभवत्याश्रयो मुदे 77.13अतोऽवरा वरात् कन्य सेव्यतः सेवकोऽवरः । गुणैस्ततः सुखोत्पत्तिरन्यथा हानिरेव हि 77.14वीर्यं क्षेत्रं प्रसूतेश्च समयः सङ्गतिस्तथा । उत्तमादिगुणे हेतुर्बलवानुत्तरोत्तर 77.15अतः प्रसूतिकालस्य सदृशो जातके गुणः । जायते तं परीक्ष्यैव फलं वाच्यं विचक्षणैः 77.16कालः सृजति भूतनि पात्यथो संहरत्यपि । इश्वरः सर्वलोकानामव्ययो भगवान् विभु 77.17तच्छक्तिः प्रकृतिः प्रोक्ता मुनिभिस्त्रिगुणात्मिका । तथा विभक्तोऽव्यक्तोऽपि व्यक 77.18चतुर्धाऽवयवास्तस्य स्वगुणैश्च चतुर्विधः । जायन्ते ह्युत्तमो मध्ये उदासीनोऽधमः क् 77.19उत्तमे तूत्तमो जन्तुर्मध्येऽङ्गे च मध्यमः । उदासीने ह्यदासीनो जायते चाऽधमेऽधमः 77.20उत्तमाङ्गं शरिस्तस्य मध्यमाङ्गमुरःस्थलम् । जंघाद्वयौदासीनमधमं पदमुच्यते 77.21एवं गुणवशादेव कालभेदः प्रजायते । जातिभेदस्तु तद्भेदाज्जायतेऽत्र चराचरे 77.22एवं भगवता सृष्टं विभुना स्वगुणैः समम् । चतुर्विधेन कालेन जगदेतच्चतुर्विधम्