← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
स्त्रीजातकाध्यायः
55 verses · Maharshi Parashara
80.1
बहुधा भवता प्रोक्तं यज्जातकफलं मुने । तन्नारीणां कथं ज्ञेयमिति मे कथयाऽधुना
80.2
साधु पृष्टं त्वया विप्र तदपि प्रवदाम्यहम् । स्त्रीणां पुंभिः समं ज्ञेयं फलमुक्तं
80.3
विशेषस्तत्र यो दृष्टः संक्षेपात् कथयामि तत् । लग्ने देहफलं तस्याः पञ्चमे प्रसवस्
80.4
सप्तमे पतिसौभाग्यं वैधव्यं निधने द्विज । स्त्रीणामसम्भवं यद्यत् तत्फलं तत्पतौ वद
80.5
लग्नेन्दू समभे यस्याः सा नारी प्रकृतिस्थिता । कन्योचितगुणोपेता सुशीला शुभलक्षणा
80.6
शुभेक्षितौ सुरूपा च सदा देहसुखान्विता । विषमे पुरुषाकारा दुःशीला पापवीक्षितौ
80.7
पापाढ्यौ च गुणैर्हीना मिश्रे मिश्रफलं वदेत् । लग्नेन्द्वोर्यो बली तस्य फलं तस्य
80.8
लग्नेन्द्वोर्यो बली विप्र त्रिंशांशैस्तदधिष्ठितैः । ग्रहराशिवशाद् वाच्यं फलं स्त
80.9
कन्यैवारगृहे दुष्टा भौमत्रिंशांशके भवेत् । कुचरित्रा तथा शौक्रे समाया बोधने स्मृ
80.10
जैवे साध्वी शनौ दासी ज्ञर्क्षे कौजे छलान्विता । शौक्रे प्रकीर्णकामा सा बौधेंऽशे
80.11
क्लीबाऽर्क्यंशे सती जैवे कौजै दुष्टा सितर्क्षके । शौक्रे ख्यातगुणा बौधे कलासु नि
80.12
जैवे गुणवती मान्दे पुनर्भूश्चन्द्रभे ततः । स्वतन्त्रा कुजात्रिंशांशे शौक्रे च कु
80.13
बौधे शिल्पकलाऽभिज्ञा जैवे बहुगुणा शनौ । पतिघ्नी चार्कभे कौजे वाचाला भार्गवे सती
80.14
बौधे पुंश्चेष्टिता जैवे राज्ञी मान्दे कुलच्युता । कौजे बहुगुणाऽर्यर्क्षे शौक्रे
80.15
बौधे विज्ञानसंयुता जैवेऽनेकगुणान्विता । मान्दे चाल्परतिः प्रोक्ता दासी कौजे तथाऽ
80.16
सुप्रज्ञा च भवेच्छौक्रे बौधे दुःस्था तथा खला । जैवे पतिव्रता प्रोक्ता मान्दे नीच
80.17
मन्दे शून्ये शुभादृष्टे पतिः कापुरुषो भवेत् । चरभे च प्रवासी स्यात् क्लीवस्तत्र
80.18
सूर्येऽस्तभे पतित्यक्ता बाल्ये च विधवा कुजे । शनावशुभसन्दृष्टे याति कन्यैव वृद्ध
80.19
विधवास्तगतैः पापैः सौम्यैस्तु सधवा सती । मिश्रखेटैः पूनर्भूः सा ज्ञेया मिश्रफलान
80.20
मिथोंऽशस्थौ सितारौ चेदन्यासक्ता तदाऽङ्गना । सप्तमे च स्थिते चन्द्रे तदा भर्तुरनु
80.21
शुक्रभे शनिभे वापि सेन्दुशुक्रे च लग्नगे । मात्रा सह तदा नारी वन्धकी भवति ध्रुवम
80.22
कुजर्क्षे वा तदंशेऽस्ते स्त्रीलोलः क्रोधनः पतिः । बौधर्क्षांशे तथा विद्वान् कलास
80.23
जैवे सर्वगुणोपेतः पतिरस्ते जितेन्द्रियः । शौक्रे सौभाग्यसंयुक्तः कान्तः स्त्रीजन
80.24
सौरेर्क्ष वाथ सौरांशे वृद्धो मूर्खश्च सप्तमे । अतीवामृदुरर्कांशे तदृक्षेवाऽतिकर्
80.25
अस्ते कर्के तदंशे वा कान्तः कामी मृदुः पतिः । मिश्रे मिश्रफलं वाच्यं भांशयोश्च ब
80.26
सूर्येऽष्टमगते जाता दुःखदारिद्र्यसंयुता । क्षताङ्गी खेदयुक्ता च भवेद्धर्मपराङ्मु
80.27
चन्द्रेऽष्टमगते नारी कुभगा कुस्तनो कुदृग् । वस्त्राभरणहीना च रोगिणी चातिगर्हिता
80.28
कुजेऽष्टमगते बाला कृशाङ्गी रोगसंयुता । विधवा कान्तिहीना च शोकसन्तापदुःखिता
80.29
बुधेष्टमगते जाता धर्महीना भयातुरा । अभिमानधनैर्हीना निर्गुणा कलहप्रिया
80.30
गुरावष्टमगे बाला विशीला स्वल्पसन्ततिः । पृथुवादकरा पत्या त्यक्ता बह्वशना भवेत्
80.31
शुक्रेऽष्टमगते जाता प्रमत्ता धनवर्जिता । निर्दया धर्महीना च मलिना कपटान्विता
80.32
शनावष्टमगे जाता दुःस्वभावा मलिम्लुचा । प्रवंचनपरा नारी भवेत् पतिसुखोज्ज्ञिता
80.33
राहावष्टमभावस्थे कुरूपा पतिवर्जिता । कठोरहृदया रोगैर्युक्ता च व्यभिचारिणी
80.34
शशिशुक्रौ यदा लग्ने मन्दराभ्यां युतौ तदा । बन्ध्या भवति सा नारी सुतभे पापदृग्युत
80.35
कुजांशेस्तगते सौरिदृष्टे नारी सरुग्भगा । शुभांशे सप्तमे ज्ञेया सुभगा पतिवल्लभा
80.36
बुधभे लग्नगे सूतौ चन्द्रशुक्रयुते द्विज । ज्ञेया पितृगृहे नारी सा सर्वसुखसंयुता
80.37
लग्ने चन्द्रज्ञशुक्रेषु बहुसौख्यगुणान्विता । जीव तत्रातिसम्पन्ना पुत्रवित्तसुखान
80.38
लग्नादष्टमगौ स्यातां चन्द्रार्कौ स्वर्क्षगौ तदा । बन्ध्याऽथ काकबन्ध्या चेदेवं चन
80.39
शनिमङ्गलभे लग्ने चन्द्रभार्गवसंयुते । पापदृष्टे च सा नारी बन्ध्या भवति निश्चयात्
80.40
सराहौ सप्तमे सूर्ये पञ्चमे पापसंयुते । शुक्रेज्यराहवो मृत्यौ मृतापत्या च सा भवेत
80.41
शुक्रेज्यावष्टमे सारौ सप्तमे वा कुजो भवेत् । शनिना दृग्युतो नारी गलद्गर्भा प्रकी
80.42
पापकर्तरिके लग्ने चन्द्रे जाता च कन्यका । समस्तं पितृवंशं च पतिवंशं हिहन्ति सा
80.43
ससर्पाग्निजलेशर्क्षे भानुमन्दारवासरे । भद्रातिथौ जनुर्यस्याः सा विषाख्या कुमारिक
80.44
सपापश्च शुभौ लग्ने द्वौ पापौ शत्रुभस्थितौ । यस्या जनुषि सा कन्या विषाख्या परिकीर
80.45
विषयोगे समुत्पन्ना मृतवत्सा च दुर्भगा । वस्त्राभरणहीना च शोकसन्तप्तमानसा
80.46
सप्तमेशः शुभो वापि सप्तमे लग्नतोऽथवा । चन्द्रतो वा विषं योगं विनिहन्ति न संशयः
80.47
लग्ने व्यये सुखे वापि सप्तमे चाऽष्टमे कुजे । शुभदृग्योगहीने च पतिं हन्ति न संशयः
80.48
यस्मिन् योगे समुत्पन्ना पतिं हन्ति कुमारिका । तस्मिन् योगे समुत्पन्नो पत्नीं हन्
80.49
स्त्रीहन्त्रा परिणीता चेत् पतिहन्त्री कुमारिका । तदा वैधव्ययोगस्य भङ्गो भवति निश
80.50
मिथोंऽशस्थौ मिथोदृष्टौ सितार्की वा सितर्क्षके । घटांशे लग्नगे नारी प्रदीप्तं मदन
80.51
संशान्तिं नयति स्त्रीभिः सुखीभिर्मदनातुरा । पराभिः पुरुषाकारस्थितभिर्द्विजसत्तम
80.52
कुजज्ञगुरुशुक्रैश्च बलिभिः समभे तनौ । कुशलाऽनेकशास्त्रेषु सा नारी ब्रह्मवादिनी
80.53
क्रूरे सप्तमगे कश्चित् खेचरो नवमे यदि । सा प्रव्रज्यां तदाप्नोति पापखेचरसंभवाम्
80.54
विलग्नादष्टमे सौम्ये पापदृग्योगवर्जिते । मृत्युः प्रागेव विज्ञेयस्तस्य मृत्युर्न
80.55
अष्टमे शुभपापौ चेत् स्यातां तुल्यबलौ यदा । सह भर्त्रा तदा मृत्युं प्राप्त्वा स्व
← प्रव्रज्यायोगाध्यायः
अंगलक्षणफलाध्यायः →