← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

अंगलक्षणफलाध्यायः

85 verses · Maharshi Parashara

81.1बहुधा भव्ता प्रोक्तं जन्मकालात् शुभाशुभम् । श्रोतुमिच्छामि नारोणामङ्गचिह्नैः फल 81.2शृणु विप्र प्रवक्ष्यामि नारीणामङ्गलक्षणम् । फलं यथाऽह पार्वत्यै भगवान् शङ्करस्तथ 81.3स्निग्धं पादतलं स्त्रीणां मृदुलं मांसलं समम् । रक्तमस्वेदमुष्णं च बहुभोगप्रदायकम 81.4विवर्णं पुरुषं रूक्षं खण्डितं विषमं तथा । सूर्पाकारञ्च शुष्कं च दुःखदौर्भाग्यदाय 81.5शङ्खस्वस्तिकचक्राऽब्जध्वजमीनाऽतपत्रवत् । यस्याः पादतले चिह्नं सा ज्ञेया क्षितिपा 81.6भवेत् समस्तभोगाय तथा दीर्घोर्ध्वरेखिका । रेखाः सर्पाऽखुकाकाभा दुःखदारिद्र्यसूचिक 81.7रक्ताः समुन्नताः स्निग्धा वृत्ताः पादनखाः शुभाः । स्फुटिताः कृष्णवर्णाश्च ज्ञेया 81.8उन्नतो मांसलोऽङ्गुष्ठो वर्तुलोऽतुलभोगदः । वक्रो ह्रस्वश्च चिपिटो दुःखदारिद्र्यसू 81.9मृदवोऽङ्गुलयः शस्ता घना वृत्ताश्च मांसलाः । दीर्घाङ्गुलीभिः कुलटा कृशाभिर्धनवर्ज 81.10भवेद्ध्रस्वाभिरल्पायुर्विषमाभिश्च कुट्टनी । चिपटाभिर्भवेद्दासी विरलाभश्च निर्धना 81.11यस्य मिथः समारूढाः पादाङ्गुल्यो भवन्ति हि । बहुनपि पतीन् हित्वा परप्रेष्या च सा 81.12यस्या पथि चलन्त्याश्च रजो भूमेः समुच्छलेत् । सा पांसुली बह्वेन्नारी कुलत्रयविघात 81.13यस्याः कनिष्ठिका भूमिं गच्छन्त्या न परिस्पृशेत् । सा हि पूर्वपतिं हत्वा द्वितीयं 81.14मध्यमाऽनामिका चापि यस्या भूमिं न संस्पृशेत् । पतिहीना च सा नारी विज्ञेया द्विजसत 81.15प्रदेशिनी भवेद्यस्या अंगुष्ठाद्व्यतिरेकिणी । कन्यैव दूषिता सा स्यात् कुलटा च तदग 81.16उन्नतं पादपृष्ठं चेत् तदा राज्ञी भवेद्ध्रुवम् । अस्वेदमशिराढ्यञ्च मांसलं मसृणं म 81.17अन्यथा धनहीना च शिरालं चेत्तदाऽध्वगा । रोमाढ्यं चेद् भवेद्दासी निर्मासं यदि दुर् 81.18सुभगा समपार्ष्णिः स्त्री पृथुपार्ष्णिश्च दुर्भगा । कुलटोन्नतपार्ष्णिश्च दीर्घपार 81.19अरोमे च समे स्निग्धे यस्या जंघ सुवर्तुले । विसिरे च सुरम्ये सा राजपत्नी भवेद्ध्र 81.20वर्तुलं मांसलं स्निग्धं जानुयुग्मं शुभप्रदम् । निर्मासं स्वैरचारिण्या निर्धनायाश 81.21घनौ करिकराकारौ वर्तुलौ मृदुलौ शुभौ । यस्या ऊरू शिराहीनौ सा राज्ञी भवति ध्रुवम् 81.22चिपिटौ रोमशौ यस्या विधवा दुर्भगा च सा । चतुर्भिर्विशतियुतैरंगुलैश्च समा कटिः । स 81.23विनता चिपटा दीर्घा निर्मांसा संकटा कटिः । ह्रस्वा रोमैः समायुक्ता दुःखवैधव्यसूचि 81.24नतिम्बः शुभदः स्त्रीणामुन्नतो मांसलः पृथुः । सुखसौभाग्यदः प्रोक्तो ज्ञेयो दुःखप् 81.25स्त्रीणां गूढमणिस्तुङ्गो रक्ताभो मृदुरोमकः । भगः कमठपृष्ठाभः शुभोऽश्वत्थगलाकृतिः 81.26कुरङ्गखुररूपो यश्चुल्लिकोदरसंनिभिः । रोमशो दृश्यनासश्च विवृत्तास्योऽशुभप्रदः 81.27वामोन्नतस्तु कन्याजः पुत्रोजो दक्षिणोन्नतः । शङ्खावर्तो भगो यस्याः सा विगर्भाऽङ् 81.28मृद्वी वस्तिः प्रशस्ता स्याद् विपुलाल्पसमुन्नता । रोमाढ्या च शिराला च रेखाङ्का न 81.29गम्भीरा दक्षिणावर्ता नाभिः सर्वसुखप्रदा । व्यक्तग्रन्थिः समुत्ताना वामावर्ता न श 81.30पृथुकुक्षिः शुभा नारी सूते सा च बहून् सुतान् । भूपतिं जनयेत् पुत्रं मण्डूकाभेन क 81.31उन्नतेन वलीभाजा सावर्तेन च कुक्षिणा । वन्ध्या संन्यासिनी दासी जायते क्रमदोऽबला 81.32समे समांशे मृदुले पार्श्वे स्त्रीणां शुभप्रदे । उन्नते रोमसंयुक्ते शिराले चाऽशुभ 81.33निर्लोभं हृदयं स्त्रीणां समे सर्वसुखप्रदम् । विस्तीर्णं च सलोमं च विज्ञेयमशुभप्र 81.34समौ पीनौ घनौ वृत्तौ दृढौ शस्तौ पयोध्रौ । स्थूलाग्रौ विरलौ शुष्कौ स्त्रीणां नैव श 81.35दक्षिणोन्नतवक्षोजा नारी पुत्रवती मता । वामोन्नतस्तनी कन्याप्रजा प्रोक्ता पुरातनै 81.36नारीणां चूचुके शस्ते श्यामवर्णे सुवर्तुले । अन्तर्भग्ने च दीर्घे च कृशे चापि न श 81.37स्त्रीणां स्कन्धौ समौ पुष्टौ गूढसन्धी शुभप्रदौ । रोमाढ्यावुन्नतौ वक्रौ निर्मासाव 81.38सुसूक्ष्मरोमे नारीणां पुष्टे स्निग्धे शुभप्रदे । कक्षे शिराले गम्भीरे न शुभे स्व 81.39गूढास्थी कोमलग्रन्थी विशिरौ च बिरोमकौ । सरलौ सुवर्तुलौ चैव भुजौ शस्तौ मृगीदृशाम् 81.40निर्मांसौ स्थूलरोमाणौ ह्रस्वौ चैव शिराततौ । वक्रौ भुजौ च नारीणां क्लेशाय परिकीर् 81.41सरोजमुकुलाकारो करांगुष्ठौ मृगीदृशाम् । सर्वसौख्यप्रदौ प्रोक्तौ कृशौ वक्रौ च दुःख 81.42स्त्रीणां करतलं रक्तं मध्योन्नतमरन्ध्रकम् । मृदुलं चाल्परेखाढ्यं ज्ञेयं सर्वसुखप 81.43विधवा बहुरेखेण रेखाहीनेन निर्धने । भिक्षुका च शिरोढ्येन नारी करतलेन हि 81.44पाणिपृष्ठं शुभं स्त्रीणां पुष्टं मृदुविरोमकम् । शिरालं रोमशं निम्नां दुखदारिद्र् 81.45यस्याः करतले रेखा व्यक्ता रक्ता च वर्तुला । स्निग्धा पूर्णा च गम्भीरा सा सर्वसुख 81.46मत्स्येन सुभगा ज्ञेया स्वस्तिकेन धनान्विता । राजपत्नी सरोजेन जननी पृथिवीपतेः 81.47सार्वभौमप्रिया पाणौ नद्यावर्ते प्रदक्षिणे । शङ्खातपत्रकमठैर्भूपस्य जननी भवेत् 81.48रेखा तुलाकृतिः पाणौ यस्याः सा हि बणिग्वधूः । गजवाजिवृषाभा वा करे वामे मृगीदृशः 81.49रेखा प्रसादवज्राभा सूते तीर्थकरं सुतम् । कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा 81.50चामराङ्कुशचापैश्च राजपत्नी पतिव्रता । त्रिशूलाऽसिगदाशक्तिदुन्दुभ्याकृतिरेखया 81.51अङ्गुष्ठमूलान्निर्गत्या रेखा याति कनिष्ठिकाम् । सा नारि पतिहन्त्री स्याद् दूरतस् 81.52काकमण्डूकजम्बूकवृकवृश्चिकभोगिनः । रासभोष्ट्रविडालाभा रेखा दुःखप्रदाः स्त्रियाः 81.53मृदुलाश्च सुपर्वाणो दीर्घा वृत्ताः क्रमात् कृशाः । अरोमकाः शुभाः स्त्रीणामङ्गुल् 81.54अतिह्रस्वाः कृशा वक्रा विरला रोमसंयुताः । बहुपर्वयुता वाऽपि पर्वहीनाश्च दुःखदाः 81.55रक्तवर्णा नखास्तुङ्गा सशिखाश्च शुभप्रदाः । निम्ना विवर्णा पीता वा पुष्पिता दुःखद 81.56अन्तर्निमग्नवंशास्थि पृष्ठं स्यान्मांसलं शुभम् । सशिरं रोमयुक्तं वा वक्रं चाऽशुभ 81.57स्त्रीणां कण्थस्त्रिरेखाङ्कस्त्वव्यक्तास्थिश्च वर्तुलः । मांसलो मृदुलैश्चैव प्रश 81.58स्थूलग्रीवः च विधवा वक्रग्रीव च किङ्करी । बन्ध्या च चिपिटग्रीवा लघुग्रीवा च निःस 81.59श्रेष्ठा कृकाटिका ऋज्वी समांसा च समुन्नता । शुष्का शिराला रोमाढ्या विशाला कुटिला 81.60अरुणं मृदुलं पुष्टं प्रशस्तं चिबुकं स्त्रियाः । आयतं रोमशं स्थूलं द्विधाभक्तमशोभ 81.61कपोलावुन्नतौ स्त्रीणां पीनौ वृत्तौ शुभप्रदौ । रोमशौ पुरुषौ निम्नौ निर्मांसौ चाऽश 81.62स्त्रीणां मुखं समं पृष्ठं वर्तुलं च सुगन्धिमत् । सुस्निग्धं च मनोहारि सुखसौभाग्य 81.63वर्तुलः पाटलः स्निग्धारेखाभूषितमध्यभूः । मनोहरोऽधरो यस्याः सा भवेद् राजवल्लभा 81.64निर्मांसः स्फुटितो लम्बो रूक्षो वा श्यामवर्णकः । स्थूलोऽधरश्च नारीणां वैधव्यक्ले 81.65रक्तोत्पलनिभः स्निग्ध उत्तरोष्ठो मृगीदृशाम् । किञ्चिन्मध्यौन्नतोऽरोमा सुखसौभाग्य 81.66स्निग्धागुग्धनिभाः स्त्रीणां द्वात्रिंशद्दशनाः शुभाः । अधस्तादुपरिष्ठाच्च समाः स 81.67अधस्तादधिकाः पीताः श्यामा दीर्घा द्विपङ्क्तयः । विकटा विरलाश्चापि दशना न शुभाः स 81.68शोणा मृद्वी शुभा जिह्वा स्त्रीणामतुलभोगदा । दुःखदा मध्यसङ्कीर्णा पुरोभागेऽतिविस् 81.69सितया मरणं तोये श्यामया कलहप्रिया । मांसलया धनैर्हीना लम्बयाऽभक्ष्यभक्षिणी 81.70प्रमादसहिता नारी जिह्वया च विशालया । सुस्निग्धं पाटलं स्त्रीणां कोमलं तालुशोभनम् 81.71श्वेते तालुनि वैधव्यं पीते प्रव्रजिता भवेत् । कृष्णे सन्ततिहीना स्याद्रूक्षे भूर 81.72अलक्षितरदं स्त्रीणां किञ्चित्फुल्लकपोलकम् । स्मितं शुभप्रदं ज्ञेयमन्यथा त्वशुभप् 81.73समवृत्तपुटा नासा लघुच्छिद्रा शुभप्रदा । स्थूलाग्रा मध्यनिम्ना वा न प्रशस्ता मृगी 81.74रक्ताग्राऽकुञ्चिताग्रा वा नासा वैधव्यकारिणी । दासी सा चिपिटा यस्या ह्रस्वा दीर्घ 81.75शुभे विलोचने स्त्रीणां रक्तान्ते कृष्णतारके । गोक्षीरवर्णे विशदे सुस्निग्धे कृष् 81.76उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् । रमणी मधुपिङ्गाक्षी सुखसौभाग्यभाग 81.77पुंश्चली वामकाणाक्षी वन्ध्या दक्षिणकाणिका । पारावताक्षी दुःशीला गजाक्षी नैव शोभन 81.78मृदुभिः पक्ष्मभिः कृष्णैर्घनैः सूक्ष्मैः सुभाग्ययुक् । विरलैः कपिलैः स्थूलैर्भाम 81.79वर्तुलौ कार्मुकाकारौ स्निग्धे कृष्णे असंहते । सुभ्रुवौ मृदुरोमाणौ सुभ्रुवां सुखक 81.80कर्णौ दीर्घौ शुभावर्तौ सुतसौभाग्यदायकौ । शष्कुलीरहितौ निन्द्यौ शिरालौ कुटिलौ कृश 81.81शिराविरहितो भालः निर्लोमाऽर्धशशिप्रभः । अनिम्नस्त्र्यङ्गुलस्त्रोणां सुतसौभाग्यसौ 81.82स्पष्टस्वस्तिकचिह्नश्च भालो राज्यप्रदः स्त्रियाः । प्रलम्बो रोमशश्चैव प्रांशुश्च 81.83उन्नतो गजकुम्भाभो वृत्तो मूर्धा शुभः स्त्रियाः । स्थूलो गीर्घोऽथवा वक्रो दुःखदौर 81.84कुन्तलाः कोमलाः कृष्णाः सूक्ष्मा दीर्घश्च शोभना । पिङ्गलाः पुरुषा रूक्षा विरला ल 81.85पिङ्गला गौरवर्णाया श्यामायाः श्यामलाः शुभाः । नारीलक्षणतश्चैवं नराणामपि चिन्तयेत