← Brahma Sutras
Brahma Sutras

प्रथमोऽध्यायः (समन्वयाध्यायः)

134 sutras · Badarayana

1.1.1अथातो ब्रह्मजिज्ञासा 1.1.2जन्माद्यस्य यतः 1.1.3शास्त्रयोनित्वात् 1.1.4तत्तु समन्वयात् 1.1.5ईक्षतेर्नाशब्दम् 1.1.6गौणश्चेन्नात्मशब्दात् 1.1.7तन्निष्ठस्य मोक्षोपदेशात् 1.1.8हेयत्वावचनाच्च 1.1.9स्वाप्ययात् 1.1.10गतिसामान्यात् 1.1.11श्रुतत्वाच्च 1.1.12आनन्दमयोऽभ्यासात् 1.1.13विकारशब्दान्नेति चेन्न प्राचुर्यात् 1.1.14तद्धेतुव्यपदेशाच्च 1.1.15मान्त्रवर्णिकमेव च गीयते 1.1.16नेतरोऽनुपपत्तेः 1.1.17भेदव्यपदेशाच्च 1.1.18कामाच्च नानुमानापेक्षा 1.1.19अस्मिन्नस्य च तद्योगं शास्ति 1.1.20अन्तस्तद्धर्मोपदेशात् 1.1.21भेदव्यपदेशाच्चान्यः 1.1.22आकाशस्तल्लिङ्गात् 1.1.23अत एव प्राणः 1.1.24ज्योतिश्चरणाभिधानात् 1.1.25छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् 1.1.26भूतादिपादव्यपदेशोपपत्तेश्चैवम् 1.1.27उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् 1.1.28प्राणस्तथानुगमात् 1.1.29न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् 1.1.30शास्त्रदृष्ट्या तूपदेशो वामदेववत् 1.1.31जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् 1.2.1सर्वत्र प्रसिद्धोपदेशात् 1.2.2विवक्षितगुणोपपत्तेश्च 1.2.3अनुपपत्तेस्तु न शारीरः 1.2.4कर्मकर्तृव्यपदेशाच्च 1.2.5शब्दविशेषात् 1.2.6स्मृतेश्च 1.2.7अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च 1.2.8संभोगप्राप्तिरिति चेन्न वैशेष्यात् 1.2.9अत्ता चराचरग्रहणात् 1.2.10प्रकरणाच्च 1.2.11गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् 1.2.12विशेषणाच्च 1.2.13अन्तर उपपत्तेः 1.2.14स्थानादिव्यपदेशाच्च 1.2.15सुखविशिष्टाभिधानादेव च 1.2.16श्रुतोपनिषत्कगत्यभिधानाच्च 1.2.17अनवस्थितेरसंभवाच्च नेतरः 1.2.18अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् 1.2.19न च स्मार्तमतद्धर्माभिलापात् 1.2.20शरीरश्चोभयेऽपि हि भेदेनैनमधीयते 1.2.21अदृश्यत्वादिगुणको धर्मोक्तेः 1.2.22विशेषणभेदव्यपदेशाभ्यां च नेतरौ 1.2.23रूपोपन्यासाच्च 1.2.24वैश्वानरः साधारणशब्दविशेषात् 1.2.25स्मर्यमाणमनुमानं स्यादिति 1.2.26शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैन 1.2.27अत एव न देवता भूतं च 1.2.28साक्षादप्यविरोधं जैमिनिः 1.2.29अभिव्यक्तेरित्याश्मरथ्यः 1.2.30अनुस्मृतेर्बादरिः 1.2.31संपत्तेरिति जैमिनिस्तथा हि दर्शयति 1.2.32आमनन्ति चैनमस्मिन् 1.3.1द्युभ्वाद्यायतनं स्वशब्दात् 1.3.2मुक्तोपसृप्यव्यपदेशाच्च 1.3.3नानुमानमतच्छब्दात् 1.3.4प्राणभृच्च 1.3.5भेदव्यपदेशात् 1.3.6प्रकरणात् 1.3.7स्थित्यदनाभ्यां च 1.3.8भूमा संप्रसादादध्युपदेशात् 1.3.9धर्मोपपत्तेश्च 1.3.10अक्षरमम्बरान्तधृतेः 1.3.11सा च प्रशासनात् 1.3.12अन्यभावव्यावृत्तेश्च 1.3.13ईक्षतिकर्मव्यपदेशात्सः 1.3.14दहर उत्तरेभ्यः 1.3.15गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च 1.3.16धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः 1.3.17प्रसिद्धेश्च 1.3.18इतरपरामर्शात्स इति चेन्नासंभवात् 1.3.19उत्तराच्चेदाविर्भूतस्वरूपस्तु 1.3.20अन्यार्थश्च परामर्शः 1.3.21अल्पश्रुतेरिति चेत्तदुक्तम् 1.3.22अनुकृतेस्तस्य च 1.3.23अपि च स्मर्यते 1.3.24शब्दादेव प्रमितः 1.3.25हृद्यपेक्षया तु मनुष्याधिकारत्वात् 1.3.26तदुपर्यपि बादरायणः संभवात् 1.3.27विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् 1.3.28शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् 1.3.29अत एव च नित्यत्वम् 1.3.30समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च 1.3.31मध्वादिष्वसंभवादनधिकारं जैमिनिः 1.3.32ज्योतिषि भावाच्च 1.3.33भावं तु बादरायणोऽस्ति हि 1.3.34शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि 1.3.35क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् 1.3.36संस्कारपरामर्शात्तदभावाभिलापाच्च 1.3.37तदभावनिर्धारणे च प्रवृत्तेः 1.3.38श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च 1.3.39कम्पनात् 1.3.40ज्योतिर्दर्शनात् 1.3.41आकाशोऽर्थान्तरत्वादिव्यपदेशात् 1.3.42सुषुप्त्युत्क्रान्त्योर्भेदेन 1.3.43पत्यादिशब्देभ्यः 1.4.1आनुमानिकमप्येकेषामिति चेन्न शरीर-रूपक-विन्यस्त-गृहीतेर्दर्शयति च 1.4.2सूक्ष्मं तु तदर्हत्वात् 1.4.3तदधीनत्वादर्थवत् 1.4.4ज्ञेयत्वावचनाच्च 1.4.5वदतीति चेन्न प्राज्ञो हि प्रकरणात् 1.4.6त्रयाणामेव चैवमुपन्यासः प्रश्नश्च 1.4.7महद्वच्च 1.4.8चमसवदविशेषात् 1.4.9ज्योतिरुपक्रमा तु तथा ह्यधीयत एके 1.4.10कल्पनोपदेशाच्च मध्वादिवदविरोधः 1.4.11न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च 1.4.12प्राणादयो वाक्यशेषात् 1.4.13ज्योतिषैकेषामसत्यन्ने 1.4.14कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः 1.4.15समाकर्षात् 1.4.16जगद्वाचित्वात् 1.4.17जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् 1.4.18अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके 1.4.19वाक्यान्वयात् 1.4.20प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः 1.4.21उत्क्रमिष्यत एवं भावादित्यौडुलोमिः 1.4.22अवस्थितेरिति काशकृत्स्नः 1.4.23प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् 1.4.24अभिध्योपदेशाच्च 1.4.25साक्षाच्चोभयाम्नानात् 1.4.26आत्मकृतेः परिणामात् 1.4.27योनिश्च हि गीयते 1.4.28एतेन सर्वे व्याख्याता व्याख्याताः