← Brahma Sutras
Brahma Sutras

द्वितीयोऽध्यायः (अविरोधाध्यायः)

157 sutras · Badarayana

2.1.1स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् 2.1.2इतरेषां चानुपलब्धेः 2.1.3एतेन योगः प्रत्युक्तः 2.1.4न विलक्षणत्वादस्य तथात्वं च शब्दात् 2.1.5अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् 2.1.6दृश्यते तु 2.1.7असदिति चेन्न प्रतिषेधमात्रत्वात् 2.1.8अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् 2.1.9न तु दृष्टान्तभावात् 2.1.10स्वपक्षदोषाच्च 2.1.11तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः 2.1.12एतेन शिष्टापरिग्रहा अपि व्याख्याताः 2.1.13भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् 2.1.14तदनन्यत्वमारम्भणशब्दादिभ्यः 2.1.15भावे चोपलब्धेः 2.1.16सत्त्वाच्चापरस्य 2.1.17असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् 2.1.18युक्तेः शब्दान्तराच्च 2.1.19पटवच्च 2.1.20यथा च प्राणादिः 2.1.21इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः 2.1.22अधिकं तु भेदनिर्देशात् 2.1.23अश्मादिवच्च तदनुपपत्तिः 2.1.24उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि 2.1.25देवादिवदपि लोके 2.1.26कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा 2.1.27श्रुतेस्तु शब्दमूलत्वात् 2.1.28आत्मनि चैवं विचित्राश्च हि 2.1.29स्वपक्षदोषाच्च 2.1.30सर्वोपेता च तद्दर्शनात् 2.1.31विकरणत्वान्नेति चेत्तदुक्तम् 2.1.32न प्रयोजनवत्त्वात् 2.1.33लोकवत्तु लीलाकैवल्यम् 2.1.34वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति 2.1.35न कर्माविभागादिति चेन्नानादित्वाद् 2.1.36उपपद्यते चाप्युपलभ्यते च 2.1.37सर्वधर्मोपपत्तेश्च 2.2.1रचनानुपपत्तेश्च नानुमानं 2.2.2प्रवृत्तेश्च 2.2.3पयोऽम्बुवच्चेत्तत्रापि 2.2.4व्यतिरेकानवस्थितेश्चानपेक्षत्वात् 2.2.5अन्यत्राभावाच्च न तृणादिवत् 2.2.6अभ्युपगमेऽप्यर्थाभावात् 2.2.7पुरुषाश्मवदिति चेत्तथापि 2.2.8अङ्गित्वानुपपत्तेश्च 2.2.9अन्यथानुमितौ च ज्ञशक्तिवियोगात् 2.2.10विप्रतिषेधाच्चासमञ्जसम् 2.2.11महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् 2.2.12उभयथापि न कर्मातस्तदभावः 2.2.13समवायाभ्युपगमाच्च साम्यादनवस्थितेः 2.2.14नित्यमेव च भावात् 2.2.15रूपादिमत्त्वाच्च विपर्ययो दर्शनात् 2.2.16उभयथा च दोषात् 2.2.17अपरिग्रहाच्चात्यन्तमनपेक्षा 2.2.18समुदाय उभयहेतुकेऽपि तदप्राप्तिः 2.2.19इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् 2.2.20उत्तरोत्पादे च पूर्वनिरोधात् 2.2.21असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा 2.2.22प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् 2.2.23उभयथा च दोषात् 2.2.24आकाशे चाविशेषात् 2.2.25अनुस्मृतेश्च 2.2.26नासतोऽदृष्टत्वात् 2.2.27उदासीनानामपि चैवं सिद्धिः 2.2.28नाभाव उपलब्धेः 2.2.29वैधर्म्याच्च न स्वप्नादिवत् 2.2.30न भावोऽनुपलब्धेः 2.2.31क्षणिकत्वाच्च 2.2.32सर्वथानुपपत्तेश्च 2.2.33नैकस्मिन्नसंभवात् 2.2.34एवं चात्माकार्त्स्न्यम् 2.2.35न च पर्यायादप्यविरोधो विकारादिभ्यः 2.2.36अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः 2.2.37पत्युरसामञ्जस्यात् 2.2.38संबन्धानुपपत्तेश्च 2.2.39अधिष्ठानानुपपत्तेश्च 2.2.40करणवच्चेन्न भोगादिभ्यः 2.2.41अन्तवत्त्वमसर्वज्ञता वा 2.2.42उत्पत्त्यसंभवात् 2.2.43न च कर्तुः करणम् 2.2.44विज्ञानादिभावे वा तदप्रतिषेधः 2.2.45विप्रतिषेधाच्च 2.3.1न वियदश्रुतेः 2.3.2अस्ति तु 2.3.3गौण्यसंभवात् 2.3.4शब्दाच्च 2.3.5स्याच्चैकस्य ब्रह्मशब्दवत् 2.3.6प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः 2.3.7यावद्विकारं तु विभागो लोकवत् 2.3.8एतेन मातरिश्वा व्याख्यातः 2.3.9असंभवस्तु सतोऽनुपपत्तेः 2.3.10तेजोऽतस्तथा ह्याह 2.3.11आपः 2.3.12पृथिव्यधिकाररूपशब्दान्तरेभ्यः 2.3.13तदभिध्यानादेव तु तल्लिङ्गात्सः 2.3.14विपर्ययेण तु क्रमोऽत उपपद्यते च 2.3.15अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् 2.3.16चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् 2.3.17नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः 2.3.18ज्ञोऽत एव 2.3.19उत्क्रान्तिगत्यागतीनाम् 2.3.20स्वात्मना चोत्तरयोः 2.3.21नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् 2.3.22स्वशब्दोन्मानाभ्यां च 2.3.23अविरोधश्चन्दनवत् 2.3.24अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि 2.3.25गुणाद्वा लोकवत् 2.3.26व्यतिरेको गन्धवत् 2.3.27तथा च दर्शयति 2.3.28पृथगुपदेशात् 2.3.29तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् 2.3.30यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् 2.3.31पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् 2.3.32नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा 2.3.33कर्ता शास्त्रार्थवत्त्वात् 2.3.34विहारोपदेशात् 2.3.35उपादानात् 2.3.36व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः 2.3.37उपलब्धिवदनियमः 2.3.38शक्तिविपर्ययात् 2.3.39समाध्यभावाच्च 2.3.40यथा च तक्षोभयथा 2.3.41परात्तु तच्छ्रुतेः 2.3.42कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः 2.3.43अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके 2.3.44मन्त्रवर्णाच्च 2.3.45अपि च स्मर्यते 2.3.46प्रकाशादिवन्नैवं परः 2.3.47स्मरन्ति च 2.3.48अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् 2.3.49असन्ततेश्चाव्यतिकरः 2.3.50आभास एव च 2.3.51अदृष्टानियमात् 2.3.52अभिसन्ध्यादिष्वपि चैवम् 2.3.53प्रदेशादिति चेन्नान्तर्भावात् 2.4.1तथा प्राणाः 2.4.2गौण्यसंभवात् 2.4.3तत्प्राक्श्रुतेश्च 2.4.4तत्पूर्वकत्वाद्वाचः 2.4.5सप्त गतेर्विशेषितत्वाच्च 2.4.6हस्तादयस्तु स्थितेऽतो नैवम् 2.4.7अणवश्च 2.4.8श्रेष्ठश्च 2.4.9न वायुक्रिये पृथगुपदेशात् 2.4.10चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः 2.4.11अकरणत्वाच्च न दोषस्तथा हि दर्शयति 2.4.12पञ्चवृत्तिर्मनोवत्व्यपदिश्यते 2.4.13अणुश्च 2.4.14ज्योतिराद्यधिष्ठानं तु तदामननात् 2.4.15प्राणवता शब्दात् 2.4.16तस्य च नित्यत्वात् 2.4.17त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् 2.4.18भेदश्रुतेः 2.4.19वैलक्षण्याच्च 2.4.20संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् 2.4.21मांसादि भौमं यथाशब्दमितरयोश्च 2.4.22वैशेष्यात्तु तद्वादस्तद्वादः