← Chamatkara Chintamani
सूर्यफलम्

Verse 1.1

लसत् पीतपट्टाम्बरं कृष्णचन्द्रं मुदाराधयाऽलिङ्गतं विद्युतेव । धनं सम्प्रणभ्यात्र नारायणाख्यः चमत्कारचिन्तामणिं सम्प्रवक्ष्ये क्वणत् किङ्किणीजाल कोलाहलाढ्यं लसत् पीतवासोवसानं चलन्तम् । यशोदाण्गणे योगिनामप्यगम्यं भजेऽहं मुकुन्दं धनश्यामवर्णम् चतुर्लक्षज्योतिर्महाम्बोधिमुच्चैः प्रमध्यैव विद्वद्जनानन्दहेतोः । परं युक्तिरम्यं सुसंक्षिप्तशब्दं भुजण्गप्रयातैः प्रबन्धं करोमि न चेत् खेचराः स्थापिताः किं भचक्रे न चेत् स्पष्टगाः स्थापिताः किं ग्रहेन्द्रैः । अभावोदिता स्पष्टाकोऽत्रहेतुः फलैरेवपूर्वं ब्रुवे तानि तस्मात्
तनुस्थो रविः तुण्गयष्टिं विधत्ते मनः सन्तपेत् दारदायादवर्गात् । वपुः पीड्यते वातपित्तेन नित्यंस वै प्रयटन् ह्रासवृद्धिं प्रयाति

A study reading of a classical Jyotish rule — it states what the text teaches. A chart is judged on many factors together, never on one verse.

Get your free birth chart → Sign in to ask how this verse applies to your own chart.

Go deeper