← Gheranda Samhita
Gheranda Samhita

षट्कर्मशोधनं नाम प्रथमोपदेशः

60 verses · Gheranda

1.1एकदा चण्डकापालिर्गत्वा घेरण्डकुट्टिरम् । प्रणम्य विनयाद्भक्त्या घेरण्डं परिपृच्छ 1.2घटस्थयोगं योगेश तत्त्वज्ञानस्य कारणम् । इदानीं श्रोतुमिच्छामि योगेश्वर वद प्रभो 1.3साधु साधु महाबाहो यन्मां त्वं परिपृच्छसि । कथयामि हि ते वत्स सावधानावधारय 1.4नास्ति मायासमः पाशो नास्ति योगात्परं बलम् । नास्ति ज्ञानात्परो बन्धुर्नाहङ्कारात 1.5अभ्यासात्कादिवर्णानां यथा शास्त्राणि बोधयेत् । तथा योगं समासाद्य तत्त्वज्ञानं च 1.6सुकृतैर्दुष्कृतैः कार्यैर्जायते प्राणिनां घटः । घटादुत्पद्यते कर्म घटीयन्त्रं यथ 1.7ऊर्ध्वाधो भ्रमते यद्वद्घटीयन्त्रं गवां वशात् । तद्वत्कर्मवशाज्जीवो भ्रमते जन्ममृ 1.8आमं कुम्भमिवाम्भस्थो जीर्यमाणः सदा घटः । योगानलेन सन्दह्य घटशुद्धिं समाचरेत् 1.9शोधनं दृढता चैव स्थैर्यं धैर्यं च लाघवम् । प्रत्यक्षं च निर्लिप्तं च घटस्थसप्तसा 1.10षट्कर्मणा शोधनं च आसनेन भवेद्दृढम् । मुद्रया स्थिरता चैव प्रत्याहारेण धीरता 1.11प्राणायामाल्लाघवं च ध्यानात्प्रत्यक्षमात्मनः । समाधिना निर्लिप्तं च मुक्तिरेव न 1.12धौतिर्बस्तिस्तथा नेतिर्नौलिकी त्राटकं तथा । कपालभातिश्चैतानि षट्कर्माणि समाचरेत् 1.13अन्तर्धौतिर्दन्तधौतिर्हृद्धौतिर्मूलशोधनम् । धौतिं चतुर्विधां कृत्वा घटं कुर्वन्त 1.14अथान्तर्धौतिः । वातसारं वारिसारं वह्निसारं बहिष्कृतम् । घटस्य निर्मलार्थाय ह्यन् 1.15काकचञ्चूवदास्येन पिबेद्वायुं शनैः शनैः । चालयेदुदरं पश्चाद्वर्त्मना रेचयेच्छनैः 1.16वातसारं परं गोप्यं देहनिर्मलकारणम् । सर्वरोगक्षयकरं देहानलविवर्धकम् 1.17आकण्ठं पूरयेद्वारि वक्त्रेण च पिबेच्छनैः । चालयेदुदरेणैव चोदराद्रेचयेदधः 1.18वारिसारं परं गोप्यं देहनिर्मलकारकम् । साधयेद्यः प्रयत्नेन देवदेहं प्रपद्यते 1.19वारिसारं परां धौतिं साधयेद्यः प्रयत्नतः । मलदेहं शोधयित्वा देवदेहं प्रपद्यते 1.20नाभिग्रन्थिं मेरुपृष्ठे शतवारं च कारयेत् । उदरामयजं त्यक्त्वा जाठराग्निं विवर्धय 1.21अग्निसारमियं धौतिर्योगिनां योगसिद्धिदा । एषा धौतिः परा गोप्या देवानामपि दुर्लभा 1.22काकीमुद्रां साधयित्वा पूरयेदुदरं मरुत् । धारयेदर्धयामं तु चालयेदर्धवर्त्मना । एष 1.23नाभिदघ्ने जले स्थित्वा शक्तिनाडीं विसर्जयेत् । कराभ्यां क्षालयेन्नाडीं यावन्मलवि 1.24इदं प्रक्षालनं गोप्यं देवानामपि दुर्लभम् । केवलं धौतिमात्रेण देवदेहो भवेद्ध्रुवम 1.25बहिष्कृतधौतिप्रयोगः । यामार्धधारणाशक्तिं यावन्न साधयेन्नरः । बहिष्कृतं महद्धौतिस 1.26दन्तमूलं जिह्वामूलं रन्ध्रं च कर्णयुग्मयोः । कपालरन्ध्रं पञ्चैते दन्तधौतिं विधीय 1.27खादिरेण रसेनाथ मृत्तिकया च शुद्धया । मार्जयेद्दन्तमूलं च यावत्किल्बिषमाहरेत् 1.28दन्तमूलं परा धौतिर्योगिनां योगसाधने । नित्यं कुर्यात्प्रभाते च दन्तरक्षाय योगवित 1.29अथातः संप्रवक्ष्यामि जिह्वाशोधनकारणम् । जरामरणरोगादीन्नाशयेद्दीर्घलम्बिका 1.30तर्जनीमध्यमाऽनामा अङ्गुलित्रययोगतः । वेशयेद्गलमध्ये तु मार्जयेल्लम्बिकामूलम् । श 1.31मार्जयेन्नवनीतेन दोहयेच्च पुनः पुनः । तदग्रं लोहयन्त्रेण कर्षयित्वा शनैः शनैः 1.32नित्यं कुर्यात्प्रयत्नेन रवेरुदयकेऽस्तके । एवं कृते च नित्यं सा लम्बिका दीर्घतां 1.33तर्जन्यङ्गुल्यकाग्रेण मार्जयेत्कर्णरन्ध्रयोः । नित्यमभ्यासयोगेन नादान्तरं प्रकाश 1.34वृद्धाङ्गुष्ठेन दक्षेण मर्दयेद्भालरन्ध्रकम् । एवमभ्यासयोगेन कफदोषं निवारयेत् 1.35नाडी निर्मलतां याति दिव्यदृष्टिः प्रजायते । निद्रान्ते भोजनान्ते च दिवान्ते च दि 1.36हृद्धौतिं त्रिविधां कुर्याद्दण्डवमनवाससा 1.37रम्भादण्डं हरिद्दण्डं वेत्रदण्डं तथैव च । हृन्मध्ये चालयित्वा तु पुनः प्रत्याहरे 1.38कफपित्तं तथा क्लेदं रेचयेदूर्ध्ववर्त्मना । दण्डधौतिविधानेन हृद्रोगं नाशयेद्ध्रुव 1.39भोजनान्ते पिबेद्वारि चाऽऽकण्ठपूरितं सुधीः । ऊर्ध्वां दृष्टिं क्षणं कृत्वा तज्जलं 1.40एकोनविंशतिः हस्तः पञ्चविंशति वै तथा । चतुरङ्गुलविस्तारं सूक्ष्मवस्त्रं शनैर्ग्रस 1.41गुल्मज्वरप्लीहाकुष्ठकफपित्तं विनश्यति । आरोग्यं बलपुष्टिश्च भवेत्तस्य दिने दिने 1.42अपानक्रूरता तावद्यावन्मूलं न शोधयेत् । तस्मात्सर्वप्रयत्नेन मूलशोधनमाचरेत् 1.43पीतमूलस्य दण्डेन मध्यमाङ्गुलिनाऽपि वा । यत्नेन क्षालयेद्गुह्यं वारिणा च पुनः पुन 1.44वारयेत्कोष्ठकाठिन्यमामाजीर्णं निवारयेत् । कारणं कान्तिपुष्ठ्योश्च वह्निमण्डलदीपन 1.45जलबस्तिः शुष्कबस्तिर्बस्तिः स्याद्द्विविधा स्मृता । जलबस्तिं जले कुर्याच्छुष्कबस 1.46नाभिमघ्नजले पायुं न्यस्तवानुत्कटासनम् । आकुञ्चनं प्रसारं च जलबस्तिं समाचरेत् 1.47प्रमेहं च उदावर्तं क्रूरवायुं निवारयेत् । भवेत्स्वच्छन्ददेहश्च कामदेवसमो भवेत् 1.48बस्तिं पश्चिमोत्तानेन चालयित्वा शनैरधः । अश्विनीमुद्रया पायुमाकुञ्चयेत्प्रसारयेत 1.49एवमभ्यासयोगेन कोष्ठदोषो न विद्यते । विवर्धयेज्जाठराग्निमामवातं विनाशयेत् 1.50वितस्तिमानं सूक्ष्मसूत्रं नासानाले प्रवेशयेत् । मुखान्निर्गमयेत्पश्चात्प्रोच्यते 1.51साधनान्नेतिकार्यस्य खेचरीसिद्धिमाप्नुयात् । कफदोषा विनश्यन्ति दिव्यदृष्टिः प्रजा 1.52अमन्दवेगेन तुन्दं भ्रामयेदुभपार्श्वयोः । सर्वरोगान्निहन्तीह देहानलविवर्धनम् 1.53निमेषोन्मेषकं त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत् । यावदश्रूणि पतन्ति त्राटकं प 1.54एवमभ्यासयोगेन शाम्भवी जायते ध्रुवम् । नेत्ररोगा विनश्यन्ति दिव्यदृष्टिः प्रजायते 1.55वातक्रमव्युत्क्रमेण शीत्क्रमेण विशेषतः । भालभातिं त्रिधा कुर्यात्कफदोषं निवारयेत 1.56इडया पूरयेद्वायुं रेचयेत्पिङ्गलां पुनः । पिङ्गलया पूरयित्वा पुनश्चन्द्रेण रेचयेत 1.57पूरकं रेचकं कृत्वा वेगेन न तु धारयेत् । एवमभ्यासयोगेन कफदोषं निवारयेत् 1.58नासाभ्यां जलमाकृष्य पुनर्वक्त्रेण रेचयेत् । पायं पायं व्युत्क्रमेण श्लेष्मदोषं न 1.59शीत्कृत्य पीत्वा वक्त्रेण नासानलैर्विरेचयेत् । एवमभ्यासयोगेन कामदेवसमो भवेत् 1.60न जायते वार्द्धकं च ज्वरो नैव प्रजायते । भवेत्स्वच्छन्ददेहश्च कफदोषं निवारयेत्