← Gheranda Samhita
Gheranda Samhita

घटस्थयोगे द्वात्रिंशासनवर्णनम्

46 verses · Gheranda

2.1अभ्यासाद्यस्य देहेऽयं योगौपयिकतां व्रजेत् । मनश्च स्थिरतामेति प्रोच्यते तदिहाऽऽस 2.2आसनानि समस्तानि यावन्तो जीवजन्तवः । चतुरशीतिलक्षाणि शिवेन कथितानि च 2.3तेषां मध्ये विशिष्टानि षोडशोनं शतं कृतम् । तेषां मध्ये मर्त्यलोके द्वात्रिंशदासन 2.4सिद्धं पद्मं तथा भद्रं मुक्तं वज्रं च स्वस्तिकम् । सिंहं च गोमुखं वीरं धनुरासनमे 2.5मृतं गुप्तं तथा मात्स्यं मत्स्येन्द्रासनमेव च । गोरक्षं पश्चिमोत्तानमुत्कटं सङ्क 2.6मयूरं कुक्कुटं कूर्मं तथा चोत्तानकूर्मकम् । उत्तानमण्डूकं वृक्षं मण्डूकं गरुडं व 2.7शलभं मकरं चोष्ट्रं भुजङ्गं च योगासनम् । द्वात्रिंशदासनानि तु मर्त्यलोके हि सिद्ध 2.8योनिस्थानकमङ्घ्रिमूलघटितं सम्पीड्य गुल्फेतरं मेढ्रोपर्यथ संनिधाय चिबुकं कृत्वा ह 2.9वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना कृत्वा क 2.10गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितः । पादाङ्गुष्ठौ कराभ्यां च धृत्वा च पृष् 2.11जालन्धरं समासाद्य नासाग्रमवलोकयेत् । भद्रासनं भवेदेतत्सर्वव्याधिविनाशकम् 2.12पायुमूले वामगुल्फं दक्षगुल्फं तथोपरि । समकायशिरोग्रीवं मुक्तासनं तु सिद्धिदम् 2.13जङ्घाभ्यां वज्रवत्कृत्वा गुदपार्श्वे पदावुभौ । वज्रासनं भवेदेतद्योगिनां सिद्धिदा 2.14जानूर्वोरन्तरे कृत्वा योगी पादतले उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते 2.15गुल्फौ च वृषणस्याधो व्युत्क्रमेणोर्ध्वतां गतौ । चितिमूलौ भूमिसंस्थौ करौ च जानुनो 2.16व्यक्तवक्त्रो जलन्धरं च नासाग्रमवलोकयेत् । सिंहासनं भवेदेतत्सर्वव्याधिविनाशकम् 2.17पादौ च भूमौ संस्थाप्य पृष्ठपार्श्वे निवेशयेत् । स्थिरकायं समासाद्य गोमुखं गोमुखा 2.18एकपादमथैकस्मिन्विन्यसेदूरुसंस्थितम् । इतरस्मिंस्तथा पश्चाद्वीरासनमितीरितम् 2.19प्रसार्य पादौ भुवि दण्डरूपौ करौ च पृष्ठे धृतपादयुग्मम् । कृत्वा धनुस्तुल्यपरिवर् 2.20उत्तानं शववद्भूमौ शयानं तु शवासनम् । शवासनं श्रमहरं चित्तविश्रान्तिकारणम् 2.21जानूर्वोरन्तरे पादौ कृत्वा पादौ च गोपयेत् । पादोपरि च संस्थाप्य गुदं गुप्तासनं व 2.22मुक्तपद्मासनं कृत्वा उत्तानशयनं चरेत् । कूर्पराभ्यां शिरो वेष्ट्यं मत्स्यासनं तु 2.23उदरं पश्चिमाभासं कृत्वा तिष्ठति यत्नतः । नम्राङ्गं वामपादं हि दक्षजानूपरि न्यसेत 2.24तत्र याम्यं कूर्परं च याम्यकरे च वक्त्रकम् । भ्रुवोर्मध्ये गता दृष्टिः पीठं मात् 2.25प्रसार्य पादौ भुवि दण्डरूपौ संन्यस्तभालं चितियुग्ममध्ये । यत्नेन पादौ च धृतौ करा 2.26जानूर्वोरन्तरे पादौ उत्तानौ व्यक्तसंस्थितौ । गुल्फौ चाच्छाद्य हस्ताभ्यामुत्तानाभ 2.27कण्ठसङ्कोचनं कृत्वा नासाग्रमवलोकयेत् । गोरक्षासनमित्याहुर्योगिनां सिद्धिकारणम् 2.28अथोत्कटासनम् । अङ्गुष्ठाभ्यामवष्टभ्य धरां गुल्फौ च खे गतौ । तत्रोपरि गुदं न्यसेद 2.29वामपादचितेर्मूलं विन्यस्य धरणीतले । पाददण्डेन याम्येन वेष्टयेद्वामपादकम् । जानुय 2.30धरामवष्टभ्य करयोस्तलाभ्यां तत्कूर्परे स्थापितनाभिपार्श्वम् । उच्चासनो दण्डवदुत्थ 2.31बहुकदशनभुक्तं भस्म कुर्यादशेषं जनयति जठराग्निं जारयेत्कालकूटम् । हरति सकलरोगानाश 2.32पद्मासनं समासाद्य जानूर्वोरन्तरे करौ । कूर्पराभ्यां समासीनो उच्चस्थः कुक्कुटासनम 2.33गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ । ऋजुकायशिरोग्रीवं कूर्मासनमितीरितम् 2.34अथोत्तनकूर्मासनम् । कुक्कुटासनबन्धस्थं कराभ्यां धृतकन्धरम् । पीठं कूर्मवदुत्तानम 2.35पादतलौ पृष्ठदेशे अङ्गुष्ठे द्वे च संस्पृशेत् । जानुयुग्मं पुरस्कृत्य साधयेन्मण्ड 2.36अथोत्तनमण्डूकासनम् । मण्डूकासनमध्यस्थं कूर्पराभ्यां धृतं शिरः । एतद्भेकवदुत्तानम 2.37वामोरुमूलदेशे च याम्यं पादं निधाय तु । तिष्ठेत्तु वृक्षवद्भूमौ वृक्षासनमिदं विदु 2.38जङ्घोरुभ्यां धरां पीड्य स्थिरकायो द्विजानुना । जानूपरि करयुग्मं गरुडासनमुच्यते 2.39याम्यगुल्फे पायुमूलं वामभागे पदेतरम् । विपरीतं स्पृशेद्भूमिं वृषासनमिदं भवेत् 2.40अध्यास्य शेते करयुग्मं वक्षे भूमिमवष्टभ्य करयोस्तलाभ्याम् । पादौ च शून्ये च वितस 2.41अध्यास्य शेते हृदयं निधाय भूमौ च पादौ च प्रसार्यमाणौ । शिरश्च धृत्वा करदण्डयुग्म 2.42अथोष्ट्रासनम् । अध्यास्य शेते पदयुग्मव्यस्तं पृष्ठे निधायापि धृतं कराभ्याम् । आक 2.43अङ्गुष्ठनाभिपर्यन्तमधोभूमौ विनिन्यसेत् । करतलाभ्यां धरां धृत्वोर्ध्वं शीर्षं फणी 2.44देहाग्निर्वर्धते नित्यं सर्वरोगविनाशनम् । जागर्ति भुजगी देवी साधनाद्भुजङ्गासनम् 2.45उत्तानौ चरणौ कृत्वा संस्थाप्य जानुनोपरि । आसनोपरि संस्थाप्य चोत्तानं करयुग्मकम् 2.46पूरकैर्वायुमाकृष्य नासाग्रमवलोकयेत् । योगासनं भवेदेतद्योगिनां योगसाधने