← Gheranda Samhita
Gheranda Samhita
प्राणायामप्रयोगो नाम पञ्चमोपदेशः
98 verses · Gheranda
5.1
अथाऽतः संप्रवक्ष्यामि प्राणायामस्य यद्विधिम् । यस्य साधनमात्रेण देवतुल्यो भवेन्न
5.2
आदौ स्थानं तथा कालं मिताऽहारं तथापरम् । नाडीशुद्धिं ततः पश्चात्प्राणायामं च साधय
5.3
दूरदेशे तथाऽरण्ये राजधान्यां जनान्तिके । योगारम्भं न कुर्वीत कृतश्चेत्सिद्धिहा भ
5.4
अविश्वासं दूरदेशे अरण्ये रक्षिवर्जितम् । लोकारण्ये प्रकाशश्च तस्मात्त्रीणि विवर्
5.5
सुदेशे धार्मिके राज्ये सुभिक्षे निरुपद्रवे । तत्रैकं कुटिरं कृत्वा प्राचीरैः परि
5.6
वापीकूपतडागं च प्राचीरमध्यवर्ति च । नात्युच्चं नातिनिम्नं च कुटिरं कीटवर्जितम्
5.7
सम्यग्गोमयलिप्तं च कुटिरं तत्र निर्मितम् । एवं स्थाने हि गुप्ते च प्राणायामं समभ
5.8
हेमन्ते शिशिरे ग्रीष्मे वर्षायां च ऋतौ तथा । योगारम्भं न कुर्वीत कृते योगो हि रो
5.9
वसन्ते शरदि प्रोक्तं योगारम्भं समाचरेत् । तथा योगी भवेत्सिद्धो रोगान्मुक्तो भवेद
5.10
चैत्रादिफाल्गुनान्ते च माघादिफाल्गुनान्तिके । द्वौ द्वौ मासावृतुभागावनुभावश्चतुश
5.11
वसन्तश्चैत्रवैशाखौ ज्येष्ठाषाढौ च ग्रीष्मकौ । वर्षा श्रावणभाद्राभ्यां शरदाश्विनक
5.12
अनुभावं प्रवक्ष्यामि ऋतूनां च यथोदितम् । माघादिमाधवान्तेषु वसन्तानुभवं विदुः
5.13
चैत्रादि चाषाढान्तं च निदाघानुभवं विदुः । आषाढादि चाश्विनान्तं प्रावृषानुभवं विद
5.14
भाद्रादिमार्गशीर्षान्तं शरदोऽनुभवं विदुः । कार्तिकादिमाघमासान्तं हेमन्तानुभवं वि
5.15
वसन्ते वापि शरदि योगारम्भं समाचरेत् । तदा योगी भवेत्सिद्धो विनाऽऽयासेन कथ्यते
5.16
मिताहारं विना यस्तु योगारम्भं तु कारयेत् । नानारोगो भवेत्तस्य किञ्चिद्योगो न सिध
5.17
शाल्यन्नं यवपिष्टं वा गोधूमपिष्टकं तथा । मुद्गं माषचणकादि शुभ्रं च तुषवर्जितम्
5.18
पटोलं पनसं मानं कक्कोलं च शुकाशकम् । द्राढिकां कर्कटीं रम्भां डुम्बरीं कण्टकण्टक
5.19
आमरम्भां बालरम्भां रम्भादण्डं च मूलकम् । वार्ताकीं मूलकमृद्धिं योगी भक्षणमाचरेत्
5.20
बालशाकं कालशाकं तथा पटोलपत्रकम् । पञ्चशाकं प्रशंसीयाद्वास्तूकं हिलमोचिकाम्
5.21
शुद्धं सुमधुरं स्निग्धमुदरार्धविवर्जितम् । भुज्यते सुरसं प्रीत्या मिताहारमिमं वि
5.22
अन्नेन पूरयेदर्धं तोयेन तु तृतीयकम् । उदरस्य तुरीयांशं संरक्षेद्वायुचारणे
5.23
कट्वम्लं लवणं तिक्तं भृष्टं च दधि तक्रकम् । शाकोत्कटं तथा मद्यं तालं च पनसं तथा
5.24
कुलत्थं मसूरं पाण्डुं कूष्माण्डं शाकदण्डकम् । तुम्बीकोलकपित्थं च कण्टबिल्वं पलाश
5.25
कदम्बं जम्बीरं बिम्बं लकुचं लशुनं विषम् । कामरङ्गं पियालं च हिङ्गुशाल्मलिकेमुकम्
5.26
योगारम्भे वर्जयेच्च पथस्त्रीवह्निसेवनम्
5.27
नवनीतं घृतं क्षीरं गुडं शर्करादि चैक्षवम् । पक्वरम्भां नारिकेलं दाडिम्बमशिवासवम्
5.28
एलाजातिलवङ्गं च पौरुषं जम्बुजाम्बलम् । हरीतकीं खर्जूरं च योगी भक्षणमाचरेत्
5.29
लघुपाकं प्रियं स्निग्धं तथा धातुप्रपोषणम् । मनोऽभिलषितं योग्यं योगी भोजनमाचरेत्
5.30
काठिन्यं दुरितं पूतिमुष्णं पर्युषितं तथा । अतिशीतं चाति चोष्णं भक्ष्यं योगी विवर
5.31
प्रातःस्नानोपवासादिकायक्लेशविधिं तथा । एकाहारं निराहारं यामान्ते च न कारयेत्
5.32
एवं विधिविधानेन प्राणायामं समाचरेत् । आरम्भे प्रथमे कुर्यात्क्षीराज्यं नित्यभोजन
5.33
कुशासने मृगाजिने व्याघ्राजिने च कम्बले । स्थलासने समासीनः प्राङ्मुखो वाप्युदङ्मु
5.34
नाडीशुद्धिं कथं कुर्यान्नाडीशुद्धिस्तु कीदृशी । तत्सर्वं श्रोतुमिच्छामि तद्वदस्व
5.35
मलाकुलासु नाडीषु मारुतो नैव गच्छति । प्राणायामः कथं सिध्येत्तत्त्वज्ञानं कथं भवे
5.36
नाडीशुद्धिर्द्विधा प्रोक्ता समनुर्निर्मनुस्तथा । बीजेन समनुं कुर्यान्निर्मनुं धौ
5.37
धौतिकर्म पुरा प्रोक्तं षट्कर्मसाधने यथा । शृणुष्व समनुं चण्ड नाडीशुद्धिर्यथा भवे
5.38
उपविश्यासने योगी पद्मासनं समाचरेत् । गुर्वादिन्यासनं कुर्याद्यथैव गुरुभाषितम् ।
5.39
वायुबीजं ततो ध्यात्वा धूम्रवर्णं सतेजसम् । चन्द्रेण पूरयेद्वायुं बीजषोडशकैः सुधी
5.40
चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत् । द्वात्रिंशन्मात्रया वायुं सूर्यनाड्या
5.41
नाभिमूलाद्वह्निमुत्थाप्य ध्यायेत्तेजोऽवनीयुतम् । वह्निबीजषोडशेन सूर्यनाड्या च पू
5.42
चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत् । द्वात्रिंशन्मात्रया वायुं शशिनाड्या च
5.43
नासाग्रे शशधृग्बिम्बं ध्यात्वा ज्योत्स्नासमन्वितम् । ठं बीजं षोडशेनैव इडया पूरये
5.44
चतुःषष्ट्या मात्रया च वं बीजेनैव धारयेत् । अमृतं प्लावितं ध्यात्वा नाडीधौतं विभा
5.45
एवंविधां नाडीशुद्धिं कृत्वा नाडीं विशोधयेत् । दृढो भूत्वाऽऽसनं कृत्वा प्राणायामं
5.46
सहितः सूर्यभेदश्च उज्जायी शीतली तथा । भस्त्रिका भ्रामरी मूर्च्छा केवली चाऽष्टकुम
5.47
सहितो द्विविधः प्रोक्तः सगर्भश्च निगर्भकः । सगर्भो बीजमुच्चार्य निगर्भो बीजवर्जि
5.48
प्राणायामं सगर्भं च प्रथमं कथयामि ते । सुखाऽऽसने चोपविश्य प्राङ्मुखो वाऽप्युदङ्म
5.49
इडया पूरयेद्वायुं मात्रया षोडशैः सुधीः । पूरकान्ते कुम्भकाद्ये कर्तव्यस्तूड्डिया
5.50
सत्त्वमयं हरिं ध्यात्वा उकारं कृष्णवर्णकम् । चतुःषष्ट्या च मात्रया कुम्भकेनैव धा
5.51
तमोमयं शिवं ध्यात्वा मकारं शुक्लवर्णकम् । द्वात्रिंशन्मात्रया चैव रेचयेद्विधिना
5.52
पुनः पिङ्गलयाऽऽपूर्य कुम्भकेनैव धारयेत् । इडया रेचयेत्पश्चात्तद्बीजेन क्रमेण तु
5.53
अनुलोमविलोमेन वारं वारं च साधयेत् । पूरकान्ते कुम्भकान्तं धृतनासापुटद्वयम् । कनि
5.54
प्राणायामो निगर्भस्तु विना बीजेन जायते । वामजानूपरिन्यस्तवामपाणितलं भ्रमेत् । मा
5.55
केवलैर्बीजमन्त्रैर्वा केवलप्रणवेन वा । आरुरुक्षोर्योगिनो हि कृतोऽयं शिवदो भवेत्
5.56
अधमाज्जायते घर्मो मेरुकम्पश्च मध्यमात् । उत्तमाच्च भूमित्यागस्त्रिविधं सिद्धिलक्
5.57
प्राणायामात्खेचरत्वं प्राणायामाद्रोगनाशनम् । प्राणायामाद्बोधयेच्छक्तिं प्राणायाम
5.58
कथितं सहितं कुम्भं सूर्यभेदनकं शृणु । पूरयेत्सूर्यनाड्या च यथाशक्ति बहिर्मरुत्
5.59
धारयेद्बहुयत्नेन कुम्भकेन जलन्धरैः । यावत्स्वेदं नखकेशाभ्यां तावत्कुर्वन्तु कुम्
5.60
प्राणोऽपानः समानश्चोदानव्यानौ तथैव च । नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः
5.61
हृदि प्राणो वहेन्नित्यमपानो गुदमण्डले । समानो नाभिदेशे तु उदानः कण्ठमध्यगः
5.62
व्यानो व्याप्य शरीरे तु प्रधानाः पञ्च वायवः । प्राणाद्याः पञ्च विख्याता नागाद्या
5.63
तेषामपि च पञ्चानां स्थानानि च वदाम्यहम् । उद्गारे नाग आख्यातः कूर्मस्तून्मीलने स
5.64
कृकरः क्षुत्कृते ज्ञेयो देवदत्तो विजृम्भणे । न जहाति मृते क्वाऽपि सर्वव्यापी धनञ
5.65
नागो गृह्णाति चैतन्यं कूर्मश्चैव निमेषणम् । क्षुत्तृषं कृकरश्चैव जृम्भणं चतुर्थे
5.66
सर्वे ते सूर्यसम्भिन्ना नाभिमूलात्समुद्धरेत् । इडया रेचयेत्पश्चाद्धैर्येणाऽखण्डव
5.67
पुनः सूर्येण चाऽकृष्य कुम्भयित्वा यथाविधि । रेचयित्वा साधयेत्तु क्रमेण च पुनः पु
5.68
कुम्भकः सूर्यभेदस्तु जरामृत्युविनाशकः । बोधयेत्कुण्डलीं शक्तिं देहानलं विवर्धयेत
5.69
नासाभ्यां वायुमाकृष्य मुखमध्ये च धारयेत् । हृद्गलाभ्यां समाकृष्य वायुं वक्त्रे च
5.70
मुखं प्रफुल्लं संरक्ष्य कुर्याज्जालन्धरं ततः । आशक्ति कुम्भकं कृत्वा धारयेदविरोध
5.71
उज्जायीकुम्भकं कृत्वा सर्वकार्याणि साधयेत् । न भवेत्कफरोगश्च क्रूरवायुरजीर्णकम्
5.72
आमवातः क्षयः कासो ज्वरप्लीहा न विद्यते । जरामृत्युविनाशाय चोज्जायीं साधयेन्नरः ।
5.73
जिह्वया वायुमाकृष्य उदरे पूरयेच्छनैः । क्षणं च कुम्भकं कृत्वा नासाभ्यां रेचयेत्प
5.74
सर्वदा साधयेद्योगी शीतलीकुम्भकं शुभम् । अजीर्णं कफपित्तं च नैव तस्य प्रजायते
5.75
भस्त्रैव लोहकाराणां यथाक्रमेण सम्भ्रमेत् । तथा वायुं च नासाभ्यामुभाभ्यां चालयेच्
5.76
एवं विंशतिवारं च कृत्वा कुर्याच्च कुम्भकम् । तदन्ते चालयेद्वायुं पूर्वोक्तं च यथ
5.77
त्रिवारं साधयेदेनं भस्त्रिकाकुम्भकं सुधीः । न च रोगो न च क्लेश आरोग्यं च दिने दि
5.78
अर्धरात्रे गते योगी जन्तूनां शब्दवर्जिते । कर्णौ पिधाय हस्ताभ्यां कुर्यात्पूरककु
5.79
शृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं शुभम् । प्रथमं झिंझीनादं च वंशीनादं ततः परम्
5.80
मेघझर्झरभ्रामरी घण्टाकांस्यं ततः परम् । तुरीभेरीमृदङ्गादिनिनादानकदुन्दुभिः
5.81
एवं नानाविधो नादो जायते नित्यमभ्यसात् । अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः
5.82
ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः । तन्मनो विलयं याति तद्विष्णोः परमं प
5.83
सुखेन कुम्भकं कृत्वा मनश्च भ्रुवोरन्तरम् । सन्त्यज्य विषयान्सर्वान्मनोमूर्च्छा स
5.84
एवं नानाविधाऽऽनन्दो जायते नित्यमभ्यासात् । एवमभ्यासयोगेन समाधिसिद्धिमाप्नुयात् ।
5.85
भुजङ्गिन्याः श्वासवशादजपा जायते ननु । हङ्कारेण बहिर्याति सःकारेण विशेत्पुनः
5.86
षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः । अजपां नाम गायत्रीं जीवो जपति सर्वदा
5.87
मूलाऽऽधारे यथा हंसस्तथा हि हृदि पङ्कजे । तथा नासापुटद्वन्द्वे त्रिभिर्हंससमागमः
5.88
षण्णवत्यङ्गुलीमानं शरीरं कर्मरूपकम् । देहाद्बहिर्गतो वायुः स्वभावाद्द्वादशाङ्गुल
5.89
गायने षोडशाङ्गुल्यो भोजने विंशतिस्तथा । चतुर्विंशाङ्गुलिः पन्थे निद्रायां त्रिंश
5.90
स्वभावेऽस्य गतेर्न्यूने परमायुः प्रवर्धते । आयुःक्षयोऽधिके प्रोक्तो मारुते चाऽन्
5.91
तस्मात्प्राणे स्थिते देहे मरणं नैव जायते । वायुना घटसम्बन्धे भवेत्केवलकुम्भकम्
5.92
यावज्जीवं जपेन्मन्त्रमजपासङ्ख्यकेवलम् सङ्ख्या द्विगुणा । अद्यावधि धृतं सङ्ख्यावि
5.93
अत एव हि कर्तव्यः केवलीकुम्भको नरैः । केवली चाऽजपासङ्ख्या द्विगुणा च मनोन्मनी
5.94
नासाभ्यां वायुमाकृष्य केवलं कुम्भकं चरेत् । एकादिकचतुःषष्टिं धारयेत्प्रथमे दिने
5.95
केवलीमष्टधा कुर्याद्यामे यामे दिने दिने । अथवा पञ्चधा कुर्याद्यथा तत्कथयामि ते
5.96
प्रातर्मध्याह्नसायाह्ने मध्ये रात्रिचतुर्थके । त्रिसन्ध्यमथवा कुर्यात्सममाने दिन
5.97
पञ्चवारं दिने वृद्धिर्वारैकं च दिने तथा । अजपापरिमाणं च यावत्सिद्धिः प्रजायते
5.98
प्राणायामं केवलीं च तदा वदति योगवित् । केवलीकुम्भके सिद्धे किं न सिध्यति भूतले
← प्रत्याहारप्रयोगो नाम चतुर्थोपदेशः
ध्यानयोगो नाम षष्ठोपदेशः →