← Gheranda Samhita
Gheranda Samhita

प्रत्याहारप्रयोगो नाम चतुर्थोपदेशः

18 verses · Gheranda

4.1अथाऽतः संप्रवक्ष्यामि प्रत्याहारमनुत्तमम् । यस्य विज्ञानमात्रेण कामादिरिपुनाशनम् 4.2यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् 4.3यत्र यत्र गता दृष्टिर्मनस्तत्र प्रगच्छति । ततः प्रत्याहरेदेतदात्मन्येव वशं नयेत् 4.4पुरस्कारं तिरस्कारं सुश्राव्यं दुःश्रुतं तथा । मनस्तस्मान्नियम्यैतदात्मन्येव वशं 4.5शीतं वाऽपि तथा चोष्णं यन्मनःस्पर्शयोगतः । तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नये 4.6मधुराम्लकतिक्तादिरसं गतं यदा मनः । तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत् 4.7सुगन्धे वाऽपि दुर्गन्धे घ्राणेषु जायते मनः । तस्मात्प्रत्याहरेदेतदात्मन्येव वशं 4.8शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्याच्चित्तानुचारीणि प्रत्याहारपर 4.9वश्यता परमा तेन जायतेऽतिचलात्मनाम् । इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः 4.10प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् । प्रत्याहारेण विषयान्ध्यानेनानीश्वर 4.11यथा पर्वतधातूनां दोषा दह्यन्ति धाम्यताम् । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग 4.12समः समासनो भूत्वा संहृत्य चरणावुभौ । संवृतास्यस्तथैवोरू सम्यग्विष्टभ्य चाग्रतः 4.13पार्ष्णिभ्यां लिङ्गवृषणावस्पृशन्प्रयतः स्थितः । किञ्चिदुन्नामितशिरा दन्तैर्दन्ता 4.14रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा । सञ्चाद्य निर्मले सत्त्वे स्थितो युञ्जीत यो 4.15इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च । निगृह्य समवायेन प्रत्याहारमुपक्र 4.16यस्तु प्रत्याहरेत्कामान्सर्वाङ्गानीव कच्छपः । सदात्मरतिरेकस्थः पश्यत्यात्मानमात् 4.17स बाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः । पूरयित्वा बुधो देहं प्रत्याहारमुपक् 4.18तथा वै योगयुक्तस्य योगिनो नियतात्मनः । सर्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायत