← Ishvara Pratyabhijna Karika
Ishvara Pratyabhijna Karika

क्रियाधिकारे तृतीयमाह्निकम्

17 karikas · Utpaladeva

11.1इदमेतादृगित्येवं यद्वशाद्व्यवतिष्ठते । वस्तु प्रमाणं तत्सोऽपि स्वाभासोऽभिनवोदयः 11.2सोऽन्तस्तथाविमर्शात्मा देशकालाद्यभेदिनि । एकाभिधानविषये मितिर्वस्तुन्यबाधिता 11.3यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधिते 11.4दीर्घवृत्तोर्ध्वपुरुषधूमचान्दनतादिभिः । यथाभासा विभिद्यन्ते देशकालाविभेदिनः 11.5तथैव सद्घटद्रव्यकाञ्चनोज्ज्वलतादयः । आभासभेदा भिन्नार्थकारिणस्ते पदं ध्वनेः 11.6आभासभेदाद्वस्तूनां नियतार्थक्रिया पुनः । सामानाधिकरण्येन प्रतिभासादभेदिनाम् 11.7पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा । अविरुद्धावभासानामेककार्या तथैक्यधीः 11.8तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता । तत्तच्छब्दार्थताद्यात्मा प्रमाणादेकतो 11.9सा तु देशादिकाध्यक्षन्तरभिन्ने स्वलक्षणे । तात्कालिकी प्रवृत्तिः स्यादर्थिनोऽप्य 11.10दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना । बाह्यान्तरतया दोषैर्व्यञ्जकस्यान्यथाप 11.11भिन्नावभासच्छायानामपि मुख्यावभासतः । एकप्रत्यवमर्शाख्यादेकत्वमनिवारितम् 11.12अर्थक्रियापि सहजा नार्थानामीश्वरेच्छया । नियता सा हि तेनास्या नाक्रियातोऽन्यता भ 11.13रजतैकविमर्शेऽपि शुक्तौ न रजतस्थितिः । उपाधिदेशासंवादाद्द्विचन्द्रेऽपि नभोऽन्यथा 11.14गुणैः शब्दादिभिर्भेदो जात्यादिभिरभिन्नता । भावानामित्थमेकत्र प्रमातर्युपपद्यते 11.15विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे । विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे 11.16प्रमातरि पुराणे तु सर्वदा भातविग्रहे । किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि 11.17अप्रवर्तितपूर्वोऽत्र केवलं मूढतावशात् । शक्तिप्रकाशेनेशादिव्यवहारः प्रवर्त्यते