← Ishvara Pratyabhijna Karika
Ishvara Pratyabhijna Karika

क्रियाधिकारे चतुर्थमाह्निकम्

21 karikas · Utpaladeva

12.1एष चानन्तशक्तित्वादेवमाभासयत्यमून् । भावानिच्छावशादेषा क्रिया निर्मातृतास्य सा 12.2जडस्य तु न सा शक्तिः सत्ता यदसतः सतः । कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः 12.3यदसत्तदसद्युक्ता नासतः सत्स्वरूपता । सतोऽपि न पुनः सत्तालाभेनार्थोऽथ चोच्यते 12.4कार्यकारणता लोके सान्तर्विपरिवर्तिनः । उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः 12.5एवमेका क्रिया सैषा सक्रमान्तर्बहिःस्थितिः । एकस्यैवोभयाकारसहिष्णोरपपादिता 12.6बहिस्तस्यैव तत्कार्यं यदन्त यदपेक्षया । प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस 12.7मातैव कारणं तेन स चाभासद्वयस्थितौ । कार्यस्य स्थित एवैकस्तदेकस्य क्रियोदिता 12.8अत एवाङ्कुरेऽपीष्टो निमित्तं परमेश्वरः । तदन्यस्यापि बीजादेर्हेतुता नोपपद्यते 12.9तथा हि कुम्भकारोऽसावैश्वर्यैव व्यवस्थया । तत्तन्मृदादिसंस्कारक्रमेण जनयेद्घटम् 12.10योगिनामपि मृद्बीजे विनैवेच्छावशेन तत् । घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम् 12.11योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते । कार्यं हेतुः स्वभावो वात एवोत्पत्तिमूलजः 12.12भूयस्तत्तत्प्रमात्रेकवह्न्याभासादितो भवेत् । परोक्षादप्यधिपतेर्धूमाभासादि नूतनम् 12.13कार्यमव्यभिचार्यस्य लिङ्गमन्यप्रमातृगात् । तदाभासस्तदाभासादेव त्वधिपतेः परः 12.14अस्मिन्सतीदमस्तीति कार्यकारणतापि या । साप्यपेक्षाविहीनानां जाडानां नोपपद्यते 12.15न हि स्वात्मैकनिष्ठानामनुसन्धानवर्जिनाम् । सदसत्तापदेऽप्येष सप्तम्यर्थः प्रकल्प् 12.16अत एव विभक्त्यर्थः प्रमात्रेकसमाश्रयः । क्रियाकारकभावाख्यो युक्तो भावसमन्वयः 12.17परस्परस्वभावत्वे कार्यकारणयोरपि । एकत्वमेव भेदे हि नैवान्योन्यस्वरूपता 12.18एकात्मनो विभेदश्च क्रिया कालक्रमानुगा । तथा स्यात्कर्तृतैवैवं तथापरिणमत्तया 12.19न च युक्तं जडस्यैवं भेदाभेदविरोधतः । आभासभेदादेकत्र चिदात्मनि तु युज्यते 12.20वास्तवेऽपि चिदेकत्वे न स्यादाभासभिन्नयोः । चिकीर्षालक्षणैकत्वपरामर्शं विना क्रिय 12.21इत्थं तथा घटपटाद्याभासजगदात्मना । तिष्ठासोरेवमिच्छैव हेतुता कर्तृता क्रिया