← Ishvara Pratyabhijna Karika
Ishvara Pratyabhijna Karika
आगमाधिकारे प्रथममाह्निकम्
11 karikas · Utpaladeva
13.1
एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा । मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मण
13.2
किं त्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः । बहिर्भावपरत्वे तु परतः पारमेश्वरम
13.3
ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः । सामानाधिकरण्यं च सद्विद्याहमिदंधियोः
13.4
इदंभावोपपन्नानां वेद्यभूमिमुपेयुषाम् । भावानां बोधसारत्वाद्यथावस्त्ववलोकनात्
13.5
अत्रापरत्वम्भावानामनात्मत्वेन भासनात् । परताहन्तयाच्छादात्परापरदशा हि सा
13.6
भेदधीरेव भावेषु कर्तुर्बोधात्मनोऽपि या । मायाशक्त्येव सा विद्येत्यन्ये विद्येश्व
13.7
तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका । विद्याशक्तिः तिरोधानकरी मायाभिधा पुनः
13.8
भेदे त्वेकरसे भातेऽहंतयानात्मनीक्षिते । शून्ये बुद्धे शरीरे वा मायाशक्तिर्विजृम्
13.9
यश्च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि । माता स मेयः सन्कालादिकपञ्चकवेष्टितः
13.10
त्रयोविंशतिधा मेयं यत्कार्यकरणात्मकम् । तस्याविभागरूप्येकं प्रधानं मूलकारणम्
13.11
त्रयोदशविधा चात्र बाह्यान्तःकरणावली । कार्यवर्गश्च दशधा स्थूलसूक्ष्मत्वभेदतः
← क्रियाधिकारे चतुर्थमाह्निकम्
आगमाधिकारे द्वितीयमाह्निकम् →