← Ishvara Pratyabhijna Karika
Ishvara Pratyabhijna Karika
ज्ञानाधिकारे पञ्चममाह्निकम्
21 karikas · Utpaladeva
5.1
वर्तमानावभासानां भावानामवभासनम् । अन्तःस्थितवतामेव घटते बहिरात्मना
5.2
प्रागिवार्थोऽप्रकाशः स्यात्प्रकाशात्मतया विना । न च प्रकाशो भिन्नः स्यादात्मार्थ
5.3
भिन्ने प्रकाशे चाभिन्ने संकरो विषयस्य तत् । प्रकाशात्मा प्रकाश्योऽर्थो नाप्रकाशश
5.4
तत्तदाकस्मिकाभासो बाह्यं चेदनुमापयेत् । न ह्यभिन्नस्य बोधस्य विचित्राभासहेतुता
5.5
न वासनाप्रबोधोऽत्र विचित्रो हेतुतामियात् । तस्यापि तत्प्रबोधस्य वैचित्र्ये किम्न
5.6
स्यादेतदवभासेषु तेष्वेवावसिते सति । व्यवहारे किमन्येन बाह्येनानुपपत्तिना
5.7
चिदात्मैव हि देवोऽन्तःस्थितमिच्छावशाद्बहिः । योगीव निरुपादानमर्थजातं प्रकाशयेत्
5.8
अनुमानमनाभातपूर्वे नैवेष्टमिन्द्रियम् । आभातमेव बीजादेराभासाद्धेतुवस्तुनः
5.9
आभासः पुनराभासद्बाह्यस्यासीत्कथं चन । अर्थस्य नैव तेनास्य सिद्धिर्नाप्यनुमानतः
5.10
स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् । अस्त्येव न विना तस्मादिच्छामर्शः प्रवर
5.11
स्वभावमवभासस्य विमर्शं विदुरन्यथा । प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः
5.12
आत्मात एव चैतन्यं चित्क्रिया चितिकर्तृता । तात्पर्येणोदितस्तेन जडात्स हि विलक्षण
5.13
चितिः प्रत्यवमर्शात्मा परा वाक्स्वरसोदिता । स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं प
5.14
सा स्फुरत्ता महासत्ता देशकालाविशेषिनी । सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः
5.15
आत्मानमत एवायं ज्ञेयीकुर्यात्पृथक्स्थिति । ज्ञेयं न तु तदौन्मुख्यात्खण्ड्येतास्य
5.16
स्वातन्त्र्यामुक्तात्मानं स्वातन्त्र्यादद्वयात्मनः । प्रभुरीशादिसंकल्पैर्निर्माय
5.17
नाहन्तादिपरामर्शभेदादस्यानयतात्मनः । अहंमृश्यतयाइवास्य सृष्तेस्तिङ्वाच्यकर्मवत्
5.18
मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा । कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः
5.19
साक्षात्कारक्षणेऽप्यस्ति विमर्शः कथमन्यथा । धावनाद्युपपद्येत प्रतिसंधानवर्जितम्
5.20
घटोऽयमित्यध्यवसा नामरूपातिरेकिणी । परेशशक्तिरात्मेव भासते न त्विदन्तया
5.21
केवलं भिन्नसम्वेद्यदेशकालानुरोधतः । ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते
← ज्ञानाधिकारे चतुर्थमाह्निकम्
ज्ञानाधिकारे षष्ठमाह्निकम् →