← Ishvara Pratyabhijna Karika
Ishvara Pratyabhijna Karika

ज्ञानाधिकारे षष्ठमाह्निकम्

11 karikas · Utpaladeva

6.1अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः । नासौ विकल्पः स ह्युक्तो द्वयाक्षेपी 6.2भिन्नयोरवभासो हि स्याद्घटाघटयोर्द्वयोः । प्रकाशस्येव नान्यस्य भेदिनस्त्ववभासनम् 6.3तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात् । तन्निश्चयनमुक्तो हि विकल्पो घट इत्ययम् 6.4चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः । देहे बुद्धावथ प्राणे कल्पिते नभसीव 6.5प्रमातृत्वेनाहमिति विमर्शोऽन्यव्यपोहनात् । विकल्प एव स परप्रतियोग्यवभासजः 6.6कादाचित्कावभासे या पूर्वाभासादियोजना । संस्कारात्कल्पना प्रोक्ता सापि भिन्नावभास 6.7तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् । भान्तमेवान्त अर्थौघमिच्छया भासयेद्बहिः 6.8एवं स्मृतौ विकल्पे वाप्यपोहनपरायणे । ज्ञाने वाप्यन्तराभासः स्थित एवेति निश्चितम् 6.9किं तु नैसर्गिको ज्ञाने बहिराभासनात्मनि । पूर्वानुभवरूपस्तु स्थितः स स्मरणादिषु 6.10स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि । यथाभिमतसंस्थानाभासनाद्बुद्धिगोचरे 6.11अत एव यथाभीष्टसमुल्लेखावभासनात् । ज्ञानक्रिये स्फुटे एव सिद्धे सर्वस्य जीवतः