← Ishvara Pratyabhijna Karika
Ishvara Pratyabhijna Karika

ज्ञानाधिकारे अष्टममाह्निकम्

11 karikas · Utpaladeva

8.1तात्कालिकाक्षसामक्ष्यसापेक्षाः केवलं क्व चित् । आभासा अन्यथान्यत्र त्वन्धान्धतमस 8.2विशेषोऽर्थावभासस्य सत्तायां न पुनः क्व चित् । विकल्पेषु भवेद्भाविभवद्भूतार्थगामि 8.3सुखादिषु च सौख्यादिहेतुष्वपि च वस्तुषु । अवभासस्य सद्भावेऽप्यतीतत्वात्तथा स्थिति 8.4गाढमुल्लिख्यमाने तु विकल्पेन सुखादिके । तथा स्थितिस्तथैव स्यात्स्फुटमस्योपलक्षणा 8.5भावाभावावभासानां बाह्यतोपाधिरिष्यते । नात्मा सत्ता ततस्तेषामान्तराणां सतां सदा 8.6आन्तरत्वात्प्रमात्रैक्ये नैषां भेदनिबन्धना । अर्थक्रियापि बाह्यत्वे सा भिन्नाभास 8.7चिन्मयत्वेऽवभासानामन्त एव स्थितिः सदा । मायया भासमानानां बाह्यत्वाद्बहिरप्यसौ 8.8विकल्पे योऽयमुल्लेखः सोऽपि बाह्यः पृथक्प्रथः । प्रमात्रैकात्म्यमान्तर्यं ततो भेद 8.9उल्लेखस्य सुखादेश्च प्रकाशो बहिरात्मना । इच्छातो भर्तुरध्यक्षरूपोऽक्षादिभुवां यथ 8.10तदैक्येन विना न स्यात्संविदां लोकपद्धतिः । प्रकाशैक्यात्तदेकत्वं मातैकः स इति स् 8.11स एव विमृशत्त्वेन नियतेन महेश्वरः । विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः