← Ishvara Pratyabhijna Karika
Ishvara Pratyabhijna Karika
ज्ञानाधिकारे सप्तममाह्निकम्
14 karikas · Utpaladeva
7.1
या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता । अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः
7.2
तत्तद्विभिन्नसंवित्तिमुखैरेकप्रमातरि । प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते
7.3
देशकालक्रमजुषामर्थानां स्वसमापिनाम् । सकृदाभाससाध्योऽसावन्यथा कः समन्वयः
7.4
प्रत्यक्षानुपलम्भानां तत्तद्भिन्नांशपातिनाम् । कार्यकारणतासिद्धिहेतुतैकप्रमातृजा
7.5
स्मृतौ यैव स्वसंवित्तिः प्रमाणं स्वात्मसंभवे । पूर्वानुभवसद्भावे साधनं सैव नापरम
7.6
बाध्यबाधकभावोऽपि स्वात्मनिष्ठाविरोधिनाम् । ज्ञानानामुदियादेकप्रमातृपरिनिष्ठितेः
7.7
विविक्तभूतलज्ञानं घटाभावमतिर्यथा । तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित
7.8
नैवं शुद्धस्थलज्ञानात्सिद्ध्येत्तस्याघटात्मना । न तूपलब्धियोग्यस्याप्यत्राभावो घ
7.9
विविक्तं भूतलं शश्वद्भावानां स्वात्मनिष्ठितेः । तत्कथं जातु तज्ज्ञानं भिन्नस्याभ
7.10
किम्त्वालोकचयोऽन्धस्य स्पर्शो वोष्णादिको मृदुः । तत्रास्ति साधयेत्तस्य स्वज्ञानम
7.11
पिशाचः स्यादनालोकोऽप्यालोकाभ्यन्तरे यथा । अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथ
7.12
एवं रूप्यविदाभावरूपा शुक्तिमतिर्भवेत् । न त्वाद्यरजतज्ञप्तेः स्यादप्रामाण्यवेदिक
7.13
धर्म्यसिद्धेरपि भवेद्बाधा नैवानुमानतः । स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा
7.14
इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ । समलो विमलो वापि व्यवहारोऽनुभूयते
← ज्ञानाधिकारे षष्ठमाह्निकम्
ज्ञानाधिकारे अष्टममाह्निकम् →