← Malinivijayottara Tantra
Malinivijayottara Tantra
सृष्ट्यधिकारः
50 verses · Revealed scripture (Trika agama)
1.1
जयन्ति जगदानन्दविपक्षक्षपणक्षमाः । परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः
1.2
जगदर्णवमग्नानां तारकं तारकान्तकम् । सनत्कुमारसनकसनातनसनन्दनाः
1.3
नारदागस्त्यसंवर्तवसिष्ठाद्या महर्षयः । जिज्ञासवः परं तत्त्वं शिवशक्त्युन्मुखीकृत
1.4
समभ्यर्च्य विधानेन ते तमूचुः प्रहर्षिताः । भगवद्योगसंसिद्धिकाङ्क्षिणो वयमागताः
1.5
सा च योगं विना यस्मान्न भवेत्तमतो वद । ऋषिभिर्योगमिच्छद्भिः स तैरेवमुदाहृतः
1.6
प्रत्युवाच प्रहृष्टात्मा नमस्कृत्य महेश्वरम् । शृणुध्वं संप्रवक्ष्यामि सर्वसिद्ध
1.7
मालिनीविजयं तन्त्रं परमेशमुखोद्गतम् । भुक्तिमुक्तिप्रदातारमुमेशममरार्चितम्
1.8
स्वस्थानस्थमुमा देवी प्रणिपत्येदमब्रवीत् । सिद्धयोगेश्वरीतन्त्रं नवकोटिप्रविस्तर
1.9
यत्त्वया कथितं पूर्वं भेदत्रयविसर्पितम् । मालिनीविजये तन्त्रे कोटित्रितयलक्षिते
1.10
योगमार्गस्त्वया प्रोक्तः सुविस्तीर्णो महेश्वर । भूयस्तस्योपसंहारः प्रोक्तो द्वाद
1.11
सहस्रैः सोऽपि विस्तीर्णो गृह्यते नाल्पबुद्धिभिः । अतस्तमुपसंहृत्य समासादल्पधीहित
1.12
सर्वसिद्धिकरं ब्रूहि प्रसादात्परमेश्वर । एवमुक्तस्तदा देव्या प्रहस्योवाच विश्वरा
1.13
शृणु देवि प्रवक्ष्यामि सिद्धयोगेश्वरीमतम् । यन्न कस्य चिदाख्यातं मालिनीविजयोत्तर
1.14
मयाप्येतत्पुरा प्राप्तमघोरात्परमात्मनः । उपादेयं च हेयं च विज्ञेयं परमार्थतः
1.15
शिवः शक्तिः सविद्येशा मन्त्रा मन्त्रेश्वराणवः । उपादेयमिति प्रोक्तमेतत्षट्कं फला
1.16
मलः कर्म च माया च मायीयमखिलं जगत् । सर्वं हेयमिति प्रोक्तं विज्ञेयं वस्तु निश्चि
1.17
एतज्ज्ञात्वा परित्यज्य सर्वसिद्धिफलं लभेत् । तत्रेशः सर्वकृच्छान्तः सर्वज्ञः सर्
1.18
सकलो निष्कलोऽनन्तः शक्तिरप्यस्य तद्विधा । स सिसृक्षुर्जगत्सृष्टेरादावेव निजेच्छय
1.19
विज्ञानकेवलानष्टौ बोधयामास पुद्गलान् । अघोरः परमो घोरो घोररूपस्तदाननः
1.20
भीमश्च भीषणश्चैव वमनः पिवनस्तथा । एतानष्टौ स्थितिध्वंसरक्षानुग्रहकारिणः
1.21
मन्त्रमन्त्रेश्वरे शुद्धे संनियोज्य ततः पुनः । मन्त्राणामसृजत्तद्वत्सप्तकोटीः सम
1.22
सर्वेऽप्येते महात्मानो मन्त्राः सर्वफलप्रदाः । आत्मा चतुर्विधो ज्ञेयस्तत्र विज्ञ
1.23
मलैकयुक्तस्तत्कर्मयुक्तः प्रलयकेवलः । मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम्
1.24
धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम् । ईश्वरेच्छावशादस्य भोगेच्छा संप्रजायते
1.25
भोगसाधनसंसिद्ध्यै भोगेच्छोरस्य मन्त्रराट् । जगदुत्पादयामास मायामाविश्य शक्तिभिः
1.26
सा चैका व्यापिनी सूक्ष्मा निष्कला जगतो निधिः । अनाद्यन्ताशिवेशानी व्ययहीना च कथ्
1.27
असूत सा कलातत्त्वं यद्योगादभवत्पुमान् । जातकर्तृत्वसामर्थ्यो विद्यारागौ ततोऽसृजत
1.28
विद्या विवेचयत्यस्य कर्म तत्कार्यकारणे । रागोऽनुरञ्जयत्येनं स्वभोगेष्वशुचिष्वपि
1.29
नियतिर्योजयत्येनं स्वके कर्मणि पुद्गलम् । कालोऽपि कलयत्येनं तुट्यादिभिरवस्थितः
1.30
तत एव कलातत्त्वादव्यक्तमसृजत्ततः । गुणानष्टगुणां तेभ्यो धियं धीतोऽप्यहङ्कृतिम्
1.31
तत्त्रिधा तैजसात्तस्मान्मनोऽक्षेशमजायत । वैकारिकात्ततोऽक्षाणि तन्मात्राणि तृतीयक
1.32
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं बुद्धीन्द्रियाणि तु । कर्मेन्द्रियाणि वाक्पा
1.33
कलादिक्षितिपर्यन्तमेतत्संसारमण्डलम् । समुद्रादि जगत्कृत्स्नं परिवर्तयतीच्छया
1.34
भेदः परः कलादीनां भुवनत्वेन यः स्थितः । असृजत्तमसावेव भोगिनां भोगसिद्धये
1.35
इत्यनेन कलाद्येन धरान्तेन समन्विताः । पुमांसः सकला ज्ञेयास्तदवस्थाजिघांसुभिः
1.36
अवस्थात्रितयेऽप्यस्मिंस्तिरोभावनशीलया । शिवशक्त्या समाक्रान्ताः प्रकुर्वन्ति विच
1.37
एवं जगति सर्वत्र रुद्राणां योग्यतावशात् । अङ्गुष्ठमात्रपूर्वाणां शतमष्टादशोत्तरम
1.38
अनुगृह्य शिवः साक्षान्मन्त्रेशत्वे नियुक्तवान् । ते स्वगोचरमासाद्य भुक्तिमुक्तिफ
1.39
ब्रह्मादीनां प्रयच्छन्ति स्वबलेन समं फलम् । ऋषिभ्यस्तेऽपि ते चानु मन्वन्तेभ्यो म
1.40
हेयोपादेयविज्ञानं कथयन्ति शिवोदितम् । ब्रह्मादिस्तम्बपर्यन्ते जातमात्रे जगत्यलम्
1.41
मन्त्राणां कोटयस्तिस्रः सार्धाः शिवनियोजिताः । अनुगृह्याणुसंघातं याताः पदमनामयम्
1.42
एवमस्यात्मनः काले कस्मिंश्चिद्योग्यतावशात् । शैवी संबध्यते शक्तिः शान्ता मुक्तिफ
1.43
तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते । अज्ञानेन सहैकत्वं कस्य चिद्विनिवर्तते
1.44
रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया । भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गु
1.45
तमाराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम् । तत्क्षणाद्वोपभोगाद्वा देहपाते शिव
1.46
योगदीक्षां समासाद्य ज्ञात्वा योगं समभ्यसेत् । योगसिद्धिमवाप्नोति तदन्ते शाश्वतं
1.47
अनेन क्रमयोगेन संप्राप्तः परमं पदम् । न भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति
1.48
आत्मा चतुर्विधो ह्येष पुनरेष चतुर्विधः । आचार्यत्वादिभेदेन शुद्धात्मा परिपठ्यते
1.49
नित्यादित्रितयं कुर्याद्गुरुः साधक एव च । नित्यमेव द्वयं चान्यो यावज्जीवं शिवाज्
1.50
उपादेयं च हेयं च तदेतत्परिकीर्तितम् । ज्ञात्वैतज्ज्ञेयसर्वस्वं सर्वसिद्ध्यरहो भव
व्याप्त्यधिकारः →