← Malinivijayottara Tantra
Malinivijayottara Tantra

व्याप्त्यधिकारः

60 verses · Revealed scripture (Trika agama)

2.1अथैषामेव तत्त्वानां धरादीनामनुक्रमात् । प्रपञ्चः कथ्यते लेशाद्योगिनां योगसिद्धये 2.2शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते । स्वरूपसहितं तच्च विज्ञेयं दशपञ्चधा 2.3शिवादिसकलात्मान्ताः शक्तिमन्तः प्रकीर्तिताः । तच्छक्तयश्च विज्ञेयास्तद्वदेव विचक 2.4एवं जलादिमूलान्तं तत्त्वव्रातमिदं महत् । पृथग्भेदैरिमैर्भिन्नं विज्ञेयं तत्फलेप् 2.5अनेनैव विधानेन पुंस्तत्त्वात्तु कलान्तिकम् । त्रयोदशविधं ज्ञेयं रुद्रवत्प्रलयाकल 2.6तद्वन्मायापि विज्ञेया नवधा ज्ञानकेवलः । मन्त्राः सप्तविधास्तद्वत्पञ्चधा मन्त्रना 2.7त्रिधा मन्त्रेश्वरेशानाः शिवः साक्षान्न भिद्यते । भेदः प्रकथितो लेशादनन्तो विस्त 2.8एवं भुवनमालापि भिन्ना भेदैरिमैः स्फुटम् । विज्ञेया योगसिद्ध्यर्थं योगिभिर्योगपूज 2.9एतेषामेव तत्त्वानां भुवनानां च शाङ्करि । य एकमपि जानाति सोऽपि योगफलं लभेत् 2.10यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः । स गुरुर्मत्समः प्रोक्तो मन्त्रवीर् 2.11दृष्टाः संभाषितास्तेन स्पृष्टाश्च प्रीतचेतसा । नराः पापैः प्रमुच्यन्ते सप्तजन्मक 2.12ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः । ते यथेष्टं फलं प्राप्य गच्छन्ति परमं 2.13रुद्रशक्तिसमावेशस्तत्र नित्यं प्रतिष्ठितः । सति तस्मिंश्च चिह्नानि तस्यैतानि विल 2.14तत्रैतत्प्रथमं चिह्नं रुद्रे भक्तिः सुनिश्चला । द्वितीयं मन्त्रसिद्धिः स्यात्सद् 2.15सर्वसत्त्ववशित्वं च तृतीयं लक्षणं स्मृतम् । प्रारब्धकार्यनिष्पत्तिश्चिह्नमाहुश्च 2.16कवित्वं पञ्चमं प्रोक्तं सालंकारं मनोहरम् । सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य 2.17रुद्रशक्तिसमावेशः पञ्चधा परिपठ्यते । भूततत्त्वात्ममन्त्रेशशक्तिभेदाद्वरानने 2.18पञ्चधा भूतसंज्ञस्तु तथा त्रिंशतिधा परः । आत्माख्यस्त्रिविधः प्रोक्तो दशधा मन्त्र 2.19द्विविधः शक्तिसंज्ञोऽपि ज्ञातव्यः परमार्थतः । पञ्चाशद्भेदभिन्नोऽयं समावेशः प्रकी 2.20आणवोऽयं समाख्यातः शाक्तोऽप्येवंविधः स्मृतः । एवं शाम्भवमप्येभिर्भेदैर्भिन्नं विल 2.21उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः । यो भवेत्स समावेशः सम्यगाणव उच्यते 2.22उच्चाररहितं वस्तु चेतसैव विचिन्तयन् । यमावेशमवाप्नोति शाक्तः सोऽत्राभिधीयते 2.23अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः । जायते यः समावेशः शाम्भवोऽसावुदीरितः 2.24सार्धमेतच्छतं प्रोक्तं भेदानामनुपूर्वशः । संक्षेपाद्विस्तरादस्य परिसंख्या न विद् 2.25संवित्तिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः । भेदोऽपरोऽपि संक्षेपात्कथ्यमानोऽवधार्य 2.26जाग्रत्स्वप्नादिभेदेन सर्वावेशक्रमो बुधैः । पञ्चभिन्नः परिज्ञेयः स्वव्यापारात्पृ 2.27तत्र स्वरूपं शक्तिश्च सकलश्चेति तत्त्रयम् । इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके 2.28अकलौ द्वौ परिज्ञेयौ सम्यक्स्वप्नसुषुप्तयोः । मन्त्रादितत्पतीशानवर्गस्तुर्य इति स 2.29शक्तिशंभू परिज्ञेयौ तुर्यातीते वरानने । त्रयोदशात्मके भेदे स्वरूपमकलावुभौ 2.30मन्त्रमन्त्रेश्वरेशानाः शक्तिशंभू च कीर्तितौ । प्रलयाकलभेदेऽपि स्वं विज्ञानकलावु 2.31मन्त्रमन्त्रेश्वरेशानाः शक्तीशावपि पूर्ववत् । नवधा कीर्तिते भेदे स्वं मन्त्रा मन 2.32तदीशाः शक्तिशंभू च पञ्चावस्थाः प्रकीर्तिताः । पूर्ववत्सप्तभेदेऽपि स्वं मन्त्रेशे 2.33शिवश्चेति परिज्ञेयाः पञ्चैव वरवर्णिनि । स्वं शक्तिः सनिजेशाना शक्तिशंभू च पञ्चके 2.34त्रिके स्वशक्तिशक्तीच्छाशिवपदं विलक्षयेत् । स्वव्यापाराधिपत्वेन तद्धीनप्रेरकत्वत 2.35इच्छानिवृत्तेः स्वस्थत्वादभिन्नमपि पञ्चधा । इति पञ्चात्मके भेदे विज्ञेयं वस्तु क 2.36भूयोऽप्यासामवस्थानां संज्ञाभेदः प्रकाश्यते । पिण्डस्थः सर्वतोभद्रो जाग्रन्नामद्व 2.37द्विसंज्ञं स्वप्नमिच्छन्ति पदस्थं व्याप्तिरित्यपि । रूपस्थं तु महाव्याप्तिः सुषु 2.38प्रचयं रूपातीतं च सम्यक्तुर्यमुदाहृतम् । महाप्रचयमिच्छन्ति तुर्यातीतं विचक्षणाः 2.39पृथक्तत्त्वप्रभेदेन भेदोऽयं समुदाहृतः । सर्वाणि एव तत्त्वानि पञ्चैतानि यथा शृणु 2.40भूततत्त्वाभिधानानां योऽंशोऽधिष्ठेय इष्यते । पिण्डस्थमिति तं प्राहुः पदस्थमपरं वि 2.41मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते । रूपातीतं परा शक्तिः सव्यापाराप्यनाम 2.42निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः । सर्वातीतः शिवो ज्ञेयो यं विदित् 2.43चतुर्विधं तु पिण्डस्थमबुद्धं बुद्धमेव च । प्रबुद्धं सुप्रबुद्धं च पदस्थं च चतुर् 2.44गतागतं सुविक्षिप्तं सङ्गतं सुसमाहितम् । चतुर्धा रूपसंस्थं तु ज्ञातव्यं योगचिन्तक 2.45उदितं विपुलं शान्तं सुप्रसन्नमथापरम् । मनोन्मनमनन्तं च सर्वार्थं सततोदितम् 2.46प्रचये तत्र संज्ञेयमेकं तन्महति स्थितम् । इत्येवं पञ्चधाध्वानं त्रिधेदानीं निगद् 2.47विज्ञानाकलपर्यन्तमात्मतत्त्वमुदाहृतम् । ईश्वरान्तं च विद्याह्वं शेषं शिवपदं विदु 2.48एवं भेदैरिमैर्भिन्नस्तत्राध्वा परिकीर्तितः । युगपत्सर्वमार्गाणां प्रभेदः प्रोच्य 2.49पार्थिवं प्राकृतं चैव मायीयं शाक्तमेव च । इति सङ्क्षेपतः प्रोक्तमेतदण्डचतुष्टयम् 2.50पृथग्द्वयमसङ्ख्यातमेकमेकं पृथक्पृथक् । आद्यं धारिकया व्याप्तं तत्रैकं तत्त्वमिष् 2.51एकमेकं पृथक्क्षार्णं पदार्णमनुषु स्मरेत् । कालाग्निभुवनाद्यावद्वीरभद्रपुरोत्तमम् 2.52पुरषोडशकं ज्ञेयं षड्विधोऽध्वा प्रकीर्तितः । आप्यायिन्या द्वितीयं च तत्र तत्त्वान 2.53त्रयोविंशत्यबादीनि तद्वद्धाद्यक्षराणि च । पदानि पञ्च मन्त्राश्च षट्पञ्चाशत्पुराण 2.54तत्त्वानि सप्त बोधिन्या तच्चतुर्धा पुराणि च । तृतीये सप्त वर्णाः स्युः पदमन्त्रद 2.55उत्पूयिन्या चतुर्थं तु तत्र तत्त्वत्रयं विदुः । वर्णत्रयं मन्त्रमेकं पदमेकं च लक 2.56अष्टादश विजानीयाद्भुवनानि समासतः । शिवतत्त्वं परं शान्तं कला तत्रावकाशदा 2.57स्वरषोडशकं मन्त्रं पदं चैकं विलक्षयेत् । इत्येवं षड्विधोऽप्यध्वा समासात्परिकीर्त 2.58शुद्धाशुद्धं जगत्सर्वं ब्रह्माण्डप्रभवं यतः । तस्माच्छुद्धमिमैः शुद्धैर्ब्रह्माण 2.59ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चेति सुव्रते । पृथगेतेषु बोद्धव्यं शान्तं पतिच 2.60यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते । एतत्ते कथितं सर्वं किमन्यत्परि