← Malinivijayottara Tantra
Malinivijayottara Tantra
दीक्षाधिकारः
47 verses · Revealed scripture (Trika agama)
11.1
अथातः संप्रवक्ष्यामि दीक्षां परमदुर्लभाम् । भुक्तिमुक्तिकरीं सम्यक्सद्यःप्रत्ययक
11.2
नास्यां मण्डलकुणादि किं चिदप्युपयुज्यते । न च न्यासादिकं पूर्वं स्नानादि च यथेच्
11.3
प्रविश्य यागसदनं सूपलिप्तं सुचर्चितम् । प्राङ्मुखोदङ्मुखो वापि सुपुष्पाम्बरभूषित
11.4
दीप्तां शक्तिमनुस्मृत्य पादाग्रान्मस्तकावधि । महामुद्राप्रयोगेन निर्दग्धां चिन्त
11.5
अनुलोमप्रयोगाच्च मालिनीममृतप्रभाम् । चिन्तयेत्तनुनिष्पत्त्यै तद्ध्यानगतमानसः
11.6
शोध्याध्वानं ततो देहे पूर्वोक्तमनुचिन्तयेत् । ततः संशोध्य वस्तूनि शक्त्यैवामृतता
11.7
परासंपुटमध्यस्थां मालिनीं सर्वकर्मसु । योजयेत्विधानज्ञः परां वा केवलां प्रिये
11.8
गणेशं पूजयित्वा तु पुरा विघ्नप्रशान्तये । ततः स्वगुरुमारभ्य पूजयेद्गुरुपद्धतिम्
11.9
गणेशाधस्ततः सर्वं यजेन्मन्त्रकदम्बकम् । तत्पतीनां ततोऽर्घं तत्रैव परिपूजयेत्
11.10
अन्त्याधः पूजयेद्विद्यां तद्वद्विद्यां महेश्वरीम् । मन्त्रविद्यागणस्यान्तः कुलशक
11.11
पूर्वयाम्यापरोदक्षु माहेश्यादिचतुष्टयम् । इन्द्राणीपूर्वकं तद्वदैशादिदल अन्तगम्
11.12
तत्रोपरि न्यसेद्देवं कूटरूपाणुनामुना । जीवं दण्डसमाक्रान्तं शूलस्योपरि संस्थितम्
11.13
दक्षाङ्गुलिं ततोऽधस्तात्ततो वामपयोधरम् । नाभिकण्ठौ ततोधस्ताद्वामस्कन्धविभूषणौ
11.14
शिवजिह्वान्वितः पश्चात्तदूर्ध्वोष्ठेन चोपरि । सर्वयोगिनिचक्राणामधिपोऽयमुदाहृतः
11.15
अस्याप्युच्चारणादेव संवित्तिः स्यात्परोदिता । ततो वीराष्टकं पश्चाच्छक्त्युक्तविध
11.16
प्रभूतैर्विविधैरिष्ट्वा गन्धधूपैः स्रगादिभिः । श्रीकारपूर्वकं नाम पादान्तं परिकल
11.17
ततः शिष्यं समाहूय बहुधा सुपरीक्षितम् । रुद्रशक्त्या तु संप्रोक्ष्य देवाग्रे विनि
11.18
भुजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् । तथैवाप्यर्पयेत्पुष्पं करयोर्गन्धदिग
11.19
निरालम्बौ तु तौ ध्यात्वा शक्त्याकृष्टौ विचिन्तयेत् । शक्तिमन्त्रितनेत्रेण बद्ध्व
11.20
ततः प्रक्षेपयेत्पुष्पं सा शक्तिस्तत्करस्थिता । यत्र तत्पतते पुष्पं तत्कुलं तस्य
11.21
मुखमुद्घाट्य तं पश्चात्पादयोः प्रतिपातयेत् । ततोऽस्य मस्तके चक्रं हस्तयोश्चार्च्
11.22
तद्धस्तौ प्रेरयेच्छक्त्या यावन्मूर्धान्तमागतौ । शिवहस्तविधिः प्रोक्तः सद्यःप्रत्
11.23
चरुकं दापयेत्पश्चाट्खर्जूरादिफलोद्भवम् । शक्त्यालम्बां तनुं कृत्वा स्थापयेदग्रतः
11.24
पुष्पक्षेपप्रयोगेन हस्तमाकृष्य दक्षिणम् । चरुकं ग्राहयेन्मन्त्री तद्ध्यानगतमानसः
11.25
शिवहस्तप्रयोगेन समारोप्य मुखं नयेत् । अनेनैव विधानेन क्षीरवृक्षसमुद्भवम्
11.26
दन्तकाष्ठं ददेत्देवि षोडशाङ्गुलमायतम् । एतेषां चालनान्मन्त्री शक्तिपातं परीक्षये
11.27
मन्दतीव्रादिभेदेन मन्दतीव्रादिकान्बुधः । इत्ययं समयी प्रोक्तः संस्थितोक्तेन वर्त
11.28
चिकीर्षुश्च यदाऌदीक्षामस्यैवार्पितमानसः । तदिष्ट्वा पूर्ववद्योगी कुलेशं तमनुक्रम
11.29
संपूज्य पूर्ववच्छिष्यमृजुदेहे विलोकयेत् । शक्तिं संचिन्त्य पादाग्रान्मस्तकान्तं
11.30
शोध्याध्वानं ततो न्यस्य सर्वाध्वव्याप्तिभाषनाम् । शक्तितत्त्वादिभेदेन पूर्वोक्ते
11.31
उपविश्य ततस्तस्य विधानमिदमाचरेत् । मूलशोध्यात्समारभ्य शक्तिं दीप्तानलप्रभाम्
11.32
योजयेच्छोध्यसंशुद्धि भावनागतमानसः । एवं सर्वाणि शोध्यानि निर्दहन्तीमनामयाम्
11.33
शिवे संचिन्तयेल्लीनां निष्कले सकलेऽपि वा । योगिना योजिता मार्गे स्वजातीयस्य पोषण
11.34
कुरुते निर्दहत्यन्यद्भिन्नजातिकदम्बकम् । अनया शोध्यमानस्य शिष्यस्यास्य महामतिः
11.35
लक्षयेच्चिह्नसंघातमानन्दादिकमादरात् । आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी
11.36
एवमाविष्टया शक्त्या मन्दतीव्रादिभेदतः । पाशस्तोभपशुग्रहौ प्रकुर्वीत यथेच्छया
11.37
गृहीतस्य पुनः कुर्यान्नियोगं शेषभुक्तये । अथवा कस्य चिन्नायमावेशः संप्रजायते
11.38
तदेनं युगपच्छक्त्या सबाह्याभ्यन्तरे दहेत् । तया संदह्यमानोऽसौ च्छिन्नमूल इव द्रु
11.39
पतते काश्यपीपृष्ठे आक्षेपं वा करोत्यसौ । यस्य त्वेवमपि स्यान्न तं चैवोपलवत्त्यजे
11.40
पृथक्तत्त्वविधौ दीक्षां योग्यतावश्यवर्जिनः । तत्त्वाभ्यासविधानेन वक्ष्यमाणेन कार
11.41
इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तनम् । कुलक्रमेष्टिरादेश्या पञ्चावस्थासमन्व
11.42
बुभुक्षोस्तु प्रकुर्वीत सम्यग्योगाभिषेचनम् । तत्रेष्ट्वा पूर्ववद्देहं विस्तीर्णै
11.43
हेमादिदीपकानष्टौ घृतेनारुणवर्तिकान् । कुलाष्टकेन संबोध्य शिवं शङ्खे प्रपूजयेत्
11.44
सर्वरत्नौषधीगर्भे गन्धाम्बुपरिपूरिते । तेनाभिषेचयेत्तं तु शिवहस्तोक्तवर्त्मना
11.45
आचार्यस्याभिषेकोऽयमधिकारपदान्वितः । कुर्यात्पिण्डादिभिस्तद्वच्चतुःषष्टिं प्रदीपक
11.46
अभिषिक्तविधावेव सर्वयोगिगणेन तु । विदितौ भवतस्तत्र गुरुर्मोक्षप्रदो भवेत्
11.47
अनयोः कथयेज्ज्ञानं त्रिविधं सर्वमप्यलम् । स्वकीयाज्ञां ददेद्योगी स्वक्रियाकरणं प
← अभिषेकाधिकारः
धारणाधिकारः →