← Malinivijayottara Tantra
Malinivijayottara Tantra

धारणाधिकारः

42 verses · Revealed scripture (Trika agama)

12.1अथैतां देवदेवस्य श्रुत्वा वाचमतिस्फुटाम् । प्रहर्षोत्फुल्लनयना जगदानन्दकारिणी 12.2संतोषामृतसंतृप्ता देवी देवगणार्चिता । प्रणम्यान्धकहन्तारं पुनराहेति भारतीम् 12.3पूर्वमेव त्वया प्रोक्तं योगी योगं समभ्यसेत् । तस्याभ्यासः कथं कार्यः कथ्यतां त्र 12.4एवमुक्तो जगद्धात्र्या भैरवो भयनाशनः । प्राह प्रसन्नगम्भीरां गिरमेतामुदारधीः 12.5योगाभ्यासविधिं देवि कथ्यमानं मया शृणु । स्थिरीभूतेन येनेह योगी सिद्धिमवाप्स्यति 12.6गुहायां भूगृहे वापि निःशब्दे सुमनोरमे । सर्वबाधाविनिर्मुक्ते योगी योगं समभ्यसेत् 12.7जितासनो जितमना जितप्राणो जितेन्द्रियः । जितनिद्रो जितक्रोधो जितोद्वेगो गतव्यथः 12.8लक्ष्यभेदेन वा सर्वमथवा चित्तभेदतः । धरादिशक्तिपर्यन्तं योगीशस्तु प्रसाधयेत् 12.9व्योमविग्रहबिन्द्वर्णभुवनध्वनिभेदतः । लक्ष्यभेदः स्मृतः षोढा यथावदुपदिश्यते 12.10बाह्याभ्यन्तरभेदेन समुच्चयकृतेन च । त्रिविधं कीर्तितं व्योम दशधा बिन्दुरिष्यते 12.11कदम्बगोलकाकारः स्फुरत्तारकसप्रभः । शुक्लादिभेदभेदेन एकोऽपि दशधा मतः 12.12चिञ्चिनीचीरवाकादिप्रभेदाद्दशधा ध्वनिः । विग्रहः स्वाणुभेदाच्च द्विधा भिन्नोऽप्यन 12.13भुवनानां न सङ्ख्यास्ति वर्णानां सा शतार्धिका । एकस्मिन्नपि साध्ये वै लक्षेदत्रान 12.14अन्यान्यपि फलानि स्युर्लक्ष्यभेदः स उच्यते । एकमेव फलं यत्र चित्तभेदस्त्वसौ मतः 12.15होमदीक्षाविशुद्धात्मा समावेशोपदेशवान् । यं सिषाधयिषुर्योगमादावेव समाचरेत् 12.16हस्तयोस्तु पराबीजं न्यस्य शक्तिमनुस्मरेत् । महामुद्राप्रयोगेन विपरीतविधौ बुधः 12.17ज्वलद्वह्निप्रतीकाशां पादाग्रान्मस्तकान्तिकम् । नमस्कारं ततः पश्चाद्बद्ध्वा हृदि 12.18स्वरूपेण पराबीजमतिदीप्तमनुस्मरेत् । तस्य मात्रात्रयं ध्यायेत्कखत्रयविनिर्गतम् 12.19ततस्तालशताद्योगी समावेशमवाप्नुयात् । ब्रह्मघ्नोऽपि हि सप्ताहात्प्रतिवासरमभ्यसेत् 12.20एवमाविष्टदेहस्तु यथोक्तं विधिमाचरेत् । यः पुनर्गुरुणैवादौ कृतावेशविधिक्रमः 12.21स वासनानुभावेन भूमिकाजयमारभेत् । गणनाथं नमस्कृत्य संस्मृत्य त्रिगुरुक्रमम् 12.22सम्यगाविष्टदेहः स्यादिति ध्यायेदनन्यधीः । स्वदेहं हेमसङ्काशं तुर्याश्रं वज्रलाञ् 12.23ततो गुरुत्वमायाति सप्तविंशतिभिर्दिनैः । दिवसात्सप्तमादूर्ध्वं जडता चास्य जायते 12.24षड्भिर्मासैर्जितव्याधिर्द्रुतहेमनिभो भवेत् । वज्रदेहस्त्रिभिश्चाब्दैर्नवनागपराक् 12.25एषा ते पार्थिवी शुद्धा धारणा परिकीर्तिता । आद्या पूर्वोदिते देवि भेदे पञ्चदशात्म 12.26सव्यापारं स्मरेद्देहं द्रुतहेमसमप्रभम् । उपविष्टं च तुर्याश्रे मण्डले वज्रभूषिते 12.27सप्ताहाद्गुरुतामेति मासाद्व्याधिविवर्जितः । षड्भिर्मासैर्धरान्तःस्थं सर्वं जानात 12.28त्रिभिरब्दैर्महीं भुङ्क्ते सप्ताम्भोनिधिमेखलाम् । द्वितीयः कथितो भेदस्तृतीयमधुना 12.29तद्वदेव स्मरेद्देहं किं तु व्यापारवर्जितम् । पूर्वोक्तं फलमाप्नोति तद्वत्पातालसं 12.30चतुर्थे हृद्गतं ध्यायेद्द्वादशाङ्गुलमायतम् । पूर्ववर्णस्वरूपेण सव्यापारमतन्द्रित 12.31प्राप्य पूर्वोदितं सर्वं पातालाधिपतिर्भवेत् । तदेव स्थिरमाप्नोति निर्व्यापारे तु 12.32स्फुरत्सूर्यनिभं पीतं षष्ठे कृष्णघनावृतम् । निस्तरङ्गं स्मरेत्तद्वत्सप्तमेऽपि वि 12.33द्वयेऽप्यत्र स्थिरीभूते भूर्भुवः स्वरिति त्रयम् । वेत्ति भुङ्क्ते च लोकानां पुरो 12.34सकलं हृदयान्तःस्थमात्मानं कनकप्रभम् । स्वप्रभाद्योतिताशेष देहान्तमनुचिन्तयेत् 12.35सव्यापारादिभेदेन सप्तलोकीं तु पूर्ववत् । वेत्ति भुङ्क्ते स्थिरीभूते भेदेऽस्मिन्न 12.36रविबिम्बनिभं पीतं पूर्ववद्द्वितयं स्मरेत् । ब्रह्मलोकमवाप्नोति पूर्वोक्तेनैव वर् 12.37अधःप्रकाशकं पीतं द्विरूपं पूर्ववन्महत् । चिन्तयेन्मत्समो भूत्वा मल्लोकमनुगच्छति 12.38सबाह्याभ्यन्तरं पीतं तेजः सर्वप्रकाशकम् । चिन्तयेच्छतरुद्राणामधिपत्वमवाप्नुयात् 12.39इत्येवं पृथिवीतत्त्वमभ्यस्यं दशपञ्चधा । योगिभिर्योगसिद्ध्यर्थं तत्फलानि बुभुक्षय 12.40योग्यतावशगा जाता यस्य यत्रैव वासना । स तत्रैव नियोक्तव्यो दीक्षाकाले विचक्षणैः 12.41यो यत्र योजितस्तत्त्वे स तस्मान्न निवर्तते । तत्फलं सर्वमासाद्य शिवयुक्तोऽपवृज्य 12.42अयुक्तोऽप्यध्वसंशुद्धिं संप्राप्य भुवनेशतः । शुद्धः शिवत्वमायाति दग्धसंसारबन्धनः