← Malinivijayottara Tantra
Malinivijayottara Tantra

कुलचक्राधिकारः

58 verses · Revealed scripture (Trika agama)

19.1अथैनं परमं योगविधिमाकर्ण्य शाङ्करी । पुनराह प्रसन्नास्या प्रणिपत्य जगद्गुरुम् 19.2साध्यत्वेन श्रुता देव भिन्नयोनिस्तु मालिनी । विद्यात्रयं सविद्याङ्गं विधिवच्चावध 19.3अधुना श्रोतुमिच्छामि ह्यभिन्ना साध्यते कथम् । हिताय साधकेन्द्राणां प्रसादाद्वक्त 19.4एवमुक्तो महेशान्या जगतां पतिरादरात् । विकसद्वदनाम्भोजः प्रत्युवाच वचोऽमृतम् 19.5आरिराधयिषुः शंभुं कुलोक्तविधिना बुधः । कुलचक्रं यजेदादौ बुधो दीक्षोक्तवर्त्मना 19.6ततो जपेत्पराम्शक्तिं लक्षमेकमखण्डितम् । पराबीजपुटान्तःस्थां न द्रुतां न विलम्बित 19.7तद्वत्खण्डाष्तकं चास्या लक्षं लक्षमखण्डितम् । जपेत्कुलेश्वरस्यापि लक्षषट्कमनन्यध 19.8होमयित्वा दशांशेन द्रव्यं पूर्वोदितं बुधः । नित्यानुस्मृतिशीलस्य वाक्सिद्धिः संप 19.9स्वकुले जपयुक्तस्य अशक्तस्यापि साधने । भवन्ति कन्यसा देवि संसारे भोगसंपदः 19.10शक्तस्तु साधयेत्सिद्धिं मध्यमामुत्तमामपि । कृतसेवाविधिः पृथ्वीं भ्रमेदुद्भ्रान्त 19.11नगरे पञ्चरात्रं तु त्रिरात्रं पत्तने तु वै । ग्रामेऽपि चैकरात्रं तु स्थित्वैनं व 19.12यन्नामाद्यक्षरं यत्र वर्गे तत्तस्य वस्तुनः । कुलमुक्तं विधानज्ञैर्नगरादेर्न संशय 19.13या यत्र देवता वर्गे वाच्यत्वे संव्यवस्थिता । सैव तस्य पतित्वेन ध्येया पूज्या च स 19.14तस्य किं चित्समासाद्य नगरादिकमादरात् । स्वदिग्वर्गस्थितो भूत्वा चक्रं योज्य निजो 19.15अवा … समेकैक उदिते … देवता माहेश्वर … 19.16क्रमेणैव यथा रात्रौ … तथाऌदिवा । स्वदिशि स्वोदये वर्गं तमेवानुस्मरेद्बुधः 19.17तिष्ठेदन्योदयं यावत्ततः स्वां दिशमाश्रयेत् । स्वकुलं चिन्तयन्यायात्तद्देशकुलमेव 19.18यावदन्यां दिशं मन्त्री ततस्तदनुचिन्तयेत् । एवं यावत्स्वकं स्थानं कुलचक्रोक्तवर्त 19.19भ्रमित्वा पुनरायाति पूर्वकालक्रमेण च । तावदागत्य देवेशि तदेशकुलनायिका 19.20ददेद्भक्ष्यादिकं किं चिद्दापयेद्वाथ केन चित् । अनेन विधिना युक्तो गुप्ताचारो दृढ 19.21योगिनीमेलकं प्राप्य षण्मासेनैव सिद्ध्यति । दुष्करोऽयं विधिर्देवि सत्त्वहीनैर्नरा 19.22सर्वसिद्धिकरो मुख्यः कुलशास्त्रेषु सर्वतः । अथैकस्मिन्नपि ग्रामे पत्तने नगरेऽपि 19.23तद्दिग्भागं समाश्रित्य तदेवजपते कुलम् । त्रिभिरब्दैरनायासात्साधयेदुत्तमं फलम् 19.24लोकयात्रापरित्यक्तो ग्रासमात्रपरिग्रहः । अथवा नाभिचक्रे तु ध्यानचक्रं कुलात्मकम् 19.25चेतसा भ्रमणं कुर्यात्सर्वकालक्रमेण तु । ततोऽस्य वत्सरार्धेन देहान्तं योगिनीकुलम् 19.26आविर्भवत्यसंदेहात्स्वविज्ञानप्रकाशकम् । तेनाविर्भूतमात्रेण योगी योगिकुले कुली 19.27भवेदपि पतिर्देवि योगिनां परमेश्वरि । अथवा चिन्तयेद्देवि यकारादिक्रमाष्टकम् 19.28स्वरूपेण प्रभाकारकरालाकुलविग्रहम् । तस्य मध्ये कुलेशानं स्वबोधकमनुस्मरन् 19.29सर्वमेव च तत्पश्चाच्चक्रं दीपशिखाकृतिम् । संभूतं चिन्तयेद्योगी योगिनीपदकाङ्क्षया 19.30एतस्मिन्व्यक्तिमापन्ने पिण्डस्थं बुद्ध उच्यते । ततोऽस्याकस्मिकी देवि महामुद्रोपज 19.31शृङ्गारवीरकारुण्यशोककोपादयस्तथा । प्रबुद्धमेतदुद्दिष्टं पिण्डस्थममरार्चिते 19.32दिवसैरभियुक्तस्य ततोऽस्य बहुभिर्दिनैः । धरादितत्त्वभावानां संवित्तिरुपजायते 19.33सुप्रबुद्धं तदिच्छन्ति पिण्डस्थं ज्ञानमुत्तमम् । चक्रं च त्रिगुणाष्टारमथवा तत्र 19.34कादिहान्ताक्षराक्रान्तं पूर्वरूपं सबिन्दुकम् । तत्रापि पूर्ववत्सर्वं कुर्वन्नेतद 19.35आदिवर्णान्वितं वाथ षोडशारमनुस्मरन् । मध्यक्रमेण वा योगी पञ्चमं चुम्बकादिभिः 19.36द्वासप्ततिसहस्राणि नाडीनां नाभिचक्रके । यतः पिण्डत्वमायान्ति तेनासौ पिण्ड उच्यते 19.37तत्र स्थितं तु यज्ज्ञेयं पिण्डस्थं तदुदाहृतम् । अ … ंअल … त्केश … कम् 19.38विज्वरत्वमवाप्नोति वत्सरेण यदृच्छया । चक्रपञ्चकमेतद्धि पूर्ववद्धृदये स्थितम् 19.39पदस्थमिति शंसन्ति चतुर्व्हेदं विचक्षणाः । यत्रार्थावगतिर्देवि तत्स्थानंपदमुच्यन् 19.40चतुष्कमत्र विज्ञेयं भेदं पञ्चदशात्मकम् । सर्वतोभद्रसंसिद्धौ सर्वतोभद्रतां व्रजेत 19.41जरामरणनैर्गुण्यनिर्मुक्तो योगचिन्तकः । व्याप्तावपि प्रसिद्धायां मायाधस्तत्त्वगोच 19.42वेत्ति तत्पतितुल्यत्वं तदीशत्वं च गच्छति । पदस्थे किं तु चन्द्राभं प्रदीपाभं न च 19.43एतदेवामृतौघेन देहमापूरयत्स्वकम् । चिन्तितं मृत्युनाशाय भवतीति किमद्भुतम् 19.44उपलक्षणमेतत्ते चन्द्रबिम्बाद्युदीरितम् । येन येनैव रूपेण चिन्त्यते परमेश्वरी 19.45पिण्डस्थादिप्रभेदेषु तेनैवेष्टफलप्रदा । रूपमैश्वरमिच्छन्ति शिवस्याशिवहारिणः 19.46यद्भ्रूमध्यस्थितं यस्मात्तेन तत्रव्यवस्थितम् । पञ्चकं सूर्यसंकाशं रूपस्थमभिधीयते 19.47तत्रापि पूर्ववत्सिद्धिरीश्वरान्तपदोद्भवा । रूपातीतं तु देवेशि प्रागेवोक्तमनेकधा 19.48इत्येषा कुलचक्रस्य समासाद्व्याप्तिरुत्तमा । कथिता सर्वसिद्ध्यर्थं सिद्धयोगीश्वरी 19.49सर्वदाथ विभेदेन पृथग्वर्णविभेदतः । विद्यादिसर्वसंसिद्ध्यै योगिनां योगमिच्छन्ति 19.50भूयोऽपि संप्रदायेन वर्णभेदश्च कीर्त्यते । स्त्रीरूपां हृदि संचिन्त्य सितवस्त्राद 19.51नाभिचक्रोपविष्टाम्तु चन्द्रकोटिसमप्रभाम् । बीजं यत्सर्वशास्त्राणां तत्तदा स्यादन 19.52स्वकीयेनैव वक्त्रेण निर्गच्छत्प्रविचिन्तयेत् । तारहारलताकारं विस्फुरत्किरणाकुलम् 19.53वर्णैस्तारकसंकाशैरारब्धममिताद्युति । मासार्धाच्छास्त्रसंघातमुद्गिरत्यनिवारितम् 19.54स्वप्ने मासात्समाधिस्थः षड्भिर्मासैर्यथेच्छया । उच्छिन्नान्यपि शास्त्राणि ग्रन्थ 19.55जानाति वत्सराद्योगी यदि तन्मयतां गतः । अनुषङ्गफलं चैतत्समासादुपवर्णितम् 19.56विद्येश्वरसमानत्वसिद्धिरन्याश्च सिद्धयः । प्रतिवर्नविभेदेन यथेदानीं तथोच्यते 19.57ध्यातव्या योगिभिर्नित्यं तत्तत्फलबुभुक्षुभिः । विन्यासक्रमयोगेन त्रिविधेनापि वर् 19.58यो यत्राङ्गे स्थितो वर्णः कुलशक्तिसमुद्भवः । तं तत्रैव समाधाय स्वरूपेणैव योगवित्