← Malinivijayottara Tantra
Malinivijayottara Tantra
परमविद्याधिकारः
82 verses · Revealed scripture (Trika agama)
18.1
शृणु देवि परं गुह्यमप्राप्यमकृतात्मनाम् । यन्न कस्य चिदाख्यातं तदद्य कथयामि ते
18.2
सर्वमन्यत्परित्यज्य चित्तमत्र निवेशयेत् । मृच्छैलधातुरत्नादिभवं लिङ्गं न पूजयेत्
18.3
यजेदाध्यात्मिकं लिङ्गं यत्र लीनं चराचरम् । बहिर्लिङ्गस्य लिङ्गत्वमनेनाधिष्ठितं य
18.4
अतः प्रपूजयेदेतत्परमाद्वैतमाश्रितः । अनुध्यानेन देवेशि परेण परमाणुना
18.5
योऽनुध्यातः स एवैतल्लिङ्गं पश्यति नापरः । यदेतत्स्पन्दनं नाम हृदये समवस्थितम्
18.6
तत्र चित्तं समाधाय कम्प उद्भव एव च । तत्र प्रशान्तिमाप्नोति मासेनैकेन योगवित्
18.7
हृदयादुत्थितं लिङ्गं ब्रह्मरन्ध्रान्तमीश्वरि । स्वप्रभोद्द्योतिताशेषदेहान्तममलद्
18.8
तत्रैव पश्यते सर्वं मन्त्रजालं महामतिः । तन्मस्तकं समारुह्य मासमात्रमनन्यधीः
18.9
ततस्तत्र सुनिष्पन्ने षण्मासात्सर्वसिद्धयः । एतल्लिङ्गमविज्ञाय यो लिङ्गी लिङ्गमाश
18.10
वृथाऌपरिश्रमस्तस्य न लिङ्गफलमश्नुते । शैवमेतन्महालिङ्गमात्मलिङ्गे न सिद्ध्यति
18.11
सिद्धेऽत्र लिङ्गवल्लिङ्गी लिङ्गस्थो लिङ्गवर्जितः । भवतीति किमाश्रयमेतस्माल्लिङ्ग
18.12
अनेन लिङ्गलिङ्गेन यदा योगी बहिर्व्रजेत् । तदा लिङ्गीति विज्ञेयः पुरान्तं लिङ्गमि
18.13
एतस्माल्लिङ्गविज्ञानाद्योगिनो लिङ्गिताः स्मृताः । अनेनादिष्ठिताः मन्त्राः शान्तर
18.14
भवन्तीति किमाश्चर्यं तद्भावगतचेतसः । रौद्रं भावं सम्श्रित्य यदि योगं समभ्यसेत्
18.15
दुर्निरीक्ष्यो भवेत्सर्वैः सदेवासुरमानुषैः । गमागमविनिर्मुक्तः सर्वदृष्टिरकातरः
18.16
मुहूर्तं तिष्ठते यावत्तावदेवेशमाप्नुयात् । आविष्टः पश्यते सर्वं सूर्यकोटिसमद्युत
18.17
यत्तदक्षरमव्यक्तं शैवं भैरवमित्यपि । तं दृष्ट्वा वत्सरार्धेन योगी सर्वज्ञतामियात
18.18
य एवैनं समासाद्य यस्तृप्तिमधिगच्छति । न च कृत्रिमयोगेषु स मुक्तः सर्वबन्धनैः
18.19
प्राणायामादिकैर्लिङ्गैर्योगाः स्युः कृत्रिमा मताः । तेन तेऽकृतकस्यास्य कलां नार्
18.20
एतत्समभ्यसन्योगी दिव्यचिह्नानि पश्यति । उपविष्ट ऋजुर्योगी न किञ्चिदपि चिन्तयेत्
18.21
मुहूर्तान्निर्दहेत्सर्वं देहस्थमकृतं कृतम् । दह्यमानस्य तस्येह प्रकम्पानुभवो भवे
18.22
ततस्तत्र स्थिरीभूते ज्योतिरन्तः प्रकाशते । तां दृष्ट्वा परमां दीप्तिं दिव्यज्ञान
18.23
स्वतन्त्रशिवतामेति भुञ्जानो विषयानपि । अनिमीलितदिव्याक्षो यावदास्ते मुहूर्तकम्
18.24
तस्मात्सर्वगतं भावमात्मनः प्रतिपद्यते । तमेव भावयेद्यत्नात्सर्वसिद्धिफलेप्सया
18.25
ततस्तं भावयेद्योगी कम्पमानोऽत्यनुल्बणम् । ततः प्रपश्यते तेजो ललाटाग्रे समन्ततः
18.26
दृष्ट्वा तत्परमं तेजो दिव्यज्ञानमवाप्नुयात् । षड्भिर्मासैरनायासाद्वत्सरेण प्रसिद
18.27
शिवतुल्यबलो भूत्वा यत्रेष्टं तत्र गच्छति । चेतः सर्वगतं कृत्वा मुहूर्तादेव योगवि
18.28
शक्यावेशमवाप्नोति प्रकम्पानुभवात्मकम् । ततस्तत्र स्थिरीभूते मासमात्रेण योगवित्
18.29
शाक्तं प्रपश्यते तेजः सबाह्याभ्यन्तरे स्थिरम् । तत्र सम्यक्सुनिष्पन्ने सर्वेन्द्
18.30
तत्र स्फुटमवाप्नोति विज्ञानमनिवारितम् । सर्वगं चात्र विज्ञेयं यदक्षर्थेन संगतम्
18.31
एवमेवेदमाख्यातं तत्त्वं पर्यायभेदतः । कर्मेन्द्रियाणि बुद्ध्यन्तं परित्यज्य समस्
18.32
भावयेत्परमां शक्तिं सर्वत्रैव विचक्षणः । निश्चलं तु मनः कृत्वा यावत्तन्मयतां गतः
18.33
तावत्सर्वगत भावं क्षणमात्रात्प्रपद्यते । निर्दह्य पाशजालानि यथेष्टं फलमाप्नुयात्
18.34
तस्मात्समभ्यसेदेनं कृत्वा निश्चयमात्मनः । यत्राधारविनिर्मुक्तो जीवो लयमवाप्स्यति
18.35
तत्स्थानं सर्वमन्त्राणामुत्पत्तिक्षेत्रमिष्यते । द्विविधं तत्परिज्ञेयं बाह्याभ्य
18.36
प्रयातवाधिकाऌमात्रा सा ज्ञेया सर्वसिद्धिदा । अथवा गच्छतस्तस्य स्वप्नवृत्त्या विच
18.37
निरोधं मध्यमे स्थाने कुर्वीत क्षणमात्रकम् । पश्यते तत्र चिच्छक्तिं तुटिमात्रामखण
18.38
तदेव परमं तत्त्वं तस्माज्जातमिदं जगत् । स एव मन्त्रदेहस्तु सिध्हयोगीश्वरीमते
18.39
तेनैवालिङ्गिता मन्त्राः सर्वसिद्धिफलप्रदाः । ईषद्व्यावृत्तवर्णस्तु हेयोपादेयवर्ज
18.40
यां संवित्तिमवाप्नोति शिवतत्त्वं तदुच्यते । तत्र चित्तं स्थिरीकुर्वन्सर्वज्ञत्वम
18.41
तत्रैव दिव्यचिह्नानि पश्यते च न संशयः । यत्रैव कुत्र चिद्गात्रे विकार उपजायते
18.42
संकल्पपूर्वको देवि तत्तत्त्वं तत्त्वमुत्तमम् । तदभ्यसेन्महायोगी सर्वज्ञत्वजिगीषय
18.43
प्राप्नोति परमं स्थानं भुक्त्वा सिद्धिं यथेप्सिताम् । गन्धपुष्पादिभिर्योगी नित्य
18.44
ब्रह्मरन्ध्रप्रदेशे तु पूजयेद्भावतोऽपि वा । द्रवद्द्रव्यसमायोगात्स्नपनं तस्य जाय
18.45
गन्धपुष्पादिगन्धस्य ग्रहणं यजनं मतम् । षड्रसास्वादनं तस्य नैवेद्याय प्रकल्पते
18.46
यमेवोच्चारयेद्वर्णं स जपः परिकीर्तितः । तत्र चेतः समाधाय दह्यमानस्य वस्तुनः
18.47
ज्वालनतस्तिष्ठते यावत्तावद्धोमः कृतो भवेत् । यदेव पश्यते रूपं तदेव ध्यानमिष्यते
18.48
प्रसङ्गादिदमुद्दिष्टमद्वैतयजनं महत् । उदयार्कसमाभासमूर्ध्वद्वारे मनः स्थिरम्
18.49
हृदि वाऌतत्तथा कुर्याद्द्वादशान्तेऽथवाप्नुयात् । ततो मासार्धमात्रेण तद्रूपमुपलभ्
18.50
उपलब्धं तदभ्यस्य सर्वज्ञत्वाय कल्पते । वस्त्रेण मुखमाच्छाद्य योगी लक्ष्ये नियोजय
18.51
नाभिकन्दादधस्तात्तु यावत्तत्त्वं शिखावधि । सूक्ष्मतारकसंकाशं रश्मिज्वालाकरालितम्
18.52
प्राणशक्त्यवसाने तु पश्यते रूपमात्मनः । तदेवाभ्यासतो देवि विकासमुपगच्छति
18.53
तन्मुखं सर्वमन्त्राणां सर्वतन्त्रेषु पठ्यते । ततोऽस्य मासमात्रेण का चित्संवित्ति
18.54
यतः सर्वं विजानाति हृदये संव्यवस्थितं । तां ज्ञात्वा कस्य चिद्योगी न सम्यक्प्रति
18.55
अध्यायात्कथनं कुर्यान्नाकाले मृत्युमाप्नुयात् । मृतोऽपि श्वभ्रसंघाते क्रमेण परिप
18.56
एवं ज्ञात्वाऌमहादेवि स्वहितं समुपार्जयेत् । शिष्योऽप्यन्यायतो गृह्णन्नरकं प्रतिप
18.57
न च तत्कालमाप्नोति वचस्त्ववितथं मम । न्यायेन ज्ञानमासाद्य पश्चान्न प्रतिपद्यते
18.58
तदा तस्य प्रकुर्वीत विज्ञानापहृतिं बुधः । ध्यात्वा तमग्रतः स्थाप्य स्वरूपेणैव यो
18.59
षड्विधं विन्यसेन्मार्गं तस्य देहे पुरोक्तवत् । ततस्तं दीपमालोक्य तदङ्गुष्ठाग्रतः
18.60
नयेत्तेजः समाहृत्य द्वादशान्तमनन्यधीः । ततस्तं तत्र संचिन्त्य शिवेनैकत्वमागतम्
18.61
तत्र ध्यायेत्तमोरूपं तिरोभावनशीलनम् । पतन्तीं तेन मार्गेण ह्यङ्गुष्ठाग्रान्तमागत
18.62
सबाह्याभ्यन्तरं ध्यायेन्निविडाञ्जनसप्रभाम् । अनेन विधिना तस्य मूढबुद्धेर्दुरात्म
18.63
विज्ञानमन्त्रविद्याद्या न कुर्वन्त्युपकारिताम् । चित्ताभिसन्धिमात्रेण ह्यदृष्टस्
18.64
कथं चिदुपलब्धस्य नित्यमेवापकारिणः । अथवा सूर्यबिम्बाभं ध्यात्वा विच्छेद्यमग्रतः
18.65
स्वर्भानुरूपया शक्त्या ग्रस्तं तमनुचिन्तयेत् । अपराधसहस्रैस्तु कोपेन मह्तान्वितह
18.66
विधिमेनं प्रकुर्वीत क्रीडार्थं न तु जातु चित् । अनेन विधिना भ्रष्टो विज्ञानादपरे
18.67
न शक्यो योजितुं भूयो यावत्तेनैव नोद्धृतः । करुणाकृष्टचित्तस्तु तस्य कृत्वा विशोध
18.68
प्राणायामादिभिस्तीव्रैः प्रायश्चित्तैऋ विधिश्रुतैः । ततस्तस्य प्रकुर्वीत दीक्षां
18.69
ततः सर्वमवाप्नोति फलं तस्मादनन्यधीः । एवं ज्ञात्वा प्रयत्नेन गुरुमासादयेत्सुधीः
18.70
यतः संतोष उत्पन्नः शिवज्ञानामृतात्मकः । न तस्यान्वेषयेद्वृत्तं शुभं वा यदि वाशुभ
18.71
स एव तद्विजानाति युक्तं वायुक्तमेव वा । अकार्येषु यदा सक्तः प्राणद्वयापहारिषु
18.72
तदा निवारणीयोऽसौ प्रणतेन विपश्चिता । तेनातिवार्यमाणोऽपि यद्यसौ न निवर्तते
18.73
तदान्यत्र क्व चिद्गत्वा शिवमेवानुचिन्तयेत् । एष योगविधिः प्रोक्तः समासाद्योगिनां
18.74
नात्र शुद्धिर्न चाशुद्धिर्न भक्ष्यादिविचारणम् । न द्वैतं नापि चाद्वैतं लिङ्गपूजा
18.75
न चापि तत्परित्यागो निष्परिग्रहतापि वा । सपरिग्रहता वापि जटाभस्मादिसंग्रहः
18.76
तत्त्यागो न व्रतादीनां चरणाचरणं च यत् । क्षेत्रादिसंप्रवेशश्च समयादिप्रपालनम्
18.77
परस्वरूपलिङ्गादि नामगोत्रादिकं च यत् । नास्मिन्विधीयते किं चिन्न चापि प्रतिषिध्य
18.78
विहितं सर्वमेवात्र प्रतिषिद्धमथापि वा । किं त्वेतदत्र देवेशि नियमेन विधीयते
18.79
तत्त्वे चेतः स्थिरीकार्यं सुप्रयत्नेन योगिना । तच्च यस्य यथैव स्यात्स तथैव समाचर
18.80
तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि । न संस्पृश्येत दोषैः स पद्मपत्रमिवाम्
18.81
विषापहारिमन्त्रादिसंनद्धो भक्षयन्नपि । विषं न मुह्यते तेन तद्वद्योगी महामतिः
18.82
इत्येतत्कथितं देवि किमन्यत्परिपृच्छसि
← षडङ्गयोगाधिकारः
कुलचक्राधिकारः →