← Malinivijayottara Tantra
Malinivijayottara Tantra

चन्द्राकृष्ट्यधिकारः

36 verses · Revealed scripture (Trika agama)

21.1अथातः परमं गुह्यं शिवज्ञानामृतोत्तमम् । व्याधिमृत्युविनाशाय योगिनामुपवर्ण्यते 21.2षोडशारे खगे चक्रे चन्द्रकल्पितकर्णिके । स्वरूपेण परां तत्र स्रवन्तीममृतं स्मरेत् 21.3पूर्वन्यासेन संनद्धः क्षणमेकं विचक्षणः । ततस्तु रसनां नीत्वा लम्बके विनियोजयत् 21.4स्रवन्तममृतं दिव्यं चन्द्रबिम्बसितं स्मरेत् । मुखमापूर्यते तस्य किं चिल्लवणवारिण 21.5लोहगन्धेन तच्चात्र न पिबेत्किं तु निक्षिपेत् । एवं समभ्यसेत्तावद्यावत्तत्स्वादु 21.6जराव्याधिविनिर्मुक्तो जायते तत्पिबंस्ततः । षड्भिर्मासैरनायासाद्वत्सरान्मृत्युजिद 21.7तत्र स्वादुनि संजाते तदाप्रभृति तत्रगम् । यदेव चिन्तयेद्द्रव्यं तेनास्यापूर्यते 21.8रुधिरं मदिरं वाथ वसां वा क्षीरमेव वा । घृततैलादिकं वाथ द्रवद्द्रव्यमनन्यधीः 21.9अथान्यं संप्रवक्ष्यामि संक्रान्तिविधिमुत्तमम् । मृते जीवच्छरीरे तु प्रविशेद्योगव 21.10निवातस्थो जितप्राणो जितासनविधिक्रमः । कुर्वीत वायुनावेशमर्कतूले शनैः शनैः 21.11स्वादाकृष्टिविधिं यावद्गुडे निम्बे च कारयेत् । श्रीखण्डगुडकर्पूरैस्ततः कृत्वाकृत 21.12प्रगुणामगुण … ंयङ्गेषु संदधत् । न्यासं कृत्वापि तत्रापि वेधं कुर्याच्छनैः शनैः 21.13निरोधं तत्र कुर्वीत घट्टनं तदनन्तरम् । घट्टनं नाम विज्ञेयमङ्गप्रत्यङ्गचालनम् 21.14एवमभ्यसतस्तस्य योगयुक्तस्य योगिनः । चलते प्रतिमा सा तु धावते चापि संमुखी 21.15पुनस्तां प्रेरयेत्तावद्यावत्स्वस्थानमागतम् । पतितां चालयेद्भूय उत्तानां पार्श्वत 21.16एवं सर्वात्मनस्तावद्यावत्स्ववशतां गताम् । ततः प्रभृत्यसौ योगी प्रविशेद्यत्र रोचत 21.17मृते जीवच्छरीरे वा संक्रान्त्याक्रान्तिभेदतः । प्रक्षिप्य जलवच्छक्तिजालम्सर्वाङ् 21.18प्रत्यङ्गमङ्गतस्तस्य शक्तिं तेनाक्रमेद्बुधः । स्वकीयं रक्षयेद्देहमाक्रान्तावन्यथ 21.19बहून्यपि शरीराणि दृढलक्ष्यो यदाऌभवेत् । तदाऌगृह्णात्यसंदेहं युगपत्संत्यजन्नपि 21.20अथापरं प्रवक्ष्यामि सद्यःप्रत्ययकारकम् । समाधानामृतं दिव्यं योगिनां मृत्युनाशनम् 21.21चन्द्राकृष्टिकरं नाम मासाद्वाऌयोगभोगदम् । शुक्लपक्षे द्वितीयायां मेषस्थे तिग्मरो 21.22स्नातः शुचिर्निराहारः कृतपूजाविधिर्बुधः । न्यसेच्चन्द्रे कलाजालं परया समधिष्ठितम 21.23सर्वबाधापरित्यक्ते प्रदेशे संस्थितो बुधः । एकचित्तः प्रशान्तात्मा शिवसद्भावभावित 21.24तावदालोकयेच्चन्द्रं यावदस्तमुपागतम् । ततो भुञ्जीत दुग्धेन चन्द्रध्यानसमन्वितः 21.25एवं दिने दिने कुर्याद्यावत्पञ्चदशी भवेत् । शेषां रात्रिं स्वपेद्ध्यायंशॢचन्द्रबि 21.26पौर्णमासीं तथा योगी अर्धरात्र उपस्थितः । जने निःशब्दतां याते प्रसुप्ते सर्वजन्तु 21.27चन्द्रकोटिकरप्रख्यां तारहारविभूषणाम् । सिताम्बरपरीधानां सितचन्दनचर्चिताम् 21.28मौक्तिकाभरणोपेतं सुरूपां नवयौवनाम् । आप्यायनकरीं देवीं समन्तादमृतस्रवाम् 21.29राजीवासनसंस्थां च योगनिद्रामवस्थिताम् । चन्द्रबिम्बे परां देवीं ईक्षते नात्र संश 21.30ततस्तां चेतसा व्याप्य तावदाकर्षयेत्सुधीः । यावन्मुखाग्रमायाता तत्र कुर्यात्स्थिर 21.31ततः प्रसार्य वदनं ध्यानासक्तेन चेतसा । निगिरेत्तां समाकृष्य भूयो हृदि विचिन्तयेत 21.32तया प्रविष्टया देहं योगी दुःखविवर्जितः । शक्तितुल्यबलो भूत्वा जीवेदाचन्द्रतारकम् 21.33एकोऽप्यनेकधात्मानं संविभज्य निजेच्छया । त्रैलोक्यं यौगपद्येन भुनक्ति वशतां गतम् 21.34आसाद्य विपुलान्भोगान्प्रलये समुपस्थिते । परमभ्येति निर्वाणं दुष्प्रापमकृतात्मनाम 21.35अथवा तन्न शक्नोति गगने परिचिन्तितुम् । प्रतिबिम्बे तथा ध्यायेदुदकादिषु पूर्ववत् 21.36तत्पीत्वाऌमनसा शेषां स्वपेद्रात्रिमनुस्मरन् । पूर्वोक्तं समवाप्नोति षड्भिर्मासैर