← Malinivijayottara Tantra
Malinivijayottara Tantra
सूर्याकृष्ट्यधिकारः
34 verses · Revealed scripture (Trika agama)
22.1
अथान्यं परमं गुह्यं कथयामि तव प्रिये । यन्न कस्य चिदाख्यातं योगामृतमनुत्तमम्
22.2
सूर्याकृष्टिकरं नाम योगिनां योगसिद्धिदम् । सम्यङ्मासचतुष्केण दिनाष्टाभ्यधिकेन तु
22.3
प्रहर्स्याष्टमो भागो नाडिकेत्यभिधीयते । तत्पादक्रमवृद्ध्या तु प्रतिवासरमभ्यसेत्
22.4
उदयास्तमयं यावद्यत्र सूर्यः प्रदृश्यते । प्रदेशे तत्र विजने सर्वबाधाविवर्जिते
22.5
अहोरात्रोषितो योगी मकरस्थे दिवाकरे । शुचिर्भूत्वा कृतन्यासः कृतशीतप्रतिक्रियः
22.6
भानुबिम्बे न्यसेच्चक्रमष्टषड्द्वादशारकम् । शिवशक्तिघनोपेतं भैरवाष्टकसंयुतम्
22.7
वर्षादिऋतुसंयुक्तं मासैरृक्षादिभिर्युतम् । अष्टारं चिन्तयेद्बिम्बे शेषं रश्मिषु
22.8
तत्र चित्तं समाधाय प्रोक्तकालं विचक्षणः । अनिमीलितनेत्रस्तु भानुबिम्बं निरीक्षये
22.9
ततः काले व्यतिक्रान्ते सुनिमीलितलोचनः । प्रविशेदन्धकारान्तर्भुवनं निरुपद्रवम्
22.10
तत्रोन्मीलितनेत्रस्तु बिम्बाकारं प्रपश्यति । संधाय तत्र चैतन्यं तिष्ठेद्यावन्न प
22.11
नष्टेऽपि चेतसा शेषं तिष्ठेत्कालमनुस्मरन् । एवं मासेन देवेशि स्थिरं तदुपजायते
22.12
मासद्वयेन सर्वत्र प्रेक्षते नात्र संशयः । त्रिभिः समीक्षते सर्वं रविबिम्बसमाकुलम
22.13
प्रोक्तकालावसानेन वृषस्थे तिग्मरोचिषि । प्रेक्षते सूर्यबिम्बान्तः सचक्रं परमेश्व
22.14
उपलब्धं समाकृष्य मुखाग्रे स्थिरतां नयेत् । आपीय पूर्ववत्पश्चाद्वृत्तिं निश्चलतां
22.15
तत्र तेन सहात्मानमेकीकृत्य मुहूर्तकम् । यावत्तिष्ठति देवेशि तावत्संत्यजति क्षिति
22.16
पश्यतो जनवृन्दस्य याति सूर्येन चैकतः । अनेन विधिना देवि सिद्धयोगीश्वरेश्वरः
22.17
शिवाद्यवनिपर्यन्तं न क्व चित्प्रतिहन्यते । भुक्त्वा तु विपुलान्भोगान्निष्कले लीय
22.18
तदेतत्खेचरीचक्रं यत्र खेचरतां व्रजेत् । सिद्धयोगेश्वरीतन्त्रे सरहस्यमुदाहृतम्
22.19
अथवा चक्ररूपेण सबाह्याभ्यन्तरं स्वकम् । देहं चिन्तयतः पूर्वं फलं स्यान्निश्चितात
22.20
उच्चरन्फादिनान्तां वा ध्वनिज्योतिर्मरुद्द्युताम् । विश्राम्य मस्तके चित्तं क्षणम
22.21
त्रिशूलेन प्रयोगेन सद्यस्त्यजति मेदिनीम् । एवं समभ्यसन्मासाच्चक्रवद्भ्रमति क्षित
22.22
मुहूर्तं स्पृशते भूमिं मुहूर्ताच्च नभस्तलम् । शिवारावादि कुरुते वलनास्फोटनानि च
22.23
मुद्राबन्धादिकं वाथ भाषा वाऌवक्त्यनेकधा । षण्मासान्मेदिनीं त्यक्त्वा समाधिस्थो द
22.24
तिष्ठते हस्तमात्रेण गगने योगचिन्तकः । पश्यते योगिनीवृन्दमनेकाकारलक्षणम्
22.25
संवत्सरेण युक्तात्मा तत्समानः प्रजायते । पश्यतामेव लोकानां तेजोभिर्भासयन्दिशः
22.26
यात्युत्कृष्य महीपृष्ठात्खेचरीणां पतिर्भवेत् । मुद्रा खगेश्वरी नाम कथिता योगिनीम
22.27
जागरित्वाथ वा योगी त्र्यहोरात्रमतन्द्रितः । चतुर्थेऽह्नि निशारम्भे पूजयित्वा महे
22.28
ततोऽन्धकारे बहुले कृतरक्षाविधिर्बुधः । भ्रुवोर्मध्ये समाधाय क्षणं चेतः प्रपश्यति
22.29
तेजो रूपप्रतीकाशं पर्यङ्कासनमास्थितः । प्रयोगं त्वेव सततं योगयुक्तः समभ्यसेत्
22.30
पश्यते मासमत्रेण गृहान्तर्वस्तु यत्स्थितम् । द्वाभ्यां बहिः स्थितं सर्वं त्रिभिः
22.31
चतुर्भिर्विषयान्तःस्थं पञ्चभिर्मण्डलावधि । षड्भिर्मासैर्महायोगी च्छिद्रं पश्यति
22.32
सर्वज्ञत्वमवाप्नोति वत्सरान्नात्र संशयः । योगिनीसिद्धसङ्घस्य सद्भावव्याप्तिसंस्थ
22.33
पश्यते योगयुक्तात्मा तत्समानश्च जायते । अनेनैव विधानेन स्वस्तिकासनसंस्थितः
22.34
बिन्दुं नानाविधं त्यक्त्वा शुद्धरूपमनुस्मरेत् । तेनापि सर्वं पुर्वोक्तं व्याप्नो
← चन्द्राकृष्ट्यधिकारः
त्रयोविंशतितमोऽधिकारः →