← Malinivijayottara Tantra
Malinivijayottara Tantra
त्रयोविंशतितमोऽधिकारः
45 verses · Revealed scripture (Trika agama)
23.1
अथातः परमं गुह्यं कथयामि तवाधुना । सद्योपलब्धिजनकं योगिनां योगसिद्धये
23.2
पूर्वन्यासेन संनद्धश्चित्तं श्रोत्रे निवेशयेत् । निवाते स्वल्पवाते वा बाह्यशब्दव
23.3
ततस्तत्र शृणोत्येष योगी ध्वनिमनावृतम् । सुविशुद्धस्य कांस्यस्य हतस्येह मुहुर्मुह
23.4
यमाक्र्ण्य महादेवि पुण्यपापैः प्रमुच्यते । तत्र संधाय चैतन्यं षण्मासाद्योगवित्तम
23.5
रुतं पक्षिगणस्यापि प्रस्फुटं वेत्त्ययत्नतः । दूराच्छ्रवणविज्ञानं वत्सरेणास्य जाय
23.6
सर्वकामफलावाप्तिर्वत्सरत्रितयेन च । सिद्ध्यतीति किमाश्चार्यमनायासेन सिद्ध्यति
23.7
अथवा ग्रहणे मासि कृत्वा सूर्यं तु पृष्ठतः । पूर्वन्यासेन संनद्धः किं चिद्भित्तिम
23.8
लक्षयेदात्मनश्छायां मस्तकोर्ध्वमनाहतम् । धूमवर्तिविनिष्क्रान्तां तद्गतेनान्तरात्
23.9
याति तन्मयतां तत्र योगयुक्तो यथा यथा । तथा तथास्य महती साऌवित्तिरुपजायते
23.10
ततस्तत्र महातेजह्स्फुरत्किरणसंनिभम् । पश्यते यत्र दृष्टेऽपि सर्वपापक्षयो भवेत्
23.11
तदस्याभ्यासतो मासात्सर्वत्र प्रविसर्पति । ज्वालामालाकुलाकारा दिशः सर्वाः प्रपश्य
23.12
षण्मासमभ्यसन्योगी सर्वज्ञत्वमवाप्नुयात् । अब्दं दिव्यतनुर्भूत्वा शिववन्मोदते चिर
23.13
अथ जात्यः प्रवक्ष्यन्ते सपूर्वासनशाश्वताः । ह्रीं क्ष्लां क्ष्वीं वं तथाऌक्षं च
23.14
हं यं रं लं तथा वं च पञ्चकस्यापरस्य च । ऋं ।र्ं ऌं ।ल्ं तथा ॐ औं हः अं आकर्णिकाव
23.15
केसरेषु भकारान्ता हं हां हिं हीं च हुं तथा । हूं हें हैं च दलेष्वेवं स्वसंज्ञाभि
23.16
मण्डलत्रितये शेषं सूक्ष्मं प्रेतस्य कल्पयेत् । ज्रकारं शूलशृङ्गाणामित्येतत्परिकी
23.17
अनुक्तासनयोगेषु सर्वत्रैव प्रकल्पयेत् । नमः स्वाहा तथा वौषट् हुं वषट्फट्च जातयः
23.18
प्रायश्चित्तेषु सर्वेषु जपेन्मालामखण्डिताम् । भिन्नां वाप्यथवाभिन्नामतिक्रमबलाबल
23.19
सकृज्जपात्समारभ्य यावल्लक्षत्रयं प्रिये । प्राणवृत्तिनिरोधेन ततः परतरं क्व चित्
23.20
सदा भ्रमणशीलानां पीठक्षेत्रादिकं बहिः । प्रयोगं संप्रवक्ष्यामि सुखसिद्धिफलप्रदम्
23.21
नासाक्रान्तं महाप्राणं दण्डरूपं सबिन्दुकम् । तद्वद्गुह्यं च कुर्वीत विद्येयं द्व
23.22
अस्याः पूर्वोक्तविधिना कृतसेवः प्रसन्नधीः । पीठादिकं भ्रमेत्सिद्ध्यै नान्यथा वीर
23.23
तत्प्रदेशं समासाद्य मन्त्रैरात्मानमादरात् । विद्यया वेष्तयेत्स्थानं रक्तसूत्रसमा
23.24
बहुधानन्यचित्तस्तु सबाह्याभ्यन्तरं बुधः । ततस्तत्र क्व चित्क्षेत्रे योगिन्यो भीम
23.25
समागत्य प्रयच्छन्ति संप्रदायं स्वकं स्वकम् । येनासौ लब्धमात्रेण संप्रदायेन सुव्र
23.26
तत्समानबलो भूत्वा भुङ्क्ते भोगान्यथेप्सितान् । अथवा कृतसेवस्तु लक्षमेकं जपेत्सुध
23.27
तर्पयित्वा दशांशेन क्षुद्रकर्मसु योजयेत् । तत्रोच्चारितमात्रेयं विषक्षयकरी भवेत्
23.28
चक्रवभ्रममाणैषा योनौ रक्तां विचिन्तयेत् । गमागमक्रमाद्वापि विन्द … वारिता
23.29
तत्रस्थश्चाशु संघातविघाताकुञ्चनेन तु । क्षणादनन्यचित्तस्तु क्षोभयेदुर्वशीमपि
23.30
कृतसेवविधिर्वाथ लक्षत्रयजपेन तु । महतीं श्रियमाधत्ते पद्मश्रीफलतर्पिता
23.31
षडुत्थासनसंस्थाना साधिताप्युक्तवर्त्मना । सर्वसिद्धिकरी देवी मन्त्रिणामुपजायते
23.32
शूलपद्मविधिं मुक्त्वा नवात्माद्यं च सप्तकम् । षडुत्थमासनं दद्यात्सर्वचक्रविधौ बु
23.33
कुद्रा च महती योज्या हृद्बीजेनोपचारकम् । अथान्यत्संप्रवक्ष्यामि स्वप्नज्ञानमनुत्
23.34
हृच्चक्रे तन्मयो भूत्वा रात्रौ रात्रावनन्यधीः । मासादूर्ध्वं महादेवि स्वप्ने यत्
23.35
तत्तथ्यं जायते तस्य ध्यानयुक्तस्य योगिनः । तत्रैव यदि कालस्य नियमेन रतो भवेत्
23.36
तदा प्रथमयामे तु वत्सरेण शुभाशुभम् । षट्त्रिमासेन क्रमशो द्वितीयादिष्वनुक्रमात्
23.37
अरुणोदयवेलायां दशाहेन फलं लभेत् । संकल्पपूर्वकेऽप्येवं परेषामात्मनोऽपि वा
23.38
क्व चित्कार्ये समुत्पन्ने सुप्तज्ञानमुपाक्रमेत् । इत्येतत्कथितं देवि सिद्धयोगीश्
23.39
नातः परतरं ज्ञानं शिवाद्यवनिगोचरे । य एवं तत्त्वतो वेद स शिवो नात्र संशयः
23.40
तस्य पादरजः मूर्ध्नि धृतं पापप्रशान्तये । एतच्छ्रुत्वा महादेवी परं संतोषमागता
23.41
एवं क्षमापयामास प्रणिपत्य पुनः पुनः । इति वः सर्वमाख्यातं मालिनीविजयोत्तरम्
23.42
ममैतत्कथितं देव्या योगामृतमनुत्तमम् । भवद्भिरपि नाख्येयमशिष्याणामिदं महत्
23.43
न चापि परशिष्याणामपरीक्ष्य प्रयत्नतः । सर्वथैतत्समाख्यातं योगाभ्यासरतात्मनाम्
23.44
प्रयातानां विनीतानां शिवैकार्पितचेतसाम् । कार्तिकेयात्समासाद्य ज्ञानामृतमिदं महत
23.45
मनयो योगमभ्यस्य परां सिद्धिमुपागताः
← सूर्याकृष्ट्यधिकारः