← Malinivijayottara Tantra
Malinivijayottara Tantra
पञ्चमोऽधिकारः
36 verses · Revealed scripture (Trika agama)
5.1
अथातः संप्रवक्ष्यामि भुवनाध्वानमीश्वरि । आदौ कालाग्निभुवनं शोधितव्यं प्रयत्नतः
5.2
अवीचिः कुम्भीपाकश्च रौरवश्च तृतीयकः । कूष्माण्डभुवने शुद्धे सर्वे शुद्धा न संशयः
5.3
पातालानि ततः सप्त तेषामादौ महातलम् । रसातलं ततश्चान्यत्तलातलमतः परम्
5.4
सुतलं नितलं चेति वितलं तलमेव च । हाटकेन विशुद्धेन सर्वेषां शुद्धिरिष्यते
5.5
तदूर्ध्वं पृथिवी ज्ञेया सप्तद्वीपार्णवान्विता । देवानामाश्रयो मेरुस्तन्मध्ये संव
5.6
भुवोलोकस्तदूर्ध्वे च स्वर्लोकस्तस्य चोपरि । महो जनस्तपः सत्यमित्येतल्लोकसप्तकम्
5.7
चतुर्दशविधो यत्र भूतग्रामः प्रवर्तते । स्थावरः सर्पजातिश्च पक्षिजातिस्तथापरा
5.8
मृगसंज्ञश्च पश्वाख्यः पञ्चमोऽन्यश्च मानुषः । पैशाचो राक्षसो याक्षो गान्धर्वश्चैन
5.9
सौम्यश्च प्राजापत्यश्च ब्राह्मश्चात्र चतुर्दश । सर्वस्यैवास्य संशुद्धिर्ब्राह्मे
5.10
भुवनं वैष्णवं तस्मान्मदीयं तदनन्तरम् । तत्र शुद्धे भवेच्छुद्धं सर्वमेतन्न संशयः
5.11
कालाग्निपूर्वकैरेभिर्भुवनैः पञ्चभिः प्रिये । शुद्धैः सर्वमिदं शुद्धं ब्रह्माण्डा
5.12
तद्बहिः शतरुद्राणां भुवनानि पृथक्पृथक् । दश संशोधयेत्पश्चादेकं तन्नायकावृतम्
5.13
अनन्तः प्रथमस्तेषां कपालीशस्तथापरः । अग्निरुद्रो यमश्चैव नैरृतो बल एव च
5.14
शीघ्रो निधीश्वरश्चैव सर्वविद्याधिपोऽपरः । शंभुश्च वीरभद्रश्च विधूमज्वलनप्रभः
5.15
एभिर्दशैकसंख्यातैः शुद्धैः शुद्धं शतं मतम् । उपरिष्टात्पुरस्तेषामष्टकाः पञ्च संस
5.16
लकुली भारभूतिश्च दिण्ढ्याषाढी सपुष्करौ । नैमिषं च प्रभासं च अमरेशमथाष्टकम्
5.17
एतत्प्रत्यात्मकं प्रोक्तमतो गुह्यातिगुह्यकम् । तत्र भैरवकेदारमहाकालाः समध्यमाः
5.18
आम्रातिकेशजल्पेशश्रीशैलाः सहरीन्दवः । भीमेश्वरमहेन्द्राट्टहासाः सविमलेश्वराः
5.19
कनखलं नाखलं च कुरुक्षेत्रं गया तथा । गुह्यमेतत्तृतीयं तु पवित्रमधुनोच्यते
5.20
स्थानुस्वर्णाक्षकावाद्यौ भद्रगोकर्णकौ परौ । महाकालाविमुक्तेशरुद्रकोट्यम्बरापदाः
5.21
स्थूलः स्थूलेश्वरः शङ्कुकर्णकालञ्जरावपि । मण्डलेश्वरमाकोटद्विरण्डछगलाण्डकौ
5.22
स्थाण्वाष्टकमिति प्रोक्तमहङ्कारावधि स्थितम् । देवयोन्यष्टकं बुद्धौ कथ्यमानं मया
5.23
पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च । तथा सौम्यं सप्राजेशं ब्राह्ममष्टम
5.24
योगाष्टकं प्रधाने तु तत्रादावकृतं भवेत् । कृतं च रैभवं ब्राह्मं वैष्णवं तदनन्तरम
5.25
कौमारमौमं श्रैकण्ठमिति योगाष्टकं तथा । पुरुषे वामभीमोग्रभवेशानैकवीरकाः
5.26
प्रचण्डोमाधवाजाश्च अनन्तैकशिवावथ । क्रोधेशचण्डौ विद्यायां संवर्तो ज्योतिरेव च
5.27
कलातत्त्वे परिज्ञेयौ सुरपञ्चान्तकौ परे । एकवीरशिखण्डीशश्रीकण्ट्ःआः कालमाश्रिताः
5.28
महातेजः प्रभृतयोः मण्डलेशानसंज्ञकाः । मायातत्त्वे स्थितास्तत्र वामदेवभवोद्भवौ
5.29
एकपिङ्गेक्षणेशानभुवनेशपुरःसराः । अङ्गुष्ठमात्रसहिताः कालानलसमत्विषः
5.30
विद्यातत्त्वेऽपि पञ्चाहुर्भुवनानि मनीषिणः । तत्र हालाहलः पूर्वो रुद्रः क्रोधस्तथ
5.31
अम्बिका च अघोरा च वामदेवी च कीर्त्यते । ईश्वरे पिवनाद्याः स्युरघोरान्ता महेश्वरा
5.32
रौद्री ज्येष्ठा च वामा च तथा शक्तिसदाशिवौ । एतानि सकले पञ्च भुवनानि विदुर्बुधाः
5.33
एवं तु सर्वतत्त्वेषु शतमष्टादशोत्तरम् । भुवनानां परिज्ञेयं सङ्क्षेपान्न तु विस्त
5.34
शुद्धेनानेन शुद्ध्यन्ति सर्वाण्यपि न संशयः । सर्वमार्गविशुद्धौ तु कर्तव्यायां मह
5.35
सकलावधि संशोध्य शिवे योगं प्रकल्पयेत् । बुभुक्षोः सकलं ध्यात्वा योगं कुर्वीत योग
5.36
इत्येष कीर्तितो मार्गो भुवनाख्यस्य मे मतः
← योगलक्षणाधिकारः
देहमार्गाधिकारः →