← Malinivijayottara Tantra
Malinivijayottara Tantra
योगलक्षणाधिकारः
41 verses · Revealed scripture (Trika agama)
4.1
अथैतदुपसंश्रुत्य मुनयो मुदितेक्षणाः । प्रणम्य क्रौञ्चहन्तारं पुनरूचुरिदं वचः
4.2
योगमार्गविधिं देव्या पृष्टेन परमेष्ठिना । तत्प्रतिज्ञावताप्युक्तं किमर्थं मन्त्र
4.3
एवमुक्तः स तैः सम्यक्कार्तिकेयो महामतिः । इदमाह वचस्तेषां संदेहविनिवृत्तये
4.4
योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुना । यद्वस्तु ज्ञेयमित्युक्तं हेयत्वादिप्र
4.5
द्विरूपमपि तज्ज्ञानं विना ज्ञातुं न शक्यते । तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यद
4.6
सबीजयोगसंसिद्ध्यै मन्त्रलक्षणमप्यलम् । न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्क
4.7
क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते । द्विविधा सा प्रकर्तव्या तेन चैतदुदाहृत
4.8
न च योगाधिकारित्वमेकमेवानया भवेत् । अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया
4.9
श्रुत्वा चैतत्पतेर्वाक्यं रोमाञ्चितशरीरिणी । इदमाह पुनर्वाक्यमम्बा मुनिवरोत्तमाः
4.10
अभिन्नमालिनीकाये तत्त्वानि भुवनानि च । कलाः पदानि मन्त्राश्च यथावदवधारिताः
4.11
भिन्नयोनिस्तु या देव त्वयोक्ता मालिनी मम । तस्या अङ्गे यथैतानि संस्थितानि तथा वद
4.12
एवमुक्तो महादेव्या भैरवो भूरिभोगदः । स्फुरद्धिमांशुसंतानप्रकाशितदिगन्तरः
4.13
सुरासुरशिरोमौलिमालालालितशासनः । उवाच मधुरां वाचमिमामक्लेशिताशयाम्
4.14
या मया कथिता देवि भिन्नयोनिस्तु मालिनी । तदङ्गे संप्रवक्ष्यामि सर्वमेतद्यथा स्थि
4.15
फे धरातत्त्वमुद्दिष्टं दादिझान्तेऽनुपूर्वशः । त्रयोविंशत्यबादीनि प्रधानान्तानि ल
4.16
ठादौ च सप्तके सप्त पुरुषादीनि पूर्ववत् । इङघेषु त्रयं विद्याद्विद्यातः सकलावधि
4.17
शिवतत्त्वे गकारादिनान्तान्षोडश लक्षयेत् । कलाः पदानि मन्त्राश्च भुवनानि च सुन्दर
4.18
पूर्ववद्वेदितव्यानि तत्सङ्ख्यार्णविभेदतः । विद्यात्रयविभागेन यथेदानीं तथा शृणु
4.19
निष्कले पदमेकार्णं त्र्यर्णैकार्णमथ द्वयम् । सकले तु परिज्ञेयं पञ्चैकार्णद्वयं द
4.20
चतुरेकाक्षरे द्वे च मायादित्रितये मते । चतुरक्षरमेकं च कालादिद्वितये मतम्
4.21
रञ्जके द्व्यर्णमुद्दिष्टं प्रधाने त्र्यर्णमिष्यते । बुद्धौ देवाष्टकव्याप्त्या पद
4.22
ततः पञ्चाष्टकव्याप्त्या द्व्येकद्विद्व्यक्षराणि तु । विद्यापदानि चत्वारि सार्धवर
4.23
एकैकसार्धवर्णानि त्रीणि तत्त्वे तु पार्थिवे । पराङ्गे सर्वमन्यच्च वर्णमन्त्रकलाद
4.24
सार्धेनाण्डद्वयं व्याप्तमेकैकेन पृथग्द्वयम् । अपरायाः समाख्याता व्याप्तिरेषा विल
4.25
सार्णेनाण्डत्रयं व्याप्तं त्रिशूलेन चतुर्थकम् । सर्वातीतं विसर्गेण पराव्याप्तिरु
4.26
एतत्सर्वं परिज्ञेयं योगिना हितमिच्छता । आत्मनो वा परेषां वा नान्यथा तदवाप्यते
4.27
द्वावेव मोक्षदौ ज्ञेयौ ज्ञानी योगी च शाङ्करि । पृथक्त्वात्तत्र बोद्धव्यं फलकाङ्क
4.28
ज्ञानं च त्रिविधं प्रोक्तं तत्राद्यं श्रुतमिष्यते । चिन्तामयमथान्यच्च भावनामयमेव
4.29
शास्त्रार्थस्य परिज्ञानं विक्षिप्तस्य श्रुतं मतम् । इदमत्रेदमत्रेति इदमत्रोपयुज्
4.30
सर्वमालोच्य शास्त्रार्थमानुपूर्व्या व्यवस्थितम् । तद्वच्चिन्तामयं ज्ञानं द्विरूप
4.31
मन्दस्वभ्यस्तभेदेन तत्र स्वभ्यस्तमुच्यते । सुनिष्पन्ने ततस्तस्मिञ्जायते भावनामयम
4.32
यतो योगं समासाद्य योगी योगफलं लभेत् । एवं विज्ञानभेदेन ज्ञानी प्रोक्तश्चतुर्विधः
4.33
संप्राप्तो घटमानश्च सिद्धः सिद्धतमोऽन्यथा । योगी चतुर्विधो देवि यथावत्प्रतिपद्यत
4.34
समावेशोक्तिवद्योगस्त्रिविधः समुदाहृतः । तत्र प्राप्तोपदेशस्तु पारम्पर्यक्रमेण यः
4.35
प्राप्तयोगः स विज्ञेयस्त्रिविधोऽपि मनीषिभिः । चेतसो घटनं तत्त्वाच्चलितस्य पुनः प
4.36
यः करोति तमिच्छन्ति घटमानं मनीषिणः । तदेव चेतसा नान्यद्द्वितीयमवलम्बते
4.37
सिद्धयोगस्तदा ज्ञेयो योगी योगफलार्थिभिः । यः पुनर्यत्र तत्रैव संस्थितोऽपि यथा तथ
4.38
भुञ्जानस्तत्फलं तेन हीयते न कथञ्चन । सुसिद्धः स तु बोद्धव्यः सदाशिवसमः प्रिये
4.39
उत्तरोत्तरवैशिष्ट्यमेतेषां समुदाहृतम् । ज्ञानिनां योगिनां चैव द्वयोर्योगविदुत्तम
4.40
यतोऽस्य ज्ञानमप्यस्ति पूर्वो योगफलोज्झितः । यतश्च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञा
4.41
इत्येतत्कथितं सर्वं विज्ञेयं योगिपूजिते । तन्त्रार्थमुपसंहृत्य समासाद्योगिनां हि
← मन्त्रोद्धाराधिकारः
पञ्चमोऽधिकारः →