← Nada Bindu Upanishad
नादबिन्दूपनिषत्

Verse 1.1

वैराजात्मोपासनया सञ्जातज्ञानवह्निना । दग्ध्वा कर्मत्रयं योगी यत्पदं याति तद्भजे ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्टितम् । आविरावीर्म एधि । वेदस्य मा आणीस्थः । श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान्सन्दधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु मामवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः
ॐ अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः । मकारं पुच्छमित्याहुरर्धमात्रा तु मस्तकम्

A contemplative reading in the spirit of the Mantra and sound (a Yoga Upanishad of the inner sound) tradition — an aid to reflection, not a substitute for a living teacher or the classical commentaries.

Get your free birth chart → Sign in and the readings shift to your own placements.

Go deeper